सर्वं स्वप्नसमं गतम् – 28-07-2018

 

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

ज्ञानी धनी बलीत्येव-
महंकुर्वन्ति मानवाः।
भागधेयस्य वैषम्ये
सर्वं स्वप्नसमं गतम्၊၊

Hareesh kumar

“അഭിനന്ദനങ്ങള്‍”

14 Responses to सर्वं स्वप्नसमं गतम् – 28-07-2018

  1. Gireesh C R says:

    आगतोपगता तन्वी
    ललाटाधररम्भणैः၊
    चुम्बितापि विभाते तत्
    सर्वं स्वप्नसमं गतम्

  2. Mahesh Ambadi says:

    अद्य मास्तु भवेत् पश्चात्
    विवाह इति चिन्तयन् ।
    काले गच्छति तत्कार्यं
    सर्वं स्वप्नसमं गतम्॥

  3. Jayakrishnan C.P says:

    മൂന്നാംസ്ഥാനം

    रघुवंशं मया सर्वम्
    परीक्षायै कृतं हृदि၊
    फले प्रकाशिते तत्र
    सर्वं स्वप्नसमं गतम्॥

  4. Hareesh kumar says:

    ഒന്നാംസ്ഥാനം

    ज्ञानी धनी बलीत्येव-
    महंकुर्वन्ति मानवाः।
    भागधेयस्य वैषम्ये
    सर्वं स्वप्नसमं गतम्၊၊

  5. Narayananvjp says:

    मातरं शुश्रूषमाणेन
    इच्छामि कालयापनं ।
    अकाले मातृनष्टेन
    सर्वं स्वप्नसमं गतम् ।।

  6. विद्यालक्ष्मी एम् says:

    चिरकालाभिलाषो मे
    नवगेहप्रवेशनम्
    अतिवर्षे प्रवृत्ते तु
    सर्वं स्वप्नसमं गतम्

  7. ഹരികൃഷ്ണൻ എം , കടമ്പൂർ ഹയർ സെക്കന്ററി സ്കൂൾ ,കണ്ണൂർ says:

    १ रात्रौ सुषुप्त्यवस्थायाम् प्रत्यक्षा देवसुन्तरी |
    श्रुत्वा तु मातुराह्वानम् सर्वं स्वप्नसमं गतम् ।।

    २ भुभुक्षा वारणं कर्तुम् प्रभातेगतवानहम्।
    नागतं भोजनं ज्ञात्वा सर्वं स्वप्नसमं गतम् ।।

  8. Ratheesh. A K says:

    രണ്ടാംസ്ഥാനം

    धनं बन्धुबलं चैव
    यात्रा सौहृदमेलनम्।
    निपा व्याधे प्रवृत्ते तु
    सर्वं स्वप्नसमंगतम् ॥

  9. V S Pravitha says:

    നൃത്തം ഗാനം തഥാക്രോശ:
    സസ്യരോപണ വ്യാപനം.
    മയി സമാഗതേ ദൗത്യം
    സർവ്വം സ്വപ്ന സമം ഗതം.

  10. Maya PR says:

    जलोपप्लवमागते
    निम्नप्रदेशवासिनाम् ।
    आर्जितुम् सर्वस्वमपि
    सर्वम् स्वप्नसमम् गतम् ॥

  11. Dr.Nidheesh Gopi says:

    മൂന്നാംസ്ഥാനം

    राष्ट्रभाषेति सर्वेषाम्
    राजिता वाग्विहायसि၊
    राजनैतिकद्यूते तु
    सर्वं स्वप्नसमं गतम्၊၊

Leave a Reply

Your email address will not be published. Required fields are marked *