नववाणी संरंभः संस्कृतोत्सव-विचारसभामध्ये विद्याभ्यासमन्त्रिः उद्घाटयिष्यति।

तृश्शूर् – नववाणी – मोबैल् आप् – संरंभः केरला-स्कूल्-कलोत्सवस्य राज्यस्तरीय-संस्कृतविचारसभायाः वेदिकायां केरलशिक्षामन्त्रिणा प्रॊफ. रवीन्द्रनाथमहोदयेन उद्घाटयिष्यते। अयं संरंभः केरलीयानां संस्कृतप्रेमिणां चिरकालाभिलाष एव आसीत्।

केरलेषु प्रप्रथमम् इरिङ्ङालक्कुटा शिक्षामण्डले संस्कृत- अक्कादमिक- समितिः १०-०२-२०१० तमे वर्षे नववाणीनामकस्य संस्कृतजालपुटस्य आरम्भमकरोत्। केरलस्य शिक्षाक्षेत्रेषु संस्कृतपठनपाठनरीतीः आधुनिकीकर्तुं नववाणयाः अनिषेध्यं योगदानमस्ति।

इदानीं नववाणी नामकं मॊबैल् आप् द्वारा संस्कृतविषयकं सर्वमपि कार्यं सर्वेषां कृते कुर्वन् विराजते। तदर्थं सस्कृतलोकः नववाणीं प्रति कृतज्ञप्रकाशकाः भवेयुः।

Leave a Reply

Your email address will not be published. Required fields are marked *