छात्रारक्षकशिशिक्षुः (Student Police Cadet)पद्धतिः राष्ट्रियतले अपि।

कोच्ची- राज्ये विजयकररूपेण प्रचाल्यमाना छात्रारक्षकशिशिक्षुपद्धतिः राष्ट्रियतलेपि आयोजयितुं निर्णयः। शनिवासरे हरियाणायां गुर्गावे आयोज्यमाने अधिवेशने केन्द्रिय गृहमन्त्री एतत्सम्बन्धि प्रख्यापनं विधास्यति। अनेन भारते सर्वेषु राज्येषु केन्द्रशासित-प्रदेशेषु च एस्.पी.सी. प्रवर्तनं भविता।

     केरलम् आदर्शत्वेन स्वीकृत्य हरियाणा, कर्णाटक, राजस्थान् प्रभृतीनि राज्यानि अपि एनां पद्धतिम् आविरकुर्वन्। प्रख्यापनमिदं साक्षात्कर्तुं केरलदेशात् आरक्षकदलस्य उन्नताधिकारिणः कर्मकराः शिॆक्षकाः छात्राश्चाहत्य २६अङ्गसङ्घः गुर्गाव् देशं प्राप्स्यति।

     छात्रेषु अनुशासनं व्यक्तित्वविकासं च द्रढयितुं क्रियात्मकमनोभावं स्वास्थ्यशीलानि च संवर्धयितुं  केरलेषु इयं पद्धतिः आविष्कृता। अस्मिन् निर्णये मुख्यमन्त्री स्वपरितोषं प्रकटितवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *