Monthly Archives: February 2022

ओपरेशन् गङ्गा प्रगतिं प्राप्नोति 907 भारतीयाः स्वदेशं प्रापिताः।

कीव्स्- युक्रैन् राष्ट्रात् भारतीयानां रक्षाप्रवर्तंनं -ओपरेशन् गङ्गा- प्रगतिं प्राप्नोति। रूमेनिया हङ्गरी इति राष्ट्रद्वयद्वारा 907 भारतीयाः स्वदेशं प्रापिताः। माळ्डोवा द्वारा रक्षाप्रवर्तनाय भारतस्य परिश्रमः अनुवर्तते। पोलऩ्ट् सीमायां भारतीयनयतन्त्रालयः 10 बस्यानं समायोजयत्। पोलन्ट् सीमानमतिक्रान्तेषु 153 भारतीयेषु 80 जनाः केरलीयाः।

मुख्यमन्त्रिणः पिणरायि विजयस्य निर्देशं परिगणय्य एव माळ्डोवा द्वारा रक्षाप्रवर्तनाय चर्चां समारभत। दक्षिणयुक्रैने स्थिताः भारतीयाः  माळडोवाद्वारा स्वदेशगमनाय प्रभवन्तीति गणनायामेव विदेशकार्यमन्त्रालयः। भारतस्य विदेशकार्यमन्त्री जयशङ्कर् वर्यः माळ्डोवा विदेशकार्यमन्त्रिणा सह सम्भाषणं कृतवान्। तथा पोलन्ट् सीमनि स्थगितानां केरलीयानां कार्ये अनिश्चितत्वमवसितम्। 50 छात्राणां पोलन्ट् राष्ट्रं प्रति प्रोशनम् अनुमितम्। यात्रिकाणां सङ्ख्यामनुसृत्य विमानम् आयोजयिष्यतीति विदेशकार्यवक्त्रा निगदितम्।

युक्रैने आपातस्थितिः घोषिता। प्रान्तेस्मिन् रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तम्।

युक्रैन्- युद्धभीतिभूमिकायां युक्रैन् राष्ट्रे 30 दीवसीया अपातस्थितिः तद्राष्ट्रप्रशासनेन घोषिता। राष्ट्रस्य पश्चिमसीम्नि रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तं। अस्य उपग्रहदृश्यानि लब्धानि।

 अमेरिक्का युरोपीयराष्ट्राणि च रष्यायाः प्रक्रमे कट्वालोचनाम् आवेदयन्। रष्यां प्रति न कापि समया नास्तीति अमेरिका राष्ट्राध्यक्षः जो बैडन् वर्यः असूचयत्। रष्यायाः सेनासु अशीतिप्रतिशतं युक्रैन् आक्रमणाय सन्नह्यतीति अमेरिका स्फष्ट्यकरोत्।

विश्वमापाततः अपघातम् अभिमुखीकरोतीति ऐक्यराष्ट्रसभा सचिवोत्तमः अन्टोणियो गुट्टरेस् सूचितवान्। नयतन्त्रचर्चार्थं रष्या सदा सन्नद्धा भवति, परं रष्यायाः तात्पर्यहानिकरान् निर्णयान् न स्वीकरिष्यतीति रूस् अध्यक्षः व्लादिमिर् पुटिन् अवदत्। वबुभिः राष्ट्राध्यक्षैः पुटिनेन साकं साक्षात्कारं कृतमस्ति।

के-पि-ए-सि ललिता दिवङ्गता।

कोच्ची- विख्याता कैरलीचलचित्रनटी के पि ए सि ललिता अस्माल्लोकान्निरगात्। सा ७४ वयस्का आसीत्। यकृत् सम्बन्धेन आमयेन पीडिता चिकित्सायामासीत्। पूर्णत्रयीपुरे स्वपुत्रस्य सिद्धार्थ भरतस्य गृहे ह्यस्तने रात्रौ आसीत् मृत्युः।
अद्य प्रातः ८-३० तः ११-३० वादनपर्यन्तम् अस्याः भौतिकदेहं पूर्णत्रयीपुरे लायं वेदिकायां दर्शनार्थं स्थाप्य तदनन्तरं तृशूर् वटक्काञ्चेरी देशे तदीयं भवनं नेष्यति। तत्र सायं संस्कारः भविष्यति।

नाटकाभिनये प्रवीणा ललिता के पि ए सि इति नाटकसङ्घे प्रमुखा आसीत्। तदानीं महेश्वरी इति नाम आसीत्। चलच्चित्ररंगमागता सा स्वनाम ललिता इति परिवर्तिता। अपि च नाटकसंघस्य नाम स्वनाम्नः पूर्वं योजिता च।

चलच्चित्रेषु नाटकेषु दूरदर्शनेषु च निरवधिकानि कथापात्राणि तया सह सजीवानि जातानि। कैरलीप्रेक्षकाणां मनसि अस्याः नाम चिरस्थायि भवति।

प्रभातं सुखदं शुभम् (भागः २२४) – 25-02-2022

EPISODE – 224

नूतना समस्या –

“प्रभातं सुखदं शुभम्”

ഒന്നാംസ്ഥാനം

“സൂര്യാതപോSതിതീക്ഷ്ണോ ന
കായക്ലേശോ തതോ ന ഹി
സർവ്വേഷാമുദ്യമാനാം തു
പ്രഭാതം സുഖദം ശുഭം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

രമണൻ സംസ്കൃതത്തിൽ – ശ്രീ മുത്തലപുരം മോഹൻദാസ്

 

प्रश्नोत्तरम् (भागः २२४) – 25-02-2022

EPISODE – 224

 

 

प्रश्नोत्तरम्।

 

 

  1. आदित्यः – गोविन्द ! भवान् तत् पुस्तकम् ——–। (क) आनयन्तु  (ख) आनयतु  (ग) आनयताम्
  2. गोविन्दः – अहं न आनयामि। आवश्यकं चेत् ——। (क) नयतु  (ख) नयताम्  (ग) नयन्तु
  3. आदित्यः – भोः,भवान् कदा सन्तोषेण ——। (क) वदन्ति (ख) वदतः  (ग) वदति
  4. गोविन्दः – त्वमपि कदापि प्रीत्या न ——–। (क) वदथ (ख) वदसि  (ग) वदथः
  5. आदित्यः – ——–त्वम् । सदा उपदेशं करोषि। (क) गच्छ  (ख) गच्छतम्  (ग) गच्छत
  6. माता – किमर्थं भवन्तौ कोपेन  कलहं ——। (क) कुर्वन्ति  (ख) कुरुतः  (ग) करोति
  7. आदित्य! त्वं कोपेन मा ——–। सः दुःखेन रोदिति। (क) तर्जयतम्  (ख) तर्जयत (ग) तर्जय
  8. आदित्यः – अम्ब! क्षम्यताम्। आवाम् इतःपरं सन्तोषेण एव ——–। (क) भवामि (ख) भवावः  (ग) भवामः
  9. गोविन्दः – अम्ब! अद्य मम विद्यालये एकः बालकः भयेन आक्रोशं ——–। (क) कृतवान्  (ख) कृतवन्तौ  (ग) कृतवन्तः
  10. माता – अस्तु, भवन्तौ अपि एकाग्रचित्ततया——-। (क) पठतु  (ख) पठन्तु  (ग) पठताम्

ഈയാഴ്ചയിലെ വിജയി

Sathi M

“അഭിനന്ദനങ്ങൾ”

वातो∫यं सुखशीतलः (२२३) 19-02-2022

EPISODE – 223

नूतना समस्या –

“वातो∫यं सुखशीतलः”

ഒന്നാംസ്ഥാനം

“സൂര്യാതപേന തപ്തായാം
ധരായാം തു സമാഗത:
ജലസ്പർശോSതിമന്ദശ്ച
വാതോSയം സുഖശീതള:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

नवमवर्गपर्यन्तं छात्राणां परीक्षा एप्रिल् प्रथमे सप्ताहे, कक्ष्या मार्च् अन्तिमतिथिं यावत्।

तिरुवनन्तपुरम्- विद्यालयेषु प्रथमतः नवमपर्यन्तं वर्गेषु पाठभागान् मार्च् 31 दिनाङ्कं यावत् अध्यापयितुं, तथा तेषां वार्षिकपरीक्षा एप्रिल् प्रथमे सप्ताहे आयोजयितुं च सार्वजनीनशिक्षामन्त्रिणः आध्यक्ष्ये समायोजिते  गुणवत्तावर्धकपद्धत्यधिवेशने निर्णयो जातः। वार्षिकपरीक्षार्थं प्रश्नपत्राणां समायोजनं राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषद् निर्वक्ष्यति।

एस्.एस्.एल्.सि., हयर् सेक्कन्टरि परीक्षातिथौ तथा पाठानां केन्द्रितमेखलासु च परिवर्तनं न भविष्यतीति मन्त्रिणा निगदितम्।

फ्ब्रुवरी 21 तः विद्यालयेषु पूर्णरूपेण प्रवर्तनं भविष्यति। तदर्थं मण्डलाधिकारिणः जि्ला पञ्चायत् अध्यक्षाः इत्येतेषां नेतृत्वे अवलोकनाधिवेशनम् आयोजयिष्यति। 21 आरभ्य आधिजालिककक्ष्या ऐच्छिकरूपेण कर्तुं शक्यते। फिब्रुवरी मार्च् मासयोः शनिवासरे विद्यालयेषु अध्ययनं भविष्यतीत्यपि अधिवेशने सूचना जाता।

प्रश्नोत्तरम् (भागः २२३) – 19-02-2022

EPISODE – 223

 

प्रश्नोत्तरम्।

 

 

 

  1. राकेशः – किं भोः, नूतना लेखनी वा ? ——-आनीतवान् ? (क) कुतः  (ख) किम्  (ग) कुत्र
  2. श्रीशः – मम अनुजः न्यूयोर्कतः ——–। (क) आनीतवती  (ख) आनीतवान्  (ग) आनीतवन्तः
  3. राकेशः – वेङ्कटेशः आगतवान् आसीत् ——? (क) कुत्र  (ख) कः  (ग) किम्
  4. भवान् ——-तं मम गृहं ना आनीतवान् ? (क) कः  (ख) किमर्थम्  (ग) कुत्र
  5. श्रीशः – तस्य समयः एव नास्ति भोः। स श्वः प्रातः ——-। (क) गच्छति  (ख) गच्छसि  (ग) गमिष्यसि
  6. राकेशः – भवान्  ह्यः किमर्थम् विद्यालयं न ——–। (क) आगतवती  (ख)  आगतवान्  (ग) आगतवन्तः
  7. श्रीशः – ह्यः आवां द्वौ अपि नगरं ——–। (क) गतवन्तौ  (ख) गतवान्  (ग) गतवन्तः
  8. आवां ततः बहूनि वस्तूनि ——-। (क) आनीतवान्  (ख) आनीतवन्तः  (ग) आनीतवन्तौ
  9. पश्यतु , एषा पेटिका अपि ——। (क) नूतनः  (ख) नूतना   (ग) नूतनम्
  10. राकेशः – बहु सम्यक् अस्ति। एतस्याः ——-रूप्यकाणि ? (क) किं   (ख) कुत्र  (ग) कति

ഈയാഴ്ചയിലെ വിജയി

ARYAN SHAIJU

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aryan Shaiju
  • Adarsh C S
  • Aditya T
  • Sathi M

“അഭിനന്ദനങ്ങൾ”

फस्ट् बेल् श्रव्यसञ्चिका शिक्षामन्त्रिणा प्रकाशिता।

तिरुवनन्तपुरम्- कैट् विक्टेर्स् नालिकाद्वारा संप्रेष्यमाणानां कक्ष्याणाम् अनुवर्तनरूपेण दशम-द्वादशकक्ष्ययोः पाठानां कार्यदर्शाय पृथक् श्रव्यसञ्चिका सज्जीकृता अस्ति। तासां प्रकाशनं केरलीय-सार्वजनीनशिक्षामन्त्री वी शिवन्कुट्टिवर्यः निरवहत्।

दशमकक्ष्यायाः सर्वेषां विषयाणां आवर्तनकक्ष्याः दशहोराभ्यन्तरे श्रोतुं शक्याः श्रव्यसञ्चिकाः कैट् जालपुटे लभ्याः भवन्ति। कैट् मुख्यनिर्वहणाधिकारी अन्वर् सादत् वर्यः पद्धत्याः विशदीकरणं कृतवान्।

प्रतिकक्षं सार्धैकहोरा दैर्घ्ययुक्ता द्वादशकक्ष्यायाः वर्गाः अपि फेब्रुवरी २१ आरभ्य लभ्याः भविष्यन्ति। यथा आकाशवाणीं शृण्वन्ति तथा कक्ष्यामपि श्रोतुं छात्राः अनेन शक्नुवन्ति।

Click here….