संसदः शैत्यकालाधिवेशनम् अद्य प्रारभते।

नवदिल्ली – सार्धैकमासस्य विलम्बानन्तरं संसदः शैत्यकालाधिवेशनम् अद्य प्रारभते। सभामेलनं १४ दिवसपर्यन्तं भविता। गुजरात् निर्वाचनफलं संसदधिवेशनस्य गतिनिर्णयं करिष्यति। पाकिस्तानेन सह मिलित्वा गुजरात् निर्वाचनं विच्छिन्नं कर्तुं भतपूर्वः प्रधानमन्त्री डो. मन्मोहन् सिंहः प्रायतत इति प्रधानमन्त्रिणः नरेन्द्रमोदिनः आक्षेपः तथा गुजरात् निर्वाचने मुख्य निर्वाचनायुक्तस्य पक्षपातित्वमिति विपक्षिदलानाम् आक्षेपश्च सभामेलनं प्रक्षुब्दं करिष्यति। मुत्तलाख् प्रभृतीन् विषयानधिकृत्य देयकान्यपि अस्मिन्नधिवेशने प्रस्तोष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *