Monthly Archives: May 2022

प्रश्नोत्तरम् (भागः २३८) – 04-06-2022

EPISODE – 238

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अहं ——–। (क) पठसि  (ख) पठामि  (ग) पठति
  2. भवान् ——-। (क) लिखामि  (ख) लिखसि  (ग) लिखति
  3. त्वम् ——–। (क) नमति   (ख) नमसि  (ग) नमथः
  4. एषा ——–। (क) गच्छसि  (ख) गच्छथः  (ग) गच्छति
  5. युवां ——–। (क) वदसि  (ख) वदथः  (ग) वदथ 
  6. वयं ——–। (क) नृत्यामः  (ख) नृत्यामि  (ग) नृत्यन्ति
  7. भवत्यः ——। (क) पाठयति  (ख) पाठयन्ति  (ग) पाठयतः
  8. भवन्तौ ——–। (क) स्नातः   (ख) स्नाति  (ग) स्नान्ति
  9. आवां ———। (क) मिलतः  (ख) मिलथः  (ग) मिलावः
  10. भवन्तः ——-। (क) पश्यन्ति  (ख) पश्यति  (ग) पश्यथः

 

 

 

Last date: 04-06-2022

भवेम सत्यरक्षकाः (भागः २३८) 04-06-2022

EPISODE – 238

नूतना समस्या –

“भवेम सत्यरक्षकाः”

ഒന്നാംസ്ഥാനം

“സത്യം ശുദ്ധം സമാരാധ്യം
സത്യം സൗന്ദര്യമേവ ഹി
സത്യാർഥം ത്യജ സർവസ്വം
ഭവേമ സത്യരക്ഷകാഃ”

Bhaskaran N K

 

 

संस्कृतस्य विशिष्ठाघिकारिणी वृत्तिविरता अभवत् ।

केरलसर्वकारीय संस्कृत विशिष्ठाघिकारिणी श्रीमती डा: टि. डी. सुनीतीदेवी सेवनरङ्गात् मई मासस्य त्रिशत्तमे दिनाङ्गे वृत्तिविरता जाता । सुहृदः तस्यै समुचितं यात्रामङ्गलं समारचयन्।
एरणाकुलस्थे अध्यापकभवने समायोजितायां सभायां केरलराज्यस्य विविधप्रान्तेभ्यः पञ्चविंशतिमिताः सुहृद: सममिलन् । डाः जी. सहदेवमहाशयस्य आध्यक्ष्ये तस्यै तत्र सङ्गता: आशंसा: समार्पयत् । डा. पि. नारायणन् नम्पूतिरिः, एन. के. रामचन्द्रः, प्रो वि माधवन् पिल्ला, एस् सुरेन्द्रः . मणिलाल् पिल्लै, श्रीमती केरलश्रीमती, रमा टी. एते भाषणमकुर्वन् ।
श्री विजयन् वि पट्टाम्पी आशंसापत्रं समार्पयत्। के. जी. रमाबाय्, डा ई. एन्. उष्णिकृष्णः, अम्बिकाकुमारी च सभाया: सङ्घाटका आसन् । केरलेषु संस्कृतपठनं सजीवं सफलं च कर्तुं विशिष्ठाधिकारिणा प्रदर्शितम् आभिमुख्यं सर्वैरनुस्मृतम् अभिनन्दितं च । डा टि. डी. सुनीतीदेवी सर्वेभ्यो कार्तज्ञपूर्वकं प्रतिवचनं चादात् ॥

विद्वेषघोषणा-बालकस्य पितरं न्यग्रहीत्।

कोच्ची- पोप्पुलर् फ्रण्ट् इति दलस्य पथसञ्चलनवेलायां धर्मस्पर्धात्मिकां घोषणां कतवतः बालकस्य पितरम् आरक्षिदलं न्यग्रहीत्। कोच्ची पल्लुरुत्ती स्थले एषां गृहमेत्य एव आरक्षिणा स निगृहीतः। तं बालकम् उपदेशमन्त्रणाय प्रेषयिष्यति।

विवादघोषणानन्तरं स बालकः पिता च तिरोभूतावास्ताम्। प्रकरणेस्मिन् भागं भदन्तः नैके प्रवर्तकाः अपि आरक्षिनिग्रहे सन्ति।

पथसञ्चलनस्य आयोजकसंघं प्रति व्यवहारः स्वीकर्तव्यः इति उच्चन्यायालयेन आदिष्टमासीत्।

२०२१ तमवर्षस्य राज्य-चलचित्रपुरस्काराः घोषिता‌

। श्रेष्ठनटविभागे जोजु जोर्ज् (मधुरं, नायाट्ट् इति चलचित्रयोः कृते), बिजु मेनन् (आर्करियाम् इति चलचित्रम्) च चितौ। श्रेष्ठनटी रेवती। भूतकालम् इति चलचित्रे अभिनयः एव पुरस्काराय गणितः।
श्रेष्ठचलचित्रस्य कृते विशिष्ट जूरीपुरस्कारः फ्रीडं फैट् इति जियो बेबीवर्यस्य चलचित्राय दत्तः। चलचित्रग्रन्थस्य कृते पुरस्कारः अटूर् गोपालकृष्णन् महाोशयाय दत्तः।
श्रेष्ठः निदेशकः -दिलीष् पोत्तन्,
श्रेष्ठः चलचित्रग्रन्थः – चमयम्, पट्टणं रषीद्।
नवागतनिदेशक‌ः – कृष्णेन्दु कलेष्।
श्रेष्ठं जनप्रियतलच्चित्रम्- हृदयम्।
नृत्तनिदेशनम्- अरुल् राज्
शब्दयोजनम्- -देवी एस्,
वस्त्रालङ्कारः मेल्वी जे -मिन्नल् मुरली-
रूपसज्जा- रञ्जित् अम्बाटी।
पश्चात्तलगानम्- सितारा कृष्णकुमार्।
सङ्गीतनिदेशनम्- हिषाम् अब्दुल् वहाब्
गानरचना- बी के हरिनारा।णन्
पटकथा- श्यां पुष्करन्

द्वेषभाषणम्, पी.सी. जार्ज् वर्यः आरक्षिनिग्रहे अस्ति, सः शीघ्रमेव गृहीतः भविष्यति।

तिरुवनन्तपुरम्- समाजस्पर्धां विद्वेषं च विकीर्यमाणं भाषणं कृतवान् इति व्यवहारे पारिभाव्यव्यवस्थाम् उल्लङ्घितवान् सामाजिकचरः पि-सि- जोर्ज् वर्यः आरक्षिनिग्रहे अस्ति। अनन्तपुरि हिन्दुमहासम्मेलने अस्य विवादपरामर्शे एवायं प्रक्रमः।

पूर्वं व्यवहारेस्मिन् गृहीतः पारिभाव्यं लब्ध्वा पुनः पालारिवट्टं प्रदेशेपि समानं भाषणं कृतवान्। अतः पारिभाव्यं निरसनीयम् इति व्यवहाराभियोगस्य आवेगनम् परिगणय्यैव प्राड्विवाकः अद्य पारिभाव्यं निरस्य जोर्ज् वर्यस्य ग्रहणाय अनुमतिं ददौ।

राष्ट्रपतिः रामनाथ कोविन्दवर्यः अद्य केरलेषु पर्यटति।

तिरुवनन्तपुरम्।- राष्ट्रपतिः रामनाथ कोविन्दः अद्य केरलं प्राप्स्यति। द्विदिवसीय पर्यटनार्थमेव राष्ट्रपतिः आगच्छति। सायं 8.30 वादने शङ्खमुखं व्योमसेना विमानपत्तने एव तस्य विमानमागच्छति। अद्य राजभवने विश्रामः। मुख्यमन्त्री पिणरायि विजयन् वर्यः, राज्यपालः आरिफे मुहमेमद् खान् वर्यश्च विमानपत्तने राष्ट्रपतिं प्रत्युद्गमिष्यतः।

आसादी का अमृद् महोत्सवस्य भागत्वेन गुरुवासरे प्रातः राज्यविधानसभायां आयोज्यमानस्य राष्ट्रिय वनिता सामाजिकाधिवेशनस्य उद्घाटनं राष्ट्रपतिः विधास्यति। मध्याह्नभोदनानन्तरं सायं पञ्चवादने दिल्लिं गमिष्यति।

प्रश्नोत्तरम् (भागः २३७) 28-05-2022

EPISODE- 237

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सुधीरः – अभिराम!भवान् बेङ्गलूर् नगरं —–किं किं दृष्टवान् ? (क) गच्छति  (ख) गत्वा  (ग) गन्तुम्
  2. अभिरामः – अहं पुस्तकापणं ——–। (क) गतवान्  (ख) गतवती  (ग) गतवन्तः
  3. सुधीरः – तत्र ——— प्रबन्धकान्  दृष्टवान् किम् ? (क) विश्वविद्यालयस्य  (ख) विश्वविद्यालये (ग) विश्वविद्यालयात्
  4. अभिरामः – विश्वविद्यालये अनेकान् ——–सङ्गृहीतवान् । (क) लेखान्  (ख) लेखाः  (ग) लेखेन
  5. सुधीरः – तत्र ——–उद्यानं  न गतवान् । (क) प्रसिद्धः  (ख) प्रसिद्धा  (ग) प्रसिद्धं
  6. अभिरामः – मध्याह्ने वस्तुसंग्रहालयं ——–। (क) गतवन्तः (ख) गतवती  (ग) गतवान् 
  7. तत्र ——–वस्तूनि दृष्टवान् । (क) अनेकानि  (ख) अनेकाः  (ग) अनेकम्
  8. सुधीरः – भवान् तत्र ——-दिनानि अतीतवान् । (क) किम्  (ख) कति  (ग) कुत्र
  9. अभिरामः – दर्शनीयानि स्थानानि बहूनि ——तत्र। (क) सन्ति  (ख) स्तः  (ग) अस्ति
  10. सुधीरः – पुनः मिलामि, भवतः अनुभवान् ——-। (क) वदन्तु  (ख) वदताम् (ग) वदतु

 

 

Last date: 28-05-2022

सज्जनः कलहं त्यजेत् (भागः २३७) 28-05-2022

EPISODE – 237

नूतना समस्या –

“सज्जनः कलहं त्यजेत्”

ഒന്നാംസ്ഥാനം

“നിദ്രാ ച കലഹശ്ചൈവ
മൂർഖാണാം ലക്ഷണം വിദുഃ
ഭൂതിമിച്ഛൻ വിവേകീ തു
സജ്ജനഃ കലഹം ത്യജേത്.”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

सङ्कलितविद्यालयाः अनिवार्याः- बालाधिकार-आयोगः।

तिरुवनन्तपुरम्-  सामाजिकविनिमयानां बालपाठान् समार्जयितुं सङ्कलितविद्यालयानाम् अनिवार्यता राज्य-बालाधिकार-आयोगेन सूचितम्। बालकानां कृते बालिकानां कृते च पृथक् विद्यालयाः अनावश्यकाः, ते विद्यालयाः सङ्कलितविद्यालयत्वेन परिवर्तनीयाः इति आयोगाध्यक्षः के.वि. मनोज् कुमारः न्यगादीत्।

2009 तमे वर्षे प्रवृत्तिपथमागत्य शिक्षाधिकारनियमस्य राज्यस्तरीयनिर्वहणगधिकारिणां पर्यालोचनाधिवेशने आमुखभाषणं विधास्यन्नासीत् मनोज् कुमारवर्यस्य एष अभिप्रायः। नूतने अध्ययनवर्षे शिक्षाधिकारनियममनुसृत्य शिक्षाकार्याणि प्रचालनीयानि, तदनुसारेण तत्तद्धुरां अधिवेशने निरचिनोत्।

राज्ये अनङ्गीकृताः विद्यालयाः न प्रवर्तन्ते इति दृढीकरणार्थं भालाधिकारायोगस्य साहाय्यं भविष्यति। प्रथमश्रेणी प्रमेहबाधितानां छात्राणां सङ्ख्या वर्धमाना अस्ति इत्यतः विद्यालयेषु इन्सुलिन् स्वीकारासुविधा अवश्यं कर्तव्या इत्यपि अधिवेशने निर्णयः अभवत्।