जिषावधव्यवहारः अपराधिने मृत्युदण्डः।

कोच्ची – जिषावधव्यवहारे अपराधी अमिरुल् इस्लामः मृत्युदण्डाय कल्पितः। एरणाकुलं मुख्य सेषन्स् न्यायाधीशः एन्. अनिल् कुमार् महाशयः दण्डम् उदघोषयत्। अपूर्वः व्यवहार एवेति मत्वा मृत्युदण्डः घोषितः। इतरेषु अनुबन्धापराधेषु आजीवं, दशवर्षाणि, सप्तवर्षाणि इत्येवं प्रत्येकं कारावासः पञ्चलक्षरूप्यकाणां दणडश्च पृथक् घोषितः। अतिक्रूरः अपराधः अमिरुल् इस्लामेन कृतः इति विॆधिप्रस्तावे न्यायालयः समसूचयत्। अपराधिनं विय्यूर् केन्द्रकारागारं प्रति नेष्यति।

व्यवहारे अमिरुल् इस्लाम् अपराधी एवेति बुधवासरे न्यायालयः समलक्षयत्।

नियमविद्यार्थी जिषा २०१६ एप्रिल् २८ तमे दिनाङ्के पेरुम्पावूर् समीपस्थे स्वकीये एकप्रकोष्ठपरिमिते गृहे एव मारिता आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *