Monthly Archives: March 2022

वर्धते जनसञ्चयः (भागः २२९) 02-04-2022

EPISODE – 229

नूतना समस्या-

“वर्धते जनसञ्चयः”

ഒന്നാംസ്ഥാനം

“പ്രജാക്ഷേമം പുരസ്കൃത്യ
യസ്തു നിത്യം പ്രവർതതേ
തസ്യ മാർഗേഷു ഹാ ! പശ്യ
വർധതേ ജനസഞ്ചയഃ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २२९) – 02-04-2022

EPISODE – 229

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुनिता – अहो ! एषः भवत्याः पुत्रः सम्यक् ——-। (क) गायन्ति  (ख) गायतः  (ग) गायति
  2. सः सङ्गीतक्ष्यां ——-किम् ? (क) गच्छति  (ख) गच्छामि (ग) गच्छसि
  3. मालिनी – नैव। तस्य भगिनी गृहे अभ्यासं ——-। (क) करोमि  (ख) करोति  (ग) करोषि
  4. सः श्रद्धया ——-। (क) शृणोति  (ख) शृणुतः  (ग)  शृण्वन्ति
  5. सुनिता – अहं सङ्गीतं बहु ——–। (क) इच्छामि (ख) इच्छति (ग) इच्छसि
  6. मम पुत्री चलचित्रगीतानि सदा ——-। (क) शृणोमि  (ख) शृणोषि  (ग) शृणोति
  7. माधुरी – मम गृहे वयं सर्वे भक्तिगीतानि,भजनानि  अपि ——-। (क) शृण्वन्ति  (ख) शृणुमः  (ग) शृणुथ
  8. सुनिता – मम गृहे  अहम् एका एव गीतं ——-। (क) शृणोषि  (ख) शृणोति  (ग) शृणोमि
  9. अन्ये सर्वे वार्तां ——-। (क) शृण्वन्ति  (ख) शृणुमः  (ग) शृणुथ
  10. माधुरी – ते यथा इच्छन्ति तथा ——–। (क) कुर्मः  (ख) कुरुथ  (ग) कुर्वन्ति

 

 

 

Last date: 02-04-2022

वाचनवसन्तः- पाठशालाग्रन्थालयाय पुस्तकवितरणं सम्पूर्णमभवत्।

तिरुवनन्तपुरम्- २०१८-१९ अध्ययनवर्षादारभ्य क्रियान्विता सर्वकारस्य स्वप्नपरियोजना भवति वाचनवसन्तनामिका ग्रन्थालयनवीकरणपद्धतिः। मुख्यमन्त्रिणः शिक्षामन्त्रिणश्च विशेषतात्पर्यानुसारम् अस्मिन् वर्षेपि सर्वकारस्य शतदिनकर्मयोजनायां परिगणय्य १० कोटिरूप्यकाणां व्ययेन पाठशालाग्रन्थालयपरियोजनां प्रवृत्तिपथमानेतुं निर्णयो जातः।

पूर्वं प्रथमवर्षे सर्वकारीय उच्चविद्यालयानां माध्यमिकविद्यालयानां तथा प्रलये ग्रन्थनष्टमापन्नानां निजीयविद्यालयानां च कृते ६ कोटि रूप्यकाणां व्ययेन पुस्तकानि अदात्। द्वितीयवर्षे धनादत्तनिजीय उच्चविद्यालयानां कृते ४ कोटि रूप्यकाणां व्ययेन पुस्तकानि ददौ।

गते वर्षद्वये अनया परियोजनया पुस्तकानि अलभमानानां विद्यालयानां कृते एव अस्मिन् वर्षे पुस्तकानि वितरीतुं निरणयत्।

FIRST BELL – REVISION CLASS 2022

REVISIOIN CLASS – 1

REVISIOIN CLASS – 2

10 – Victers class Chapter 10

Chapter – 10 – 1

Chapter – 10 – 2

को लाभस्तत्र तं वद (भागः २२८) – 26-03-2022

EPISODE – 228

नूतना समस्या –

“को लाभस्तत्र तं वद”

ഒന്നാംസ്ഥാനം

“അന്ധസ്യ ദർശനം ശൂന്യം
അരണ്യേ രോദനം വൃഥാ
അസാധ്യേഷു ഹി കാര്യേഷു
കോ ലാഭസ്തത്ര തം വദ”

Ratheesh

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २२८) – 26-03-2022

EPISODE – 228

 

प्रश्नोत्तरम्।

 

 

 

 

  1. कार्यकर्ता – वेङ्कटेशः इति कश्चन सङ्गणकतन्त्रज्ञः ——। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  2. तस्य गृहम् अत्र अस्ति। तं —— वा भवन्तः? (क) जानाति  (ख) जानीतः  (ग) जानन्ति
  3. गृहस्थः – वेङ्कटेशः इति नाम ——–। (क) श्रुतवन्तः  (ख) श्रुतवान्   (ग) श्रुतवन्तौ
  4. तस्य गृहसंख्यां ——-। (क) वदतु  (ख) वदतां  (ग) वदन्तु
  5. कार्यकर्ता – ——–वेङ्कटेशं  जानामि। (क) वयं  (ख) त्वं  (ग) अहं 
  6. ——–गृहसंख्या ९६७ अस्ति। (क) तस्य  (ख) तस्मै  (ग) तेषु
  7. तस्य इतः बहुसमीपे अस्ति।(क) गृहस्य  (ख) गृहे   (ग) गृहम्
  8. गृहस्थः – वीणे!त्वं वेङ्कटेशं  ——–। (क) जानाति  (ख) जानासि  (ग) जानामि
  9. पश्यतु ——–संख्याम्। (क) एतत्    (ख) एतं   (ग) एतां
  10. वीणा – भवान् अपि  एतं ——–। (क) जानाति  (ख) जानासि  (ग) जानामि

 

 

 

Last date: 26-03-2022

पादकन्दुकक्रीडायां मञ्जकस्य भञ्जनेन ५० अधिकाः जनाः रुग्णाः। १५ जनानाम् अवस्था गुरुतरा।

मलप्पुरम्- केरलेषु मलप्पुरं जिल्लायां कालिकाव् प्राथमिकविद्यालयक्रीडाङ्गणे समायोजितायाम् अखिलभारतीय पादकन्दुकस्पर्धायां (सप्तजनीनम्) दर्शकमञ्जस्य भञ्जनमभवत्। अपघाते क्रीडादरशनार्थमागताः पञ्चाशदधिकाः जनाः रुग्णाः जाताः। रुग्णाः मञ्जेरी वैद्यकीयकलाशालाचिकित्सालयं नीताः। एषु १५ जनाः अतीवगुरुतरावस्थायां सन्ति। शनिवासरे रात्रावेव अपघातो जातः। मञ्जके सीमातीताः जनाः आसन् इति सूचना अस्ति। अष्टशताधिकाः जनाः स्पर्धां द्रष्टुमागता इति निवेद्यते।

मलप्पुरे अतिप्रशस्ता सप्तजनीन-पादकन्दुकप्रतियोगिता भवतीयम्। अत एव अन्तिमचरणप्रतियोगितायां सीमातीताः जनाः समागताः।

गतदिने सञ्जाता वृष्टिः मञ्जकस्य बलक्षये कारणमभवत् इति प्राथमिकी सूचना।

प्रश्नोत्तरम् (भागः २२७) – 19-03-2022

EPISODE – 227

 

प्रश्नोत्तरम्।

 

 

 

 

  1. श्रद्धा – लते!  लते! किम् —–भवती ? (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  2. लता – आगच्छतु ,आगच्छतु , ——-विशेषः? (क) किम्  (ख) का  (ग) कः
  3. नूतनवस्त्रम् ——–भवती ? (क) धृतवान्   (ख) धृतवती  (ग) धृतवन्तौ
  4. श्रद्धा – मम गृहे श्वः पूजा ——-। (क) अस्ति  (ख) स्तः   (ग) सन्ति
  5. भवती भोजनार्थम्  ——–। (क) आगच्छन्ति  (ख) आगच्छतः  (ग) आगच्छतु
  6. लता – अहमपि कार्ये साहाय्यं ——–। (क) करोति  (ख) करोमि  (ग) करोषि
  7. वस्तूनि ——आनयति। (क) किं  (ख) कुत्र   (ग) कुतः
  8. श्रद्धा  –  मधुराणि ——–आनयामि। (क) आपणतः  (ख) आपणम्  (ग) आपणेन
  9. पुष्पाणि फलानि च मम आर्यपुत्रः  विपणितः ———। (क) आनयन्ति   (ख) आनयति   (ग) आनयतः
  10. बान्धवाः कदलीपत्राणि  ग्रामतः  ——-। (क) प्रेषयति  (ख) प्रेषयतः   (ग) प्रेषयन्ति

 

 

 

Last date: 19-03-2022

त्याज्यं हि युद्धमीदृशम् (भागः २२७) – 19-03-2022

EPISODE – 227

नूतना समस्या –

“त्याज्यं हि युद्धमीदृशम्”

ഒന്നാംസ്ഥാനം

യുക്രൈൻ – റഷ്യാ തയോർമധ്യേ
സങ്ഗ്രാമോ തുമുലോ ബത
സംഭീതം തു ജഗത്സർവം
ത്യാജ്യം ഹി യുദ്ധമീദൃശം.

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”