केरला-स्कूल् कलोत्सवस्य अवलोकनसभा सम्पन्ना।

तृश्शिवपुरम् – केरला स्कूल् कलोत्सवस्य सम्यक् चालनार्थं कार्यकर्तृणाम् अवलोकनयोगः मातृका-बालिका-विद्यालयस्य वेदिकायां सुसम्पन्नः। शिक्षामन्त्री प्रॊफ. रवीन्द्रनाथः, कृषिमन्त्री श्री सुनिलकुमारः, सामान्यशिक्षाविभागस्य अध्यक्षः श्री मोहनकुमार् ऐ.ए.एस् प्रभृतयः भागं गृहीतवन्तः। तस्मिन् शिक्षामन्त्रिणा अवोचत् यत् कौमारकलोत्सवः मालिन्यमुक्तः, ललितः, आक्षेपरहितः च भवितव्य इति। कृषिमन्त्रिणा सुनिलकुमारेण निगदितं यत् कलोत्सवः निश्चयेन परिस्थिति-सौहृदपरः (ग्रीन् – क्लीन्)भवितव्यः। अपि च भक्ष्यविभवाः सर्वे कीटनाशिनि-मुक्त-जैवशाकादीनि उपयोक्तव्यानि। योगेfस्मिन् संस्कृतोत्सवस्य उपकर्तृणा श्री विवेकमहदयेन  संस्कृतोत्सवस्य विचारसभायाः च कार्यक्रमाः समग्रतया आसूत्रणं कृताः इति प्रख्यापितम्। विचारसभामध्ये नववाणीसंरंभस्य समुद्घाटनं शिक्षामन्त्रिणा करणीयमिति वेदिकायामेव प्रार्थितवानयम्। सामान्यशिक्षाधिकारिणी डो.सुनीतीदेवी प्रभृतयः सन्निहिताः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *