Monthly Archives: February 2022

सैन्याय स्नेहाभिवादनम्- मुख्यमन्त्री।

मलम्पुषा- साहसिकयात्रां कुर्वन् गिरिमध्ये संलग्नं बाबु नामकं युवकं ४० होरापर्यन्तेन कठिनप्रयत्नेन समरक्षयत् भारतीयस्थलसेनासंघः।

४० होरापर्यन्ताम् आशङ्कां दूरीकृत्य बाबुं सुरक्षितस्थानं प्रापयत्। तस्य स्वास्थ्यं संरक्षितुं वैद्यसङ्घेपि सन्नद्धः अस्तीति मुख्यमन्त्री पिणरायि विजयः असूचयत्।

रक्षाप्रवर्तनेषु नेतृत्वे प्रवर्तितान् भारतसेनायाः मद्रास् रजिमेन्ट् सैनिकान्। पारा रजिमन्ट् सैनिकान्, दक्षिणभारतमेखल मुख्यादेशकः लेफ्टनेन्ट् जनरल् अरुण् प्रभृतीन् मुख्यमन्त्री कृतज्ञताम् आवेदयत्।
रक्षाप्रवर्तनेन सहकृतवतां वायुसेनाधिकारिणां, तीरदेशसेनानां, अग्निरक्षासेनानां केरलारक्षिदलानां, देशीयदुरन्तनिवारणसेनानां, वनविभागानां वैद्यकीयसंघानां जनप्रतिनिधीनां च कृते मुख्यमन्त्री कृतज्ञतां व्याहृतवान्।

यथा रात्रिस्तथागमत् (भागः २२२) – 12-02-2022

EPISODE – 222

नूतना समस्या –

“यथा रात्रिस्तथागमत्”

ഒന്നാംസ്ഥാനം

“സാധനായാഃ ബലാദേവ
സങ്ഗീതാഭ്യസനം കൃതം
വിനാ തയാ തു വിജ്ഞാനം
യഥാ രാത്രിസ്തഥാഗമത്.”

Radhakrishnan

प्रश्नोत्तरम् (भागः २२२) – 12-02-2022

EPISODE – 222

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुबोधा – ममते ! किं —–भवती ? (क) करोति (ख) करोमि  (ग) करोषि
  2. ममता – कुत्र ——त्वम् ? (क) गच्छति  (ख) गच्छामि  (ग) गच्छसि
  3. सुबोधा – एका शाटिका ——–। (क) आवश्यकम् (ख) आवश्यकी  (ग) आवश्यकः
  4. भवती अपि आगच्छतु। आपणं ——–। (क) गच्छामि  (ख) गच्छति (ग) गच्छावः
  5. ममता – किञ्चित् तिष्ठतु ——–। (क) आगच्छामि  (ख) आगच्छति  (ग) आगच्छसि
  6. सुबोधा – मम मातुलस्य विवाहः —–। (क) असि  (ख) अस्ति  (ग) अस्मि
  7. अतः अहं नूतनां शाटिकां ——-। (क) क्रीणामि (ख) क्रीणाति  (ग) क्रीणासि
  8. ममता – भवती कं वर्णं ——। (क) इच्छसि  (ख) इच्छति  (ग) इच्छामि
  9. भवत्याः नीलः वर्णः ——। (क) युज्यते  (ख) युज्येते  (ग) युज्यन्ते
  10. सुबोधा – नीलवर्णस्य शाटिका मम समीपे ——-। (क) सन्ति  (ख) स्तः  (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADARSH C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adarsh C S
  • Sathi M

“അഭിനന്ദനങ്ങൾ”

भारतस्य प्रसिद्धा चलचित्रगायिका लता मङ्केष्कर् वर्या दिवङ्गता।

मुम्बै- भारतस्य गानकोकिलं लतामङ्केष्कर् वर्या कालकबलिता अभवत्। सा ९२ वयस्का आसीत्। चलचित्रपार्श्वगायिका इयं बहुषु भाषासु चलचित्रगीतम् आलापयामास। सङ्गीतस्य कृते प्रायः सर्वे पुरस्काराः अनया अतुल्य प्रतिभया अवाप्ता।

जनुवरी अष्टमे दिनाङ्के कोविड्बाधया सा चिकित्सालयं प्रवेशिता। मुम्बै नगरे निजीयचिकित्सालये अतितीव्रपरिचरणविभागे चिकित्सायां वर्तमानायां तस्यां न्यूमोणिया बाधा अभवत्। अतः स्वास्थ्यावस्था गुरुतरा जाता। अद्य प्रात एव तस्याः देहवियोगः सञ्जातः।

केरलराज्ये विद्यालयानां प्रवर्तनं पुनरारभते। कलालयाः सप्तमदिनाङ्कात् पुनरारभते।

तिरुवनन्तपुरम्- राज्ये कोविड् नियन्त्रणे अधिकं समाश्वासं दातुम् अवलोकनाधिवेशनस्य निर्णयः। कलालयानां प्रवर्तनं सप्तमदिनाङ्कात् प्रभृति, तथा विद्यालयेषु प्रथमतः नवमपर्यन्तं कक्ष्याणां प्रवर्तनं १४ दिनाङ्कात् प्रभृति पुनरारभते।

रविवासरे पिधानसमानं नियन्त्रणम् अनुवर्तते। परं देवालयेषु आराधना अनुमिता। २० जनाः एव आराधनार्थं गन्तुं पारयन्ति।

प्रसिद्धः व्यालग्राही वावा सुरेष् वर्यः सर्पदंशनेन चिकित्सालयं नीतः।

कोट्टयम् – सर्पं गृहीत्वा पोटले निक्षिप्यमाने वावा सुरेष् इति विख्यातः व्यालग्राही सर्पदंशनेन चिकित्सालयं नीतः। कोट्टयं वैद्यकीयकलालये तीव्रपरिचरणविभागे तं प्रावेशयत्। सोमवासरे सायं चतुर्वादने आसीत् इयं घटना।

चङ्ङनाश्शेरि समीपे कुरिच्चि पञ्चायत् स्थले कस्यांचित् गोशालायं दिनत्रयात् पूर्वमेव सर्पः दृष्टः। सर्पं गृहीतुं तद्देशीयाः बहुयतमानाः अपि सफलतां नापुः। अतः अस्मिन् कार्ये विदग्धं वावा सुरेष् वर्यं न्यमन्त्रयन्। स आगत्य कृष्णशिलान्तराले निहितं सर्पम् अनायासेन गृहीतवान्।  पुनः तं सर्पं पोटले निक्षिप्य नेतुं निश्चिकाय। पोटले निक्षिप्यमाने सर्पः तस्य ऊरुभागे अदशत्। अचिरादेव अबोधावस्थां प्राप्तं  तं चिकित्सालयम् अनयत्।