Daily Archives: February 24, 2022

युक्रैने आपातस्थितिः घोषिता। प्रान्तेस्मिन् रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तम्।

युक्रैन्- युद्धभीतिभूमिकायां युक्रैन् राष्ट्रे 30 दीवसीया अपातस्थितिः तद्राष्ट्रप्रशासनेन घोषिता। राष्ट्रस्य पश्चिमसीम्नि रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तं। अस्य उपग्रहदृश्यानि लब्धानि।

 अमेरिक्का युरोपीयराष्ट्राणि च रष्यायाः प्रक्रमे कट्वालोचनाम् आवेदयन्। रष्यां प्रति न कापि समया नास्तीति अमेरिका राष्ट्राध्यक्षः जो बैडन् वर्यः असूचयत्। रष्यायाः सेनासु अशीतिप्रतिशतं युक्रैन् आक्रमणाय सन्नह्यतीति अमेरिका स्फष्ट्यकरोत्।

विश्वमापाततः अपघातम् अभिमुखीकरोतीति ऐक्यराष्ट्रसभा सचिवोत्तमः अन्टोणियो गुट्टरेस् सूचितवान्। नयतन्त्रचर्चार्थं रष्या सदा सन्नद्धा भवति, परं रष्यायाः तात्पर्यहानिकरान् निर्णयान् न स्वीकरिष्यतीति रूस् अध्यक्षः व्लादिमिर् पुटिन् अवदत्। वबुभिः राष्ट्राध्यक्षैः पुटिनेन साकं साक्षात्कारं कृतमस्ति।