फस्ट् बेल् श्रव्यसञ्चिका शिक्षामन्त्रिणा प्रकाशिता।

तिरुवनन्तपुरम्- कैट् विक्टेर्स् नालिकाद्वारा संप्रेष्यमाणानां कक्ष्याणाम् अनुवर्तनरूपेण दशम-द्वादशकक्ष्ययोः पाठानां कार्यदर्शाय पृथक् श्रव्यसञ्चिका सज्जीकृता अस्ति। तासां प्रकाशनं केरलीय-सार्वजनीनशिक्षामन्त्री वी शिवन्कुट्टिवर्यः निरवहत्।

दशमकक्ष्यायाः सर्वेषां विषयाणां आवर्तनकक्ष्याः दशहोराभ्यन्तरे श्रोतुं शक्याः श्रव्यसञ्चिकाः कैट् जालपुटे लभ्याः भवन्ति। कैट् मुख्यनिर्वहणाधिकारी अन्वर् सादत् वर्यः पद्धत्याः विशदीकरणं कृतवान्।

प्रतिकक्षं सार्धैकहोरा दैर्घ्ययुक्ता द्वादशकक्ष्यायाः वर्गाः अपि फेब्रुवरी २१ आरभ्य लभ्याः भविष्यन्ति। यथा आकाशवाणीं शृण्वन्ति तथा कक्ष्यामपि श्रोतुं छात्राः अनेन शक्नुवन्ति।

Click here….

Leave a Reply

Your email address will not be published. Required fields are marked *