Monthly Archives: December 2017
ओखी दुरन्ते मृतानां संख्या ६४, प्रत्यभिज्ञां विना ३६ मतशरीराणि।
तिरुवनन्तपुरम् – ओखी दुरन्ते इतः पर्यन्तं ६४ कर्मकराः मृताः इति औद्योगिकी विज्ञप्तिः। बुधवासरे प्रातः विविधजिल्लासु सागरतीरेभ्यः सप्त मृतदेहाः लब्धाः। बेप्पूर् पोन्नानि चेल्लानं प्रभृतिभ्यः तीरेभ्यः एव एते लब्धाः। सागरे मत्स्यबन्धनार्थं गताः कर्मकराः एव मृतदेहान् दृष्टवन्तः। तेषां सूचनानुसारं तीरदेशरक्षिदलम् आगत्य मृतशरीराणि तीरमनयत्।
एतस्मिन्नन्तरे राज्यस्थेषु विविधेषु चिकित्सालयेषु विना प्रत्यभिज्ञानं ३६ मृतदेहाः सन्तीति अधिकृतैः विज्ञापितम्।
सौदि-अरबियाराज्ये चलचित्रनिरोधनस्य समाप्तिः।
पूर्वसंस्कृतिज्ञानं संस्कृते एव, शङ्कराचार्यः विज्ञानस्य प्रतीकम्, – मुख्यमन्त्री।
अस्माकं संस्कृतेः अधिष्ठानं संस्कृतभाषा एव तां भाषां न्यूनीकर्तुं य़ः परिश्रमः सः विज्ञानस्य पिधानसमः स्यात् इति केरलमुख्यमन्त्री श्री पिणरायि विजयःअवदत्। विज्ञानेन दिग्विजयमवाप्तवान् शङ्कराचार्यः। विज्ञानेन अन्धकारनिरासरूपी आसीत् तस्य दिग्विजययात्रा। शङ्राचार्यस्य नामधारिणः विश्वविद्यालयस्य लक्ष्यम् उत्तरदायित्वं च तादृश एव भवेत् इत्यपि स न्यगादीत्।कालटी सर्वकलाशालायाः रजतजयन्ती समारोहम् उद्घाटनं कुर्वन् भाषमाण आसीत् मुख्यमन्त्री। उपकुलपतिः डो. धर्मराज अटाट् अध्यक्षः आसीत्। भूतपूर्वाः उपकुलपतिवर्याः समारोहे समादृताः।
ओखी दुरन्ते फ्रान्सिस् मार्पापा अन्वशोचत्।
वत्तिक्कान् – ओखी दुरन्ते अनुशोचनम् आशङ्कां च सूचयन् क्रैस्तवानां परमाध्यक्षः फ्रान्सिस् मार्पापा। केरले तमिल् नाटु राज्ये च दुरितमनुभवद्भिः सहैव मम हृदयमपीति मार्पापा वर्यः वत्तिक्कान् नगरे अवोचत्। तिरोभूतानां मत्स्यबन्धनकर्मकराणां परिवारेभ्यः सः स्वकीयं साहाय्यम् आवेदयत्। सेय्न्ट् पीट्टेर्स् चत्वरे प्रार्थनायाः अनन्तरमेव मार्पापा ओखी दुरन्तबाधितान् अन्वस्मरत्।
राजभवनं प्रति मत्स्यबन्धनकर्मकराणां पथसञ्चलनं प्रारभत।
तिरुवनन्तपुरम् – ओखी दुरन्तनिवारणप्रवर्तनेषु केन्द्र-राज्य प्राशासनिकानां दायित्वं फलप्रदं नास्तीति संसूच्य मत्स्यबन्धनकर्मकराणां राजभवनपथसञ्चलनं आनन्तपुर्यां प्रारभत। प्रातः ११.३० वादने लत्तीन् क्रैस्तवीयानां सभाध्यक्षः डो.एं सूसैपाक्यं पथसञ्चलनम् उदघाटयत्। पथसञ्चलने ५०००० अधिकाः कर्मकराः भागं गृहीताः। दुरन्ते तिरोभूतान् कर्मकरान् सपदि गोचरान् कर्तुं सुविधा आयोजनीया, ओखी राष्ट्रियदुरन्तत्वेन परिगणनीया, नष्टमनुभूतान् पुनरधिवस्तुं पद्धतयः आसूत्रणीयाः इत्येवमादयः तेषां चोदनाः।
राज्यस्तरीय-विद्यालयकलोत्सवार्थं तृशिवपुरनगरं सज्जम्।
तृशूर्- ५८तमः केरलराज्यस्तरीयः विद्यालयकलोत्सवः जनुवरी मासे तृशूर् नगरे सम्पत्स्यते। कलोत्सवस्य मुख्यवेदिकायाः स्थूणारोहणं कृषिमन्त्री श्री सुनिल् कुमार् वर्यः निरवहत्। तृशूर् तेक्किन् काट् प्रदर्शिका स्थलमेव मुख्यवेदिका। तृशूर् जनपदीयानां सामाजिकानां सान्निध्ये आसीत् स्थूणारोहणम्। अत्रत्याः जनाः सन्तोषेण कलोत्सवं प्रतीक्षन्ते इति मन्त्री अवदत्।
जि एस् टी वरमेव हि – 16 -12 – 2017
नूतनी समस्या –
“जि एस् टी वरमेव हि”
Last date: 16-12-2017
ഒന്നാംസ്ഥാനം
राष्ट्रक्षेमं पुरस्कृत्य
मोदिनादीर्घदर्शिना।
कृतं राज्यविकासाय
जिएस्टि वरमेवहि।
Rajakrishnan Sreekrishnapuram
“വിജയികൾക്ക് അഭിനന്ദനങ്ങൾ”
PRASNOTHARAM 16-12-2017
प्रश्नोत्तरम्।
Last date: 16-12-2017
- एतेषु कः प्रयोगः साधुः ?(क) ग्रामस्य परितः(ख) ग्रामं परितः (ग) ग्रामेण परितः
- कर्मणि प्रयोगे कर्ता कस्यां विभक्तौ प्रयोक्तव्यः ?(क) प्रथमायां (ख) तृतीयायां (ग) पञ्चम्यां
- उपमालङ्कारवाचकशब्दः — (क) एव (ख) मन्ये (ग) इव
- “बहुजनहिताय बहुजनसुखाय ” एतत् ध्येयवाक्यम् (क) दूरदर्शिन्याः (ख) दूरवाण्याः (ग) आकाशवाण्याः
- ” ताराप्पूर् ” इति नगरं कथं विख्यातम् ? (क) आणवनिलयेन (ख) नक्षत्रपठनकेन्द्रेण (ग) मत्स्यबन्धनकेन्द्रेण
- ” स्म ” योगे भूतकालार्थः कस्य लकारस्य भवति ? (क) लिट् (ख) लट् (ग) लङ्
- नारायणीयं कस्मिन् काव्यविभागे अन्तर्भवति ? (क) नीतिकाव्ये (ख) महाकाव्ये (ग) स्तोत्रकाव्ये
- कालिदासस्य अभिमततमा नगरी का इति विज्ञायते ? (क) वाराणसी (ख) अवन्ती (ग) उज्जयिनी
- एषु व्याकरणकारः कः ? (क) वसिष्ठः (ख) पाणिनिः (ग) कपिलः
- आधारार्थबोधिनी विभक्तिः — (क) सप्तमी (ख) पञ्चमी (ग) तृतीया
ഈയാഴ്ചയിലെ വിജയി
DEVAN, kapothan@gmail.com
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരമയച്ചവര്:
- DEVAN, kapothan@gmail.com
- Arshadevi M P, Highersecondary School, Sreekrishnapuram
- Vasudha Neelamana, vasudhaneelamana@gmail.com
- Sophia E V, GHSS Kottayi
- Smitha Nambiar, GHS Nellikkurussi
- Bushara V, PGUPS Nediyanga Kannur
- Dilkrishna C S, Std 7B St.Marys HS Chengaloor
- Uma, neelamana.uma@gmail.com
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
डो. धर्मराज् अटाट् कालटिसर्वकलाशालायाः उपकुलपतिः।
श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः उपकुलपतित्वेन डो. धर्मराज् अटाट् महाभागःस्थानारूढः। गतान् त्रिचतुरान् मासान् यावत् स उपकुलपतेः अतिरिक्तदायित्वे आसीत्। कालटि श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाम् अध्यापकपदवीमलंकृतः अयं साहित्यविभागे अध्यक्षः, संस्कृतप्रचारणकार्यक्रमस्य निर्वहणाधिकारी इत्यादिषु पदवीषु स्वकर्तव्यं प्रशस्तरूपेण निरवहत्।अनन्तरम् अतिरिक्तोपकुलपतिरूपेण कर्तव्ये निरतः असीत्। संस्कृतपण्डित एव संस्कृतसर्वकलाशालायाः उपकुलपतिः जातः इत्येतत् संस्कृतप्रेमिणाम् अभिमानास्पदं भवति। श्रीमते धर्मराज् अटाट् वर्याय नववाण्याः हार्दिकाः शुभकामनाः।