Monthly Archives: April 2022

नतनः राष्ट्रीय-पाठ्यचर्यावन्धः-अनुशासनपत्रं प्रकाशितम्।

बङ्गलूरु- राष्ट्रिय-पाठ्यपद्धतिनीतेः आधारेण पाठ्यचर्याबन्धस्य(Curriculum Framework) सज्जीकरणाय अनुशासनपत्रं(Mandate Document) केन्द्रसर्वकारेण शुक्रवासरे प्रकाशितम्। राष्ट्रे शिक्षासम्प्रदायम् औपनिवेशीकरणात् मोचयितुं समर्थः पदविन्यासः एवेदमिति अनुशासनपत्रं प्रकाशयन् केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान् वर्यः अवदत्।

ऱाष्ट्रिय-शिक्षानीतिरेव तत्त्वम्। राष्ट्रिय- पाठ्यचर्याबन्ध एव मार्गः। अधुना प्रकाशितम् अनुशासनपत्रमेव संविधानम्। इति मन्त्री सूचितवान्। के कस्तूरि रंगन् वर्यस्य आध्यक्ष्ये एतदर्थं मार्गनिर्देशक समितिरपि रूपवत्कृता।

सामान्यजनेभ्यः निरदेशान् स्वीकर्तुं मोबैल् आप् सज्जीकरोति। राष्ट्रिय- पाठ्यपद्धतिं प्रति निर्देशान् समर्पयितुं राष्ट्रतले 25 राज्यस्तरीयं केन्द्रबिन्दुसंधं न्ययोजयत्। मण्डलस्तरात् राष्ट्रस्तरं यावत् शिक्षासंस्थानानि, कर्मकराः, नयरूपवत्करणसमितयः इत्यादीनि केन्द्रीकृत्य सर्वेक्षणानि समालोचनानि च समायोज्यैव केन्द्रबिन्दुसंघः पाठ्यपद्धतिं प्रति निर्देशान् समर्पयिष्यतिॆ।

नैपुण्यविकासाय प्राधान्यं दास्यति – केरलीयशिक्षामन्त्री।

 कोच्ची- शिक्षामण्डले कोविड्पूर्वकालः कोविडनन्तरकालः इति विभजनम् अवश्यम्भावी इति सार्वजनीनशिक्षामन्त्री वी शिवन् कुट्टिवर्यः अवदत्।

राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे आयोजितम् अध्यापकसंगमं-२०२२ एस्-आर्-जी शक्तीकरणस्य राज्यस्तरीयम् उद्घाटनं विधास्यन् भाषमाणः आसीत् मन्त्री।

२०२२-२३ अध्य।नवर्षः जूण् प्रथमदिनाङ्के प्रारभते। छात्राणां रक्षाकर्तृणां च परिवर्तनानुसारम् अध्यापकानामपि परिवर्तनम् आवश्यकम्। सम्यगासूत्रणेन सहयोगप्रवर्तनेन च शिक्षाक्षेत्रे श्रेष्ठतामवाप्तुं शक्यते इत्यपि मन्त्रिणा उक्तम्।

एरणाकुले कलूर् रिन्यूवल् सेन्टर् स्थले आयोजिते अघिवेशने एरणाकुलं शिक्षा उपनिदेशिका हणी अलक्स्ण्डर् अध्यक्षा आसीत्।

प्रश्नोत्तरम् (भागः २३३) – 30-04-2022

EPISODE – 233

 

 

प्रश्नोत्तरम्।

 

 

 

  1. गोपालः – विवाहकार्यक्रमः ———किम्? (क) समाप्तः  (ख) समाप्तम्   (ग) समाप्ता
  2. मधुः – विवाहः समाप्तः। मम ——-अपि रिक्तः।(क) कोषम्  (ख) कोषा  (ग) कोषः
  3. गोपालः – ———? तावत् किं कृतवान् ? (क) कदा   (ख) किमर्थम्  (ग) कुत्र
  4. मधुः – विवाहसमये  अहं यानपेटिकां ———दत्तवान्। (क) जनकाय  (ख) जनकेन  (ग) जनकात्
  5. ——-नूतनं कण्ठहारं दत्तवान्। (क) अम्बां  (ख) अम्बायै  (ग) अम्बया
  6. अनुजाय ——–दत्तवान्। (क)  घटी  (ख) घट्यै  (ग)  घटीम्
  7. गोपालः – अनुजायै किं ——-? (क) दत्तवान्  (ख)  दत्तवती  (ग) दत्तवत्
  8. मधुः – अनुजायै अहं स्वर्णमयीं ——-दत्तवान् । (क) लेखनी  (ख) लेखनीम्  (ग) लेखन्या
  9. गोपालः – विवाहसमये श्वशुरः ——–किं दत्तवान् ? (क) भवते  (ख) भवतः  (ग) भवति
  10. मधुः – अहं तु ——– न स्वीकृतवान्। (क) वरदक्षिणा  (ख) वरदक्षिणाम् (ग) वरदक्षिणायाः

 

 

Last date: 30-04-2022

दुःखमेव महागुरुः (भागः २३३) – 30-04-2022

EPISODE – 233

नूतना समस्या –

“दुःखमेव महागुरुः”

ഒന്നാംസ്ഥാനം

“ജീവിതാഹവമധ്യേ തു
യത്തത്ത്വം ശ്രദ്ധയാ നരഃ
വിജാനാതി തദേതത്തു
ദുഃഖമേവ മഹാഗുരുഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

कैरलीचलच्चित्रमण्डले विख्यातः पटकथाकारः जोण् पोल् वर्यः दिवङ्गतः।

कोच्ची – कैरलीचलच्चित्रमण्डले प्रसिद्धः पटकथाकारः जोण् पोल् वर्यः कालकबलितोभवत्। स ७२ वयस्कः आसीत्। चलच्चित्ररंगात् बहुकालं बहिस्स्थितस्य अस्य अन्त्यं चिकित्सालये आसीत्। कैरलीचलच्चित्ररंगं सम्पूर्णतये तस्य कृते प्रार्थनायामासीत्। प्रतीक्षां विफलीकृत्य अयं शनिवासरे मध्याह्ने अस्माल्लोकान्निरगात्।

१९८० तमे वर्षे चामरम् इति कैरलीचलच्चित्रस्य कृते पटकथां रचयन्नेवासौ चलचित्रमण्डलमागतः। अनन्तरं शक्ताः पटकथाः विरचय्य केरलान् अग्भुतस्तब्धान् अकरोत्।

प्रश्नोत्तरम् (भागः २३२) – 23-04-2022

EPISODE – 232

 

 

प्रश्नोत्तरम्।

 

 

 

 

  1. आचार्यः – भोः छात्राः! अत्र ——-। (क) आगच्छत  (ख) आगच्छ  (ग) आगच्छाम
  2. यूयं मण्डलाकारेण ———। (क) उपविश  (ख) उपविशन्तु  (ग) उपविशत
  3. ——–क्रीडां क्रीडाम।(क) यूयम्  (ख) वयम्  (ग) भवन्तः
  4. भोः छात्राः! शीघ्रम् ——–। (क) आगच्छ  (ख) आगच्छाम  (ग) आगच्छन्तु
  5. आचार्यः – रमे! त्वं पङ्क्तौ ——-। (क) उपविश  (ख) उपविशत  (ग) उपविशाम
  6. ——-किञ्चित् अपसरतम्। (क) यूयम्  (ख) युवाम्  (ग) वयम्
  7. प्रतीक्षा – आर्ये ! ——कुत्र  उपविशामि ? (क) त्वं   (ख) सः  (ग) अहं 
  8. आचार्यः – त्वं किमर्थं विलम्बं ——-? (क) करोषि  (ख) करोति  (ग) करोमि
  9. ——शीघ्रं हेमलतायाः पार्श्वे उपविश। (क) अहम्  (ख) त्वम्  (ग) सः
  10. शृण्वन्तु, अहम् एकं शब्दं ——। (क) वदसि  (ख) वदामि  (ग) वदति

 

 

 

Last date: 23-04-2022

लेफ्- जनरल् मनोज् पाण्डे स्थलसेनाध्यक्षः।

नवदिल्ली- भारतीय स्थलसेनायाः नूतनमेधाविपदे लफ्-जनरल् मनोज् पाण्डे वर्यः नियुक्तः। अधुना सेनायाः उपाध्यक्षः भवत्ययम्।

जनरल् एं-ए नरवने वर्यस्य पश्चाद्गामी अयम् अस्मिन् मासे ३० दिनाङ्के स्वपदं गृहीष्यति। सेनायाः २९ तमः अध्यक्षः भवति मनोज् पाण्डे वर्यः। अभियन्तृविभागात् सेनाध्यक्षपदम् प्राप्तः प्रथमः सेनानी च भवत्ययम्।

चित्तस्य दर्पणो मुखम् (भागः २३२) 23-04-2022

EPISODE – 232

नूतना समस्या –

“चित्तस्य दर्पणो मुखम्”

ഒന്നാംസ്ഥാനം

“कल्पनाचतुरैर्नित्यं
कविभिरिदमुच्यते ।
जीवतां जन्तुवर्गाणां
चित्तस्य दर्पणो मुखम् ॥”

Lalitha

“അഭിനന്ദനങ്ങൾ”

 

एकस्मिन् समये बिरुदद्वयम्, विश्वविद्यालय-अनुदान-आयोगस्य नूतनः परिष्कारः।

नवदिल्ली-  एकस्मिन्नेव समये द्वयोः बिरुदवर्गयोः अध्ययनं कर्तुं  छात्राः अनुवदनीयाः इति विश्वविद्यालयानुदानायोगस्य अध्यक्षः जगदीष् कुमार् वर्यः अवदत्। एकस्मिन्नेव विश्वविद्यालयाद्वा विभिन्नेभ्योभ्यो विश्वविद्यालयेभ्यो वा एकस्मिन्नेव काले पूर्णसमयबिरुदार्थम् अध्येतुं छात्राः प्रभविष्यन्ति। एतदनुसारं मार्गनिर्देशम् अचिरेण दास्यतीति अध्यक्षः असूचयत्।

नूतनशिक्षानीतेः भागत्वेनैवायं निर्णयः। विविधेषु विषयेषु एकस्मिन्नेव कालपरिधौ प्रावीण्यं सम्पादयितुं छात्रान् प्राप्तान् कर्तुमेवायं निर्णयः। आधिजालिकरूपेणापि विरुदवर्गे अध्येतुमपि छात्राः प्रभवन्ति। एकस्मै बिरुदाय कलाशालां गत्वा इतरस्मै बिरुदाय आधिजालिकद्वारा च पठितुम् अधिकारः अस्ति। अनेन शास्त्र-मानविकविषयेषु एककाले अध्येतुम् अवसरं लभन्ते छात्राः।

 

प्रश्नोत्तरम् (भागः २३१) – 16-04-2022

EPISODE – 231

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सतीशः – उत्पीठिकायाम् ——-पुस्तकम् अस्ति। (क) एकः  (ख) एका  (ग) एकम्
  2. तत् ——-पुस्तकं भोः? (क) कस्य  (ख) कः   (ग) कस्मात्
  3. राजारामः – तत् ———पुस्तकम्। (क) गिरीशः   (ख) गिरीशस्य  (ग) गिरीशे
  4. सतीशः – एषः किमपि ——-पुस्तकं पूरितवान्। (क) लिखित्वा  (ख) लेखितुम्  (ग) लिखति
  5. राजारामः – सः आगतवान् । पुस्तकं ——-ददातु। (क) सः  (ख) तस्मै   (ग) तस्मिन् 
  6. सतीशः – किं भवान् ——-गृहपाठं लिखितवान् ? (क) पुस्तकम्  (ख) पुस्तकस्य  (ग) पुस्तके
  7. गरीशः – भवान ——पुस्तकं किमर्थं स्वीकृतवान् ? (क) मम  (ख) अहम्  (ग) त्वम्
  8. अहं प्रतिदिनं कार्याणि ——-। (क) लिखति   (ख) लिखसि  (ग) लिखामि
  9. अनन्तरं ——-परिशीलयामि। (क) रात्रौ   (ख) रात्रिः   (ग) रात्री
  10. सतीशः – बहु उत्तमम्। अहमपि इतःपरं तथैव ——। (क) करोति  (ख) करोषि  (ग) करोमि

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”