विद्यालयेषु संस्कृतदिनाचरणम्

तिरुवनन्तपुरम्- अस्मिन् वर्षे श्रावणपूर्णिमातिथिः आगस्त् मासस्य २२ तमे दिनाङ्के भवति। अतः तस्मादारभ्य एकसप्ताहपर्यन्तं राज्यस्थेषु विद्यालयेषु जालाधारितकार्यक्रमाः आयोजनीयाः इति सार्वजनीन-शिक्षानिदेशकः प्रतिवेदयति।

कार्यक्रमे/स्मिन् छात्राणां कृते गानालापः, भित्तिपत्ररचना, चित्ररचना, चित्रकथारचना, पर्यावरणसम्बन्धीनां वस्तूनां संस्कृतनामलेखनम्, शब्दकोषरचना इत्यादयः अन्तर्भवन्ति।

शिक्षा उपमण्डलेषु आगस्त् ३० दिनाङ्काभ्यन्तरे, शिक्षामण्डलेषु सेप्तम्बर् ५ दिनाङ्काभ्यन्तरे कार्यक्रमाः भवेयुः। तत्र अध्यापकानां कृते कथा,कविता,उपन्यासः, पटकथा, समस्यापूरणम् इत्यादिषु मत्सरः आयोजनीयः।

१४ मण्डलेषु सेप्तम्बर् २० दिनाङ्काभ्यन्तरे संस्कृतदिनाचरणम् आयोजनीयम्। राज्यस्तरीयसंस्कृतदिनाचरणम् ओक्टोबर् प्रथमे वारे भविष्यति।

रचनामत्सरार्थं विषयाः-
कथा – एतदेव मम जीवनस्य परिवर्तनम् अकरोत्।
कविता- शुभप्रयाणम्
उपन्यासः- संस्कृतभाषाभिरुचिवर्धनाय उपायाः।
समस्या- स्वस्थं शरीरं च मनोनिवार्यम्।
पटकथा, ह्रस्वचलच्चित्रम् इत्येतयोः विषयन्बन्धनं नास्ति , चलच्चित्रदैर्घ्यं परमतः १५ निमेषाः परिमिताः।

Leave a Reply

Your email address will not be published. Required fields are marked *