Monthly Archives: April 2022

चन्दनेन समं विदुः (भागः २३१) – 16-04-2022

EPISODE – 231

नूतना समस्या –

“चन्दनेन समं विदुः”

ഒന്നാംസ്ഥാനം

“പ്രിയവാക്യം സദാ വാച്യം
തേന തുഷ്യന്തി ജന്തവ:
സുഖദം ശുഭദം തത്തു
ചന്ദനേന സമം വിദു:”

Aparna

“അഭിനന്ദനങ്ങൾ”

केरलेषु कोविड् नियन्त्रणानि प्रत्यसंहरत्।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् नियन्त्रणानि प्रत्यसंहरत्। कोविड् नियमलङ्घनाय इतःपरं दुरन्तनिवारणनियमानुसारं व्यवहारं न स्वीकरोति।

वर्षद्वयं यावत् प्रवर्तितानि नियन्त्रणानि केन्द्रीयनिर्देशानुसारम् प्रतिसंहृत्य अधुना केरलसर्वकारेण आदेशो दत्तः।

मुखावरणधारणं सामाजिकान्तरपालनं च पालनीयमिति आदेशे अस्ति। मुखावरणधारणे केन्द्रिय स्वास्थ्यमन्त्रालयस्य निर्देशं अनुवर्तिष्यते इत्यपि आदेशे अस्ति।

कोविड् व्यापनस्य भूमिकायां दुरन्तनिवारणनियमानुसारं बहूनि नियन्त्रणानि राज्ये आयोजनीयानि आसन्।

प्रशमनं विना तैलेन्धनस्य मूल्यवर्धनं, दशदिनाभ्यन्तरे नवरूप्यकाणां वर्धनम्।

कोषिक्कोट्- जनानां जीवनं दुस्सहं कुर्वाणं तैलेन्धनमूल्यम् अद्यापि वर्धापितम्। पेट्रोलस्य ४४ पैसां तथा डीजलस्य ४२ पैसां च अवर्धयत्। दशदिनाभ्यन्तरे पेट्रोल् मूल्यं ९-१५ रूप्यकाणि डीजल् मूल्यं-८-८४ रूप्यकाणि प्रवर्धितानि।

अनेन पेट्रोल् मूल्यं प्रतिलिट्टर् तिरुवनन्तपुरे-११५-५४
कोच्ची-११३-४६
कोषिक्कोट्- ११३-६४
डीजल् मूल्यं तिरुवनन्तपुरम् १०२-२५, कोच्ची १००-४० कोषिक्कोट् १००-५८ च अद्यतनं मूल्यम्।

मृत्तैलस्य मूल्यमपि प्रावर्धयत्। मृत्तैलस्य विहितं ४० शतमितं न्यूनीकृतम्। अपि च अस्य मूल्यं २८ रूप्यकाणि प्रतिलिट्टर् वर्धितं च। अनेन मृत्तैलस्य मूल्यं प्रतिलिट्टर् ८१ रूप्यकाणि जातम्।

मूल्यवर्धनं साधारणजनान् मत्स्यकर्मकरान् च प्रतिकूलतया बाधते इति मत्स्यविभागमन्त्री सजी चेरियान् वर्यः अवदत्।

माता विश्वस्य देवता (भागः २३०) – 09-04-2022

EPISODE – 230

नूतना समस्या –

“माता विश्वस्य देवता”

ഒന്നാംസ്ഥാനം

“മാതൃത്വം ഭുവി സർവേഭ്യോ
ദദാതി സാന്ത്വനം പരം
സർവോത്കർഷനിദാനഞ്ച
മാതാ വിശ്വസ്യ ദേവതാ “

Bhaskaran N K

അഭിനന്ദനങ്ങൾ

प्रश्नोत्तरम् (भागः २३०) 09-04-2022

EPISODE – 230

 

 

प्रश्नोत्तरम्।

 

 

 

  1. पत्नी – भवान् सोमवासरे ——–खलु ? (क) प्रत्यागमिष्यन्ति  (ख) प्रत्यागमिष्यामि  (ग) प्रत्यागमिष्यति
  2. पतिः – आम्। सोमवासरे प्रातः ———। (क) आगमिष्यामि  (ख) आगमिष्यसि  (ग) आगमिष्यति
  3. पत्नी – पुत्रः सुनिलः शनिवासरे सायं चेन्नै ——-। (क) गमिष्यामि  (ख) गमिष्यति (ग) गमिष्यसि
  4. सायं मिलित्वा वयं विपणिं ——–। (क) गमिष्यन्ति  (ख) गमिष्यथ  (ग) गमिष्यामः
  5. पत्नी – अस्मिन्  सप्ताहे बहु कार्यक्रमाः ——। (क) सन्ति  (ख) अस्ति  (ग) स्तः
  6. रजन्याः विद्यालये  तस्याः भरतनाट्यम् ——-। (क) अस्ति  (ख) असि  (ग) अस्मि
  7. पतिः – चिन्तां मा——-। (क) कुर्वन्तु  (ख) करोतु  (ग) कुरुताम्
  8. पत्नी – बुधवासरे प्रतिवेशी भोजनार्थम् ———। (क) आहूतवान्   (ख) आहूतवती  (ग) आहूतवन्तः
  9. पतिः – अन्यत् सर्वं वयम् अनन्तरं ——-। (क) चिन्तयिष्यामः (ख) चिन्तयिष्यथ (ग) चिन्तयिष्यन्ति
  10. अहं तु इदानीं ——। (क) गच्छति  (ख) गच्छसि  (ग) गच्छामि

 

 

Last date: 09-04-2022