ओपरेशन् गङ्गा प्रगतिं प्राप्नोति 907 भारतीयाः स्वदेशं प्रापिताः।

कीव्स्- युक्रैन् राष्ट्रात् भारतीयानां रक्षाप्रवर्तंनं -ओपरेशन् गङ्गा- प्रगतिं प्राप्नोति। रूमेनिया हङ्गरी इति राष्ट्रद्वयद्वारा 907 भारतीयाः स्वदेशं प्रापिताः। माळ्डोवा द्वारा रक्षाप्रवर्तनाय भारतस्य परिश्रमः अनुवर्तते। पोलऩ्ट् सीमायां भारतीयनयतन्त्रालयः 10 बस्यानं समायोजयत्। पोलन्ट् सीमानमतिक्रान्तेषु 153 भारतीयेषु 80 जनाः केरलीयाः।

मुख्यमन्त्रिणः पिणरायि विजयस्य निर्देशं परिगणय्य एव माळ्डोवा द्वारा रक्षाप्रवर्तनाय चर्चां समारभत। दक्षिणयुक्रैने स्थिताः भारतीयाः  माळडोवाद्वारा स्वदेशगमनाय प्रभवन्तीति गणनायामेव विदेशकार्यमन्त्रालयः। भारतस्य विदेशकार्यमन्त्री जयशङ्कर् वर्यः माळ्डोवा विदेशकार्यमन्त्रिणा सह सम्भाषणं कृतवान्। तथा पोलन्ट् सीमनि स्थगितानां केरलीयानां कार्ये अनिश्चितत्वमवसितम्। 50 छात्राणां पोलन्ट् राष्ट्रं प्रति प्रोशनम् अनुमितम्। यात्रिकाणां सङ्ख्यामनुसृत्य विमानम् आयोजयिष्यतीति विदेशकार्यवक्त्रा निगदितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *