Daily Archives: April 13, 2022

एकस्मिन् समये बिरुदद्वयम्, विश्वविद्यालय-अनुदान-आयोगस्य नूतनः परिष्कारः।

नवदिल्ली-  एकस्मिन्नेव समये द्वयोः बिरुदवर्गयोः अध्ययनं कर्तुं  छात्राः अनुवदनीयाः इति विश्वविद्यालयानुदानायोगस्य अध्यक्षः जगदीष् कुमार् वर्यः अवदत्। एकस्मिन्नेव विश्वविद्यालयाद्वा विभिन्नेभ्योभ्यो विश्वविद्यालयेभ्यो वा एकस्मिन्नेव काले पूर्णसमयबिरुदार्थम् अध्येतुं छात्राः प्रभविष्यन्ति। एतदनुसारं मार्गनिर्देशम् अचिरेण दास्यतीति अध्यक्षः असूचयत्।

नूतनशिक्षानीतेः भागत्वेनैवायं निर्णयः। विविधेषु विषयेषु एकस्मिन्नेव कालपरिधौ प्रावीण्यं सम्पादयितुं छात्रान् प्राप्तान् कर्तुमेवायं निर्णयः। आधिजालिकरूपेणापि विरुदवर्गे अध्येतुमपि छात्राः प्रभवन्ति। एकस्मै बिरुदाय कलाशालां गत्वा इतरस्मै बिरुदाय आधिजालिकद्वारा च पठितुम् अधिकारः अस्ति। अनेन शास्त्र-मानविकविषयेषु एककाले अध्येतुम् अवसरं लभन्ते छात्राः।