नैपुण्यविकासाय प्राधान्यं दास्यति – केरलीयशिक्षामन्त्री।

 कोच्ची- शिक्षामण्डले कोविड्पूर्वकालः कोविडनन्तरकालः इति विभजनम् अवश्यम्भावी इति सार्वजनीनशिक्षामन्त्री वी शिवन् कुट्टिवर्यः अवदत्।

राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे आयोजितम् अध्यापकसंगमं-२०२२ एस्-आर्-जी शक्तीकरणस्य राज्यस्तरीयम् उद्घाटनं विधास्यन् भाषमाणः आसीत् मन्त्री।

२०२२-२३ अध्य।नवर्षः जूण् प्रथमदिनाङ्के प्रारभते। छात्राणां रक्षाकर्तृणां च परिवर्तनानुसारम् अध्यापकानामपि परिवर्तनम् आवश्यकम्। सम्यगासूत्रणेन सहयोगप्रवर्तनेन च शिक्षाक्षेत्रे श्रेष्ठतामवाप्तुं शक्यते इत्यपि मन्त्रिणा उक्तम्।

एरणाकुले कलूर् रिन्यूवल् सेन्टर् स्थले आयोजिते अघिवेशने एरणाकुलं शिक्षा उपनिदेशिका हणी अलक्स्ण्डर् अध्यक्षा आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *