Monthly Archives: August 2021

उदूढसुरक्षया राष्ट्रम् अद्य ७५ तमं स्वतन्त्रतादिवसम् आचरति।

नवदिल्ली- पञ्चसप्ततितमस्य स्वतन्त्रतादिवसस्य समाचरणाय राष्ट्रं सज्जमभवत्। रविवासरे प्रातः सार्धसप्तवादने लोहितदुर्गे प्रधानमन्त्री नरेन्द्रमोदीवर्य राष्ट्रियध्वजम् आरोपयिष्यति। केन्द्रियमन्त्रिणः विविधाः सेनामेधावयश्च भागं गृहीष्यन्ति।

भीषायाः भूमिकायां दृढा सुरक्षा राजधान्यां परिकल्पिता। लोहितदुर्गं बहिः स्थित्वा वीक्षितुम् अशक्यरूपेण भारवाहियानैः आच्छादितं वर्तते। पुरातनदिल्यां वाणिज्यसंस्थानानि पिहितानि दृश्यन्ते।

सायुधसेनाविभागाः लोहितगुर्गं परितः विन्यस्ताः। प्रातः चतुर्वादनात् दशवादनपर्यन्तं लोहितदुर्गमं परितः रथ्यायां वाहनानि निरुद्धानि।

– संस्कृतचलचित्रं- मधुभाषितम्- संस्कृतदिने समारभते।

तिरुवनन्तपुरम्- विश्वाभिलेखमुपलक्ष्य निर्मीयमाणस्य संस्कृतचलचित्रस्य मधुभाषितम् इत्यभिधस्य चित्रीकरणं राष्ट्रिय संस्कृतदिने (ओगस्त २२ दिनाङ्के) समारभते।SGISFSY PRIDUCTIONS इत्यस्य केतने सान्स्क्रीट् फिलिं सोसैट्टी केरलराज्य चलचित्र विकास निगमस्य(KSFDC) सहयोगेनैव चलचित्रं निर्मीयते। बालकानां कृते निर्मितस्य प्रथम संस्कृतचलचित्रस्य मधुरस्मितस्य निदेशकः सुरेष् गायत्री वर्य एव अस्यापि निदेशकः।

आयुर्वेदस्य महत्वमुद्घोषयतः अस्य चलचित्रस्य गीतानि जालाधारितरूपेण चित्रीक्रियन्ते।

चलचित्रस्यास्य पटकथा प्रसाद् पारप्पुरम् अस्ति। मुत्तलपुरं मोहन् दास्, हरिप्रसाद् कटम्बूर् इत्येतयोः गीतानां संगीतनिदेशनं अरुण् व्लात्ताङ्करा एव।

रेवती, अलीनिया ऐफुना अञ्जना प्रभतयः अभिनेतारः प्रधानकथापात्राणि अवतारयन्ति। चलचित्रमिदं शिशुदिने प्रदर्शनार्थम् उद्दिश्यते।

विद्यालयेषु संस्कृतदिनाचरणम्

तिरुवनन्तपुरम्- अस्मिन् वर्षे श्रावणपूर्णिमातिथिः आगस्त् मासस्य २२ तमे दिनाङ्के भवति। अतः तस्मादारभ्य एकसप्ताहपर्यन्तं राज्यस्थेषु विद्यालयेषु जालाधारितकार्यक्रमाः आयोजनीयाः इति सार्वजनीन-शिक्षानिदेशकः प्रतिवेदयति।

कार्यक्रमे/स्मिन् छात्राणां कृते गानालापः, भित्तिपत्ररचना, चित्ररचना, चित्रकथारचना, पर्यावरणसम्बन्धीनां वस्तूनां संस्कृतनामलेखनम्, शब्दकोषरचना इत्यादयः अन्तर्भवन्ति।

शिक्षा उपमण्डलेषु आगस्त् ३० दिनाङ्काभ्यन्तरे, शिक्षामण्डलेषु सेप्तम्बर् ५ दिनाङ्काभ्यन्तरे कार्यक्रमाः भवेयुः। तत्र अध्यापकानां कृते कथा,कविता,उपन्यासः, पटकथा, समस्यापूरणम् इत्यादिषु मत्सरः आयोजनीयः।

१४ मण्डलेषु सेप्तम्बर् २० दिनाङ्काभ्यन्तरे संस्कृतदिनाचरणम् आयोजनीयम्। राज्यस्तरीयसंस्कृतदिनाचरणम् ओक्टोबर् प्रथमे वारे भविष्यति।

रचनामत्सरार्थं विषयाः-
कथा – एतदेव मम जीवनस्य परिवर्तनम् अकरोत्।
कविता- शुभप्रयाणम्
उपन्यासः- संस्कृतभाषाभिरुचिवर्धनाय उपायाः।
समस्या- स्वस्थं शरीरं च मनोनिवार्यम्।
पटकथा, ह्रस्वचलच्चित्रम् इत्येतयोः विषयन्बन्धनं नास्ति , चलच्चित्रदैर्घ्यं परमतः १५ निमेषाः परिमिताः।

सुवर्णेन समादृतम् (भागः १९६) – 14-08-2021

EPISODE – 196

नूतना समस्या-

“सुवर्णेन समादृतम्”

ഒന്നാംസ്ഥാനം

“बहुकोटिजनैर्युक्तं
सर्वशक्तं महाबलम् ।
भारतं हन्त भाग्येन
सुवर्णेन समादृतम् ॥”

Sankaranarayanan

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः १९६) – 14-08-2021

EPISODE – 196

 

प्रश्नोत्तरम्।

 

 

 

 

  1. टोक्यो ओलिम्बिक्स् कुन्तास्त्रप्रक्षेप(Jawellin throw) स्पर्धायां सुवर्णपदकं प्राप्तः भारतीयः कः? (क) नीरज् चोप्रा  (ख) सूरज् चोप्रा  (ग) नीरज् भानुः
  2. टोक्यो ओलिम्बिक्स् पुरुष होक्की स्पर्धायाम् अस्माकं केरलीयानाम् अभिमानभूतः   लक्ष्यरक्षकः(goal keeper) कः ? (क) बिजेशः  (ख) श्रीजेशः  (ग) राजेशः
  3. टोक्यो ओलिम्बिक्स्  वनिता मुष्ठिकाताडन क्रीडायां (boxing) कांस्यपतकं (bronze) प्राप्ता भारतीय वनिता का? (क) लव् ज्योतिः (ख) लव् लिना बोर्गोहेयन् (ग) लव् प्रिया
  4. टोक्यो ओलिम्बिक्स्  पुरुष मल्लयुद्धस्पर्धायाम् (resteling) रजतपतकं (silver) प्राप्तः वीरः कः? (क) रविकुमारः  (ख) सूर्यप्रकाशः  (ग) रविचन्द्रः
  5. टोक्यो ओलिम्बिक्स् १०० मीटर् ,२०० मीटर् वनिता धावनस्पर्धायाम् सुवर्णपतकं प्राप्ता जमैक्कायाः विजेता का ? (क) एलैन् डेविस्  (ख) एलैन् तोमस्  (ग) एलैन् वर्गीस्
  6. बालकः ——पठति।(क) विद्यालयः   (ख) विद्यालये  (ग) विद्यालयस्य
  7. पुष्पाणि ——-विकसति। (क) लयायाम् (ख) लतया (ग) लते
  8. महिलाः ——स्नान्ति। (क) नद्याः  (ख) नद्यः (ग) नद्याम्
  9. गृहिणी ——-दयां करोति। (क) भिक्षुक्याम् (ख) भिक्षुकी  (ग) भिक्षुक्या
  10. मीनाः ——–तरन्ति। (क) जलस्य (ख) जले (ग) जलात् 

ഈയാഴ്ചയിലെ വിജയി

SNOJ  E S

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരങ്ങൾ

  1. नीरज् चोप्रा
  2. श्रीजेषः
  3. लव् लिना बोर्गोहेयन्
  4. रविकुमारः
  5. एलैन् तोमस्
  6. विद्यालये
  7. लतायाम्
  8. नद्याम्
  9. भिक्षुक्याम्
  10. जले

 

ओलिम्पिक्स् क्रीडायां कुन्तास्त्रप्रक्षेप विभागे भारतीयः नीरज् चोप्रः सुवर्णपदकमाप्तवान्।

 

टोक्यो- ओलिम्पिक्स क्रीडायां क्रीडकविभागे भारतस्य प्रथमः सुवर्णपदकः कुन्तास्त्रप्रक्षेपे अद्य समागतः। अनेन ओलिम्पिक्स् रंगे सुवर्णपदकमाप्तवान् प्रथमः क्रीडकः भवति नीरज् चोप्रः।

प्रथमे प्रक्षेपे चोप्रः ८७.०३ मीट्टर् दूरे कुन्तास्त्रं क्षिप्तवान्। द्वितीये प्रक्षेपे ८७.५८ मीट्टर् दूरं समासादितवान्।

अस्मिन् विभागे अन्तिमचक्रे प्रविष्टवान् प्रथमो भारतीयश्च भवति नीरज् चोप्रः।

ओलिम्पिक्स् होक्की स्पर्धायां भारतेन कांस्यपदकमवाप्तम्।

टोक्यो- ४१ वर्षानन्तरं पुरुषाणां होक्की स्पर्धायां पदकानुसूच्याम् भारतस्य नाम अङ्कितम्। उद्वेगभरिते मत्सरे जर्मनीराष्ट्रं ५-४ इति क्रीडाङकेन भारतेन पदकमवाप्तम्।

मत्सरस्य प्रथमे परिच्छेदे जर्मनी पुरो/गच्छत्। परन्तु तृतीये परिच्छेदे भारतस्य क्रीडाङ्कद्वयं विजयपथमसूचयत्। भारतस्य हार्दिक् सिंह्, हर्मन् प्रीत् सिंह्, इत्येतयोः सामर्थ्येनैव क्रीडाङकलाभः सञ्जातः।

परिणामो नियामकः (भागः १९५) – 07-08-2021

EPISODE – 195

नूतना समस्या –

“परिणामो नियामकः”

ഒന്നാംസ്ഥാനം

“പരിവർതിനി സംസാരേ
ന കിഞ്ചിത് ശാശ്വതം ഖലു
തസ്മാത് സ്മർതവ്യമേതദ്ധി
പരിണാമോ നിയാമകഃ.”

Bhaskaran N

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः १९५) – 07-08-2021

EPISODE – 195

 

प्रश्नोत्तरम्।

 

 

 

 

  1. कर्णाटकराज्यस्य अधुनातन मुख्यमन्त्री कः? (क) यद्यूरप्पा  (ख) बसवराज् बोम्मे  (ग) स्टालिन्
  2. टोकियो ओलिम्बिक् उद्घाटनज्योतिम् का प्रज्वालितवती ? (क) नवोमी ओसाका  (ख) सिमोणा हालेट् (ग) सेरीना विल्यंस्
  3. केन्द्रीय व्योमयानमन्त्री कः ? (क) गिरिराजसिंहः  (ख) गजेन्द्रसिंहः (ग) ज्योतिरादित्यसिन्ध्या
  4. केन्द्रीय विद्यामन्त्री कः ? (क) धर्मेन्द्र प्रधान्  (ख) प्रह्लाद् जोषी (ग) पीयूष् गोयल्
  5. टोकियो ओलिम्बिक् भारोद्वहनस्पर्धायां रजतपतकं प्राप्ता भारतस्य अभिमान वनिता का ? (क) हौ षिहूयी  (ख) मीराभाय् चानू  (ग) ऐसाह् विन्टी कान्टिका
  6. टोकियो ओलिम्बिक् ” बाड्मिन्टण् ” स्पर्धायां तृतीयस्थानं प्राप्ता भारतीय क्रीडालू का ? (क) पी वी सिन्धू  (ख) अकने यामागुच्ची  (ग) मिया
  7. अहं छात्रः। —–नाम रमेशः। (क) मम  (ख) युवयोः (ग) युष्माकम्
  8. आवां बालकौ। ——-मित्रं नरेन्द्रः। (क) अस्माकम्  (ख) आवयोः  (ग) मम
  9. वयम् अध्यापकाः। ——-धर्मः अध्यापनम्। (क) मम (ख) आवयोः  (ग) अस्माकम्
  10. अहं वैद्यः। —–कार्यं रुग्णसेवा। (क) मम  (ख) मया  (ग) मयि

ഈയാഴ്ചയിലെ വിജയി

ZAIRA T BASHEER

“അഭിനന്ദനങ്ങൾ”