नवमवर्गपर्यन्तं छात्राणां परीक्षा एप्रिल् प्रथमे सप्ताहे, कक्ष्या मार्च् अन्तिमतिथिं यावत्।

तिरुवनन्तपुरम्- विद्यालयेषु प्रथमतः नवमपर्यन्तं वर्गेषु पाठभागान् मार्च् 31 दिनाङ्कं यावत् अध्यापयितुं, तथा तेषां वार्षिकपरीक्षा एप्रिल् प्रथमे सप्ताहे आयोजयितुं च सार्वजनीनशिक्षामन्त्रिणः आध्यक्ष्ये समायोजिते  गुणवत्तावर्धकपद्धत्यधिवेशने निर्णयो जातः। वार्षिकपरीक्षार्थं प्रश्नपत्राणां समायोजनं राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषद् निर्वक्ष्यति।

एस्.एस्.एल्.सि., हयर् सेक्कन्टरि परीक्षातिथौ तथा पाठानां केन्द्रितमेखलासु च परिवर्तनं न भविष्यतीति मन्त्रिणा निगदितम्।

फ्ब्रुवरी 21 तः विद्यालयेषु पूर्णरूपेण प्रवर्तनं भविष्यति। तदर्थं मण्डलाधिकारिणः जि्ला पञ्चायत् अध्यक्षाः इत्येतेषां नेतृत्वे अवलोकनाधिवेशनम् आयोजयिष्यति। 21 आरभ्य आधिजालिककक्ष्या ऐच्छिकरूपेण कर्तुं शक्यते। फिब्रुवरी मार्च् मासयोः शनिवासरे विद्यालयेषु अध्ययनं भविष्यतीत्यपि अधिवेशने सूचना जाता।

Leave a Reply

Your email address will not be published. Required fields are marked *