प्रश्नोत्तरम् (भागः २३३) – 30-04-2022
EPISODE – 233
प्रश्नोत्तरम्।
- गोपालः – विवाहकार्यक्रमः ———किम्? (क) समाप्तः (ख) समाप्तम् (ग) समाप्ता
- मधुः – विवाहः समाप्तः। मम ——-अपि रिक्तः।(क) कोषम् (ख) कोषा (ग) कोषः
- गोपालः – ———? तावत् किं कृतवान् ? (क) कदा (ख) किमर्थम् (ग) कुत्र
- मधुः – विवाहसमये अहं यानपेटिकां ———दत्तवान्। (क) जनकाय (ख) जनकेन (ग) जनकात्
- ——-नूतनं कण्ठहारं दत्तवान्। (क) अम्बां (ख) अम्बायै (ग) अम्बया
- अनुजाय ——–दत्तवान्। (क) घटी (ख) घट्यै (ग) घटीम्
- गोपालः – अनुजायै किं ——-? (क) दत्तवान् (ख) दत्तवती (ग) दत्तवत्
- मधुः – अनुजायै अहं स्वर्णमयीं ——-दत्तवान् । (क) लेखनी (ख) लेखनीम् (ग) लेखन्या
- गोपालः – विवाहसमये श्वशुरः ——–किं दत्तवान् ? (क) भवते (ख) भवतः (ग) भवति
- मधुः – अहं तु ——– न स्वीकृतवान्। (क) वरदक्षिणा (ख) वरदक्षिणाम् (ग) वरदक्षिणायाः
Last date: 30-04-2022
Leave a Reply