प्रधानमन्त्री अद्य केरलराज्ये, अनन्तपुरी सुरक्षावलये।

तिरुवनन्तपुरम् – ओखी दुरन्तानन्तरं दुरितबाधितान् जनान् साक्षाद्द्रष्टुं प्रधानमन्त्री नरेन्द्रमोदीवर्यः अद्य केरलराज्यं प्राप्नोति। लक्षद्वीपसन्दर्शनात् परमेव ते अत्रागमिष्यन्ति।३५०० कोटि रूप्यकाणां पुनरधिवाससाहाय्यं प्रधानमन्त्रिणं प्रार्थयिष्यन्ते इति लत्तीन् क्रैस्तवसभानेतारः समसूचयन्।

     ओखी दरन्तं देशीयदुरन्तत्वेन परिगणनीयमिति आवेदनानां मध्ये एव प्रधानमन्त्रिणः केरलसन्दर्शनम्। दुरन्तबाधितानां कृते केन्द्रियसाहाय्यम् इतः पर्यन्तं न प्रख्यापितम्।

     केरलेषु पून्तुरा देशे तीरदेशवासिनः मत्स्यबन्धनकर्मकरान् च प्रधानमन्त्री मिलिष्यति। ततः तैक्काट् अतिथिमन्दिरे मुख्यमन्त्रिणा, मन्त्रिभिः राजनैतिकनेतृभिश्च समं साक्षात्कारः भविष्यति। सायं षट्वादने प्रधानमन्त्री दिल्लीं प्रति गमिष्यति। दुरन्तव्याप्तिं प्रधानमन्त्रिणः पुरतः अवतारयितुं दृश्यावतरणादीन् उपायान् राज्यसर्वकारःआयोजयति। प्रधानमन्त्रिणः सन्दर्शनवेलायाम् अनन्तपुर्यां सुरक्षाक्रमीकरणं शक्तमकरोत्।

Leave a Reply

Your email address will not be published. Required fields are marked *