Daily Archives: August 15, 2021

शरीरमाद्यं खलु धर्मसाधनम्।

शब्दाह्वयं ज्योतिः ।

३ पुरतो भ्रम लोकचक्र।

२ कर्मणैव हि संसिद्धिः ।

 

पाथेयम्।

 

कविता – विजयन् वि पट्टाम्पि

भारतं महीयते…….

भारतं महीयते सत्यधर्म संभृतम्
त्यागशीलमाश्रितं सर्वलोकरक्षकम् । ।

सर्वशास्त्रवर्धकं सर्वसौख्यदायकम् ।
सर्वधर्मपोषकं सर्वदुःखहारकम् ।

शान्तिगीतिपाठकं सर्वदोषनाश कम्
सत्वशुद्धिवर्धकं सर्वलोक वन्दितम् ॥

याज्ञवल्क्यसम्मितैःराष्ट्रधर्म पालकै :
नीतिशास्त्रबोधनं जीवनाय स्वीकृतम् । ।

भारताख्यकाव्यदीपशोभितं मही तलम् ।
योगशास्त्रदत्तसौख्यसभृतं हि भारतम् ॥

भ्रातृभावसूचकम् वीरकर्मदर्श कम् ।
भावये च भारतं पावनं सनातनम् ॥

सत्यदीपमाश्रितं सज्जनैश्च पूरित म् ।
तं नमामि मामकं जन्गभूमि भारतम् ॥

प्रश्नोत्तरम् (भागः १९७) – 21-08-2021

EPISODE – 197

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अध्यापकः ———स्निह्यति। (क) छात्राणाम्  (ख) छात्रेषु  (ग) छात्राः
  2. रुग्णाः ———-विश्वासं कुर्वन्ति। (क) वैद्येषु  (ख) वैद्याः (ग) वैद्याय
  3. अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः  (ख) पुत्रस्य  (ग) पुत्रे
  4. मुनिवरस्य ——–आसक्तिः अस्ति। (क) मोक्षे  (ख) मोक्षस्य  (ग) मोक्षः
  5. तक्षकः ——–निपुणः। (क) तक्षणस्य  (ख) तक्षणे  (ग) तक्षणम्
  6. योगिवरः ——–कुशलः। (क) योगे  (ख) योगः  (ग) योगस्य
  7. भक्तानां ——–भक्तिः अस्तिः। ९क) देवताः  (ख) देवतानाम् (ग) देवतासु
  8. प्रजानाम्  ——– आदरः अस्ति। (क) नृपाः  (ख) नृपेषु (ग) नृपस्य
  9. पुत्रः ——-विनयं प्रदर्शयति। (क) जनके  (ख) जनकः (ग) जनकस्य
  10. देशसेवकस्य ——– प्रीतिः अस्ति । (क) देशस्य  (ख) देशे  (ग) देशात्

ഈയാഴ്ചയിലെ വിജയി

VINAYAK P M

“അഭിനന്ദനങ്ങൾ”

उदूढसुरक्षया राष्ट्रम् अद्य ७५ तमं स्वतन्त्रतादिवसम् आचरति।

नवदिल्ली- पञ्चसप्ततितमस्य स्वतन्त्रतादिवसस्य समाचरणाय राष्ट्रं सज्जमभवत्। रविवासरे प्रातः सार्धसप्तवादने लोहितदुर्गे प्रधानमन्त्री नरेन्द्रमोदीवर्य राष्ट्रियध्वजम् आरोपयिष्यति। केन्द्रियमन्त्रिणः विविधाः सेनामेधावयश्च भागं गृहीष्यन्ति।

भीषायाः भूमिकायां दृढा सुरक्षा राजधान्यां परिकल्पिता। लोहितदुर्गं बहिः स्थित्वा वीक्षितुम् अशक्यरूपेण भारवाहियानैः आच्छादितं वर्तते। पुरातनदिल्यां वाणिज्यसंस्थानानि पिहितानि दृश्यन्ते।

सायुधसेनाविभागाः लोहितगुर्गं परितः विन्यस्ताः। प्रातः चतुर्वादनात् दशवादनपर्यन्तं लोहितदुर्गमं परितः रथ्यायां वाहनानि निरुद्धानि।