Monthly Archives: January 2022

सौख्यलाभाय तां भजे (भागः २२१) – 05-02-2022

EPISODE – 221

नूतना समस्या –

“सौख्यलाभाय तां भजे”

ഒന്നാംസ്ഥാനം

“അജ്ഞാനനാശിനീം വിദ്യാം
വിജ്ഞാനസ്യ പ്രകാശിനീം
അനന്താമതിസമ്പുഷ്ടാം
സൗഖ്യലാഭായ താം ഭജേ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम्(भागः २२१) – 05-02-2022

EPISODE – 221

 

 

प्रश्नोत्तरम्।

 

 

 

  1. विजया –  अम्बा ! अहम् ——-। (क) आगतवान्  (ख) आगतवती  (ग) आगतवन्तः
  2. अम्बा – विजये ! ——–विलम्बः ? (क) कस्य  (ख) कुत्र  (ग) किमर्थम्
  3. विजया – अद्य विद्यालये कोsपि कार्यक्रमः ——–।(क) आसीत्  (ख) आसन्  (ग) आस्ताम्
  4. अहं तत्र भागं ——–। (क) स्वीकृतवान्  (ख) स्वीकृतवन्तः  (ग) स्वीकृतवती
  5. अम्बा – भवती किं ——-। (क) कृतवती   (ख) कृतवान्  (ग) कृतवन्तः
  6. अध्यापिका किम् ——–। (क) उक्तवान्  (ख) उक्तवती  (ग) उक्तवन्तौ
  7. विजया – अध्यापिका  सर्वान् ——–। (क) श्लाघितवान्  (ख) श्लाघितवन्तः  (ग) श्लाघितवती
  8. राधा कोलाहलं ———। (क) कृतवती  (ख) कृतवन्तः  (ग) कृतवान्
  9. ताम् एका तर्जितवती। सा ——–। (क) रुदितवान्  (ख) रुदितवती  (ग) रुदितवन्तः
  10. मुख्याध्यापिका पारितोषिकं ———-। (क) दत्तवान्  (ख) दत्तवन्तः (ग) दत्तवती 

ഈയാഴ്ചയിലെ വിജയി

 ADITYA T

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Aditya T
  • Sathi M
  • Vinodkumar
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

स्टुटन्ट् पोलीस् कैडट् संघे धर्माधिष्ठितः वेषः नावश्यकः, हिजाब् नानुवदनीयमिति सर्वकारः।

तिरुवनन्तपुरम्- केरला पोलीस् इति आरक्षिदलस्याधीने समायोजितायां स्टुडन्ट् पोलीस् कैडट् इति पद्धत्यां धर्मपरः वेषः नानुवदनीय इति राज्यसर्वकारः असूचयत्। लिङ्गनिरपेक्षं गणवस्त्रमेव कैडट् छात्राणां वेषः। अस्मिन् धर्मपरः चिह्नः नानुवदनीयः।

हिजाब् तथा दीर्घहस्तनिचोलश्च अनुवदनीयः इति सूचयन्ती काचन छात्रा उच्चन्यायालयं समुपगता आसीत्। वस्तुतेयं परीक्ष्य आवेदनीया इति न्यायालयः सर्वकारं निरदिशत्। अस्य प्रतिवचने एव सर्वकारः स्वकीयं निर्णयमसूचयत्।

कोविड् व्यापनम्- पञ्चायत्त् तले नियन्त्रणानि शक्तीकरिष्यति। नियन्त्रितमेखलाप्रक्रमं तथा सम्पूर्णपिधानं च पुनः आयोजयिष्यति

तिरुवनन्तपुरम्-  कोविड् तृतीयतरङ्गे शक्ते जाते नियन्त्रणानि पञ्चायत् तले शक्तीकर्तुं मन्त्रिमण्डलाधिवेशने निर्णयो जातः। एतदर्थं पञ्चायत् अध्यक्षाणाम् अधिवेशनम् आयोजनीयमिति मुख्यमन्त्री निरदिशत्। पञ्चायत् तले नियन्त्रितमेखलां समुपस्थाप्य पूर्णपिधानसमं नियन्त्रणानि आयोजयितुमेव समालोचना। अद्य आयोज्यमाने कोविडवलोकनाधिवेशने अन्तिमनिर्णयो भविष्यति। अवश्यसेवामात्रम् अनूद्य पञ्चायत् तले पूर्णपिधानम् आयोज्यते चेत् रोगिणां संख्या नियन्त्रयितुं शक्यते इति मन्त्रिमण्डलाधिवेशनेन कट्वालोचितम्।

विद्यासंस्थासु उपस्थितिः 40 शतमितात् न्यूना चेत् 15 दिवसं यावत् पिधानं भवेयुः।

तिरुवनन्तपुरम्- विद्यालयेषु कलालयेषु च  दिनत्रयंयावत् छात्राणाम् उपस्थितिः 40 शतमितात् न्यूना चेत् तत्संस्थानं 15 दिनं यावत् पिहितं भवेत्। तादृशसंस्थानानि  कोवि़ड् निकायरूपेण परिगणयितुं च मुख्यमन्त्रिणः पिणरायि विजयन् वर्यस्य आध्यक्ष्ये संविष्टे कोविडवलोकनाधिवेशने निर्णयो जातः। पिहितेषु दिनेषु आधिजालिककक्ष्या भविष्यति।

जिल्लास्तरे  कोविड् व्यापनं निर्णेतुं स्वीकृतं ए.बी.सी.  इति वर्गीकरणं च कुजवासरात् प्रभृति प्राबल्ये भविष्यति। राज्ये कोविड्व्यापनं तथा चिकित्सालयं प्रवेशितानां संख्या च प्रतिदिनं प्रवर्धते इति अधिवेशने सूचितम्।  राज्ये  परिशोधनालयेषु  यावच्छक्यं कोविड् निर्णयपरिशोधना करणीया इति मुख्यमन्त्री निरदिशत्। गृहेषु स्वयं क्रियमाणा परिशोधना कदाचित् विपरीतफलं प्रददाति, तद्वारा रोगसंक्रमणं अधिकमपि भवेत्।

तत्र नित्यं वसाम्यहम्(भागः २२०) – 29-01-2022

EPISODE – 220

नूतना समस्या-

“तत्र नित्यं वसाम्यहम्”

ഒന്നാംസ്ഥാനം

“ദേശേഷു ഭാരതം ശ്രേഷ്ഠം
തത്രാഹ കേരളം മതം
കേരളം കേരസമ്പന്നം
തത്ര നിത്യം വസാമ്യഹം.”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २२०) – 29-01-2022

EPISODE – 220

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्रः – अम्ब ! कोsपि भिक्षुकः ——–। (क) आगतवान्   (ख) आगतवन्तौ (ग) आगतवन्तः
  2. माता – भवान् एव —–एकं नाणकं ददातु। (क) तस्य  (ख) सः  (ग) तस्मै
  3. पुत्रः – अहं पठामि भोः,भवति एव ——ददातु। (क) भिक्षुकाय  (ख)  भिक्षुकः   (ग)  भिक्षुकस्य
  4. माता – ——कार्यं न रोचते।अहमेव करोमि सर्वं कार्यम्। (क) भवान्  (ख) भवते  (ग) भवतः
  5. पुत्रः – भिक्षुकः नाणकं नेच्छति। ओदनम् ——-। (क) इच्छामि (ख) इच्छसि  (ग) इच्छति
  6. माता – अहं भिक्षुकाय ——–। भवान् जलं पूरयतु। (क) ददामि  (ख) ददाति  (ग) ददासि
  7. पुत्रः – जलं पूरयामि। खादितुं ——–अपि किमपि ददातु। (क) मम  (ख) मह्यम्  (ग) माम्
  8. माता – भवते भोजनमेव ददामि। पञ्चनिमेषान् ——–। (क) तिष्ठसि  (ख) तिष्ठामि  (ग) तिष्ठतु
  9. पुत्रः – प्रातः ——भवती यत् दत्तवती तत् मह्यम् अपि ददातु। (क) भगिन्यै  (ख) भगिनी  (ग) भगिन्याः
  10. माता – भवान् केवलं खादति,न पठति,न वा कार्यं ——। (क) कुर्वन्ति  (ख) कुरुतः  (ग) करोति

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

सुखमिच्छन्ति मानवाः (भागः २१९) – 22-01-2022

EPISODE – 219

नूतना समस्या –

“सुखमिच्छन्ति मानवाः”

ഒന്നാംസ്ഥാനം

“സുഖദു:ഖാനി സമ്മിശ്രാ-
ണ്യാപതന്ത്യത്ര ജീവിതേ
സത്യമേതത്തു വിസ്മൃത്യ
സുഖമിച്ഛന്തി മാനവാ:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१९) – 22-01-2022

EPISODE – 219

 

प्रश्नोत्तरम्।

 

 

 

 

  1. आचार्यः – श्वः वार्षिकोत्सवः ——-खलु ? (क) भवति  (ख) भविष्यति (ग) भवसि
  2. तन्निमित्तं सर्वसज्जताः ———किम् ? (क) अभवत्  (ख) अभवतां  (ग) अभवन्
  3. कः कः किं किं ——–इति वदतु। (क) करिष्यति  (ख) करिष्यतः (ग) करिष्यन्ति
  4. विजयः – शङ्करः, राकेशः, विशाखः च ——- अलङ्कारं करिष्यन्ति। (क) सभा  (ख)सभायै  (ग) सभायाः
  5. आचार्यः – मण्डपस्य अलङ्कारं ——–करिष्यन्ति ? (क) कः  (ख) के  (ग) कौ
  6. विजयः – उषा ,तस्याः ——-च मण्डपालङ्कारं करिष्यन्ति। (क) सख्यः  (ख) सखी  (ग) सख्यौ
  7. आचार्यः – मुख्यातिथिं  कः ——–? (क) आनेष्यन्ति (ख) आनेष्यति  (ग) आनेष्यतः
  8. विजयः – मुख्यातिथिम् अहमेव ——–। (क) आनेष्यामि  (ख) आनेष्यसि  (ग) आनेष्यति
  9. मुरलिः तं ——–। (क) प्रेषयिष्यन्ति  (ख) प्रेषयिष्यति  (ग) प्रेषयिष्यामि
  10. प्रार्थनाम्  उषा , रमा च  ——– । (क) गायामि  (ख) गास्यामि  (ग) गास्यतः

ഈയാഴ്ചയിലെ വിജയി

MITHRA MNOJ

“അഭിനന്ദനങ്ങൾ”

केरलेषु नवमकक्ष्यापर्यन्तम् आधिजालिककक्ष्या पुनरारभ्यते।

तिरुवनन्तपुरम्- जनुवरी २१ आरभ्य केरलेषु पुनरपि विद्यालयनां विरामो भविता। नवमकक्ष्यापर्यन्तं छात्राः गृहे स्थित्वा आधिजालिकम् अध्ययनं कुर्युः इति मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते कोविड् अवलोकनाधिवेशने निर्णयो जातः। फिब्रुवरी द्वितीयवारे पुनरवलोकनं भविता।

विद्यालये कोविड् रोगस्य निकायः संदृश्यते चेत् सप्ताहद्वयपर्यन्तं विद्यालयानं पिधानं विधातुं प्रांशुपालेभ्यो अधिकारं दास्यति।

सर्वकारीयकार्यालये कर्म कुर्वन्त्यः अन्तर्वत्यः गृहे एव स्थित्वा कार्यं विधातुं पारयन्ति। सर्वकारीय कार्यक्रमाः सर्वे आधिजालिकरूपेणैव प्रचलिष्यन्ति।

ओमिक्रोणस्य व्यापने स्वास्थ्यविभागः जागरूकतया कार्याणि निर्वहति। १०,११,१२ कक्ष्याः विद्यालयेष्वेव प्रचलिष्यति। तत्रस्थानां छात्राणां कृते निवारकौषधं विद्यालये एव दास्यति। एतदर्थं स्वास्थ्य-शिक्षाविभागौ सहयोगेन कार्यं निर्वहताम् इत्यपि मुख्यमन्त्री निरदिशत्।