Monthly Archives: September 2021

संस्कृतसप्ताहाचरणं- समापनसभा।

तृशूर्- तृशूर् मण्डलस्तरीय संस्कृतसप्ताहस्य समापनसभा २०२१ सेप्तम्बर् ३० दिनाङ्के सायं त्रिवादने सम्पन्ना। तृशूर् मण्डलस्य शिक्षा उपनिदेशकस्य टी वी मदनमोहनस्य आध्यक्ष्ये समायोजिता सभा केरल राजस्वविभागमन्त्रिणा के राजन् वर्येण उद्घाटिता। सार्वजनीनशिक्षानिदेशकः के जीवन् बाबु वर्यः मुख्यसन्देशं प्रास्तौत्।

संस्कृतविभागस्य विशेषाधिकारिणी डो टी डी सुनीतिदेवी वर्या संस्कृतदिनसन्देशं प्रस्तुतवती।

संस्कृतभारत्याः अखिलभारतीयशिक्षणप्रमुखः तथा केन्द्र-साहित्य-अक्कादमी पुरस्कारजेता च डो-एच्-आर्- बिश्वास् वर्यः मुख्यप्रभाषणं व्यदधात्।

समारोहेस्मिन् प्रतिकृतिः इति संस्कृतचलच्चित्रस्य नेपथ्यप्रवर्तकानां समादरणमपि सम्पन्नम्। चलचित्रस्य कथा पटकथा निदेशनादिकं निरूढवन्तं डो-निधीष् गोपीवर्यं प्रशस्तः गानरचयिता बी-के- हरिनारायणन् वर्यः समादरितवान्। तृशूर्, चावक्काट्, इरिङ्ङालक्कुटा शिक्षामण्डलाधिकारिणः तथा संस्कृतसमितेः राज्यस्तरीय कार्यदर्शिणः एस्-श्रीकुमारस्य च सान्निध्यमभवत्।

समारोहे तृशूर् मण्डलस्य उपमण्डलशिक्षाधिकारिणः आशंसामार्पयन्। श्री बिजू केडी स्वागतं श्री जीस् वर्गीस् कृतज्ञतां च व्याहरताम्।

दुष्टचेताः विनश्यति (भागः २०३) – 02-10-2021

EPISODE – 203

नूतना समस्या –

“दुष्टचेताः विनश्यति”

ഒന്നാംസ്ഥാനം

“രാവണോ ലോകജേതാപി
ശ്രീരാമേണ ഹതഃ പുരാ
സ്വസ്യ കർമഫലേനൈവം
ദുഷ്ടചേതാഃ വിനശ്യതി.”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २०३) – 02-10-2021

EPISODE – 203

 

प्रश्नोत्तरम्।

 

 

 

 

  1. गोविन्द! किं करोषि ——-? (क) भवान्  (ख) त्वम्  (ग) सः
  2. पाठं ——अम्ब ! (क) पठति  (ख) पठसि  (ग) पठामि
  3. आपणं ——-आगच्छसि किम् ? (क) गत्वा  (ख) गच्छति (ग) आगत्य
  4. शीघ्रं ——-गच्छामि। (क) लिखति (ख) लिखित्वा  (ग) लिखामि
  5. किम् ——ततः ? (क) आनयामि  (ख) आनयसि  (ग) आनयति
  6. वत्स! ——-गत्वा लवणं,तणडुलं,गुडं च आनय। (क) आपणः  (ख) आपणे  (ग) आपणं
  7. भगिनीं ——-अम्ब! (क) वदतु  (ख) वदति  (ग) वदामि
  8. सा किं ——? (क) करोमि  (ख) करोति (ग) करोषि
  9. सा अवकरं क्षिप्त्वा पात्रं ——-। (क) प्रक्षालयति  (ख) प्रक्षालयसि (ग) प्रक्षालयामि
  10. तर्हि शीघ्रं धनं,स्यूतं च ——अम्ब! (क) ददाति  (ख) ददातु  (ग) ददामि

ഈയാഴ്ചയിലെ വിജയി

DEVANGANA I S

“അഭിനന്ദനങ്ങൾ”

जानपदसेवा परीक्षापरिणामः, शुभं कुमारः प्रथमश्रेणीमवाप्तवान्। षष्टश्रेणीं मीरा नामिका केरलीया अवाप

नवदिल्ली- जानपदसेवा परीक्षापरिणामः घोषितः। शुभं कुमारः प्रथमश्रेणीमवाप्तवान्। जागृति अवस्ती द्वितीयश्रेणीं तथा अङ्किता जयिन् तृतीयश्रेणीं च प्राप्तवत्यौ। तृशूर् देशीया के मीरा षष्टश्रेणीम् अवाप्तवती।आद्यतः षट्सु श्रेणिषु पञ्चश्रेण्यः वनिताः स्वायत्तीकृताः

७६१ परीक्षार्थिनः जानपदसेवायै योग्यतामवाप्ताः। एषु १६ केरलीयाः सन्ति।

द्वितीयस्तरछात्राः अपि नवागताः।८.०७ लक्षं छात्राः प्रथमतया विद्यालयं प्राप्नुवन्ति।

तिरुवनन्तपुरम्- नवम्बर् मासे विद्यालयेषु प्रवर्तमानेषु नवागतरूपेण ८०८८०२ छात्राः विद्यालयमागमिष्यति। अस्मिन् वर्षे प्रथमद्वितीयवर्गौ नवागतसूचिकायामेव परिगणयति। गतवर्षे एकदिनमपि विद्यालयेषु कक्ष्याः न प्रचलिताः। अत एव एते नवागता इति निर्णीताः।

गतवर्षे प्रथमवर्गे ३०२२८८ छात्राः प्रविष्टाः। अस्मिन् वर्षे तु ३०५४१४ छात्राः सन्ति। एते सार्वजनीनविद्यालयेषु प्रविष्टाः। निजीयविद्यालयेषु प्रविष्टानां संख्या अपि योजयते चेत् नवागतानां संख्या सार्धषट्लक्षमतिक्राम्यति। अस्मिन् वर्षे प्रथमकक्ष्यायां प्रविष्टानां संख्या इतः पर्यन्तं प्रविष्टसंख्यामपेक्ष्य उन्नता भवति।

२०१८-१९ वर्षादारभ्य एव सार्वजनीनविद्यालयेषु छात्राणां संख्या वर्धमाना दृश्यते।

संस्कृतदिनाचरणस्तवम् – by Narayanan N

संस्कृतदिनाचरणस्तवम्।

Narayanan N

     1.  मुनिवरपोषित चित्तविकार समुज्वल सद्गुण रामकथाम्

       प्रणवमहत्व विधातृ जगत्पति शङ्करभासित कल्पलताम्

       सुमततिशोभित सत्वसनातन दिव्यकथामृत लोकहितम्

       जय जय भारतकीर्तिविराजित सर्गविचारदिनाचरणम्।

2. गुणमहिमोदय वेदपुराणसरित्पतिविस्तृत तोयनिभम्

कलमुनीश्वर कीर्तनवन्दित श्रेष्ठकथार्जित भासयुतम्

नतिनिभृतानन पार्षदयूथ समञ्चसघोषविधानतलम्

जय जय वेदविहायसि विश्रुतमन्त्रपवित्रदिनाचरणम्।

  3.    बहुजनचर्चित कीर्तिलताखिल चारुचतुष्पदनाभभृतम्

      निखिलतलानृतपापविमोचनकाव्यसुधामल शक्तियुते

      द्विजवरचर्वितजालमृदुस्वन धातृसुताक्षरधन्यव्रते

      जय जय शङ्कर डम्बरवादन नादचतुर्दशसूत्रयुते।

4. अखिलतपोबल सिद्धिनिबन्धित शास्त्रविशेषविधिप्रचुरे

उपनिषदां व्रततीततिपुष्पित रम्यमनोहरकान्तियुते

मुनिवरमुख्यतपस्थितसंगत युक्तिविचारविशेषतमम्

जय जय सत्ययुगेषु प्रचालित संस्कृतियुक्तदिनाचरणम्।

5.      वररुचिवार्तिकभाष्यपतञ्जलि पाणिनिसूत्रविशेषधृतम्

     नटनकलालय नाट्यविशेष मनोहर विस्तृत शास्त्रभृतम्

     गदशमनप्रतिपादित वेदसकुङ्कुम चित्रकफालतलम्

     जय जय पुष्कलसाहितिनिर्भर ग्रन्थसमेतदिनाचरणम्।

6. सहितमनस्सुख शान्तिसमुत्थित योगविशेषण कामदुगा

अतिवरसंबहुवेगचतुष्क्रिय पूरित बन्धुर शास्त्रमतम्

कवनरसप्रतिपादितलक्षण कारिकया परिपुष्टधिया

जय जय नित्यं प्रतिधैर्विषयैः सूरिभिः घुषितदिनाचरणम्।

  7.    गुणगणकर्मसु बद्धविकस्वर पूरितबन्धित काव्ययुते

      शमयम मोक्षसमुन्नति तारक चिन्तित संगत ध्यानरते

      प्रतिदिनराग गभस्तिभिरुत्थित सर्वचलत्पदशक्तियुते

     जय जय सस्यवितानित कोमल सूक्ष्मपरिस्थितिरैक्यदिनम्।

8. धनुगुणबन्धित बाणनियुक्त विदारणसैन्य विजेतृपथाम्

वरुणविभेदक पाशुपतस्थित पन्नग गारुड ब्रह्मयुतम्

मनुजमनोभव धारणपोषित आणवनाशकतुल्यबलम्

जय जय बुद्धिविशेष समार्जित शेषिविधान दिनाचरमम्।

9.     शृणु शृणु मास्मर चित्तसमाधि विशेषतपोमय सिद्धवरम्

     वद वद ललित सम्मिलितोदय सुक्ष्मतलस्थित बोधगिरा

     पठतु सदा निजशक्तिनिबन्धित भारतकाव्य विशिष्टसुधाम्

     जय जय मंगलसूक्तिविराजित राज्यपवित्र दिनाचरणम्।

10. जनहितसम्मतिदान समुज्वलशासनशोभित राष्ट्रहिते

गुणगण चूषण मर्द्दन पीडन मुक्तिविधान व्यवस्थितये

समतुलितैकमनस्थितिपूरित नीतिसुतार्यपदस्थितये

जय जय लोकहिताय विशिष्ट वनान्तर सम्पद्सुखमिलिते।

जीवान्तं स सुखी भवेत्(भागः २०२) – 25-09-2021

EPISODE – 202

नूतना समस्या –

“जीवान्तं स सुखी भवेत्”

ഒന്നാംസ്ഥാനം

“ജൈവാവാസവ്യവസ്ഥായാ-
മാവാസോ സുതരാം ഹിത:
താവുഭൗ പരിപൂർണഔ ചേത്
ജീവാന്തം സ സുഖീ ഭവേത്‌”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

कविता -by Sri. Narayanan N

प्रश्नोत्तरम् (भागः २०२) – 25-09-2021

EPISODE – 202

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ते ——तृणानि खादन्ति। (क) हरितानि  (ख) हरितं  (ग) हरिते
  2. त्वं  किं ——?  (क) करोमि  (ख) करोति  (ग) करोषि
  3. ——–साहित्यं  पठामि। (क) सः (ख) त्वं  (ग) अहं
  4. युवां किं ——-?  (क) कुर्वन्ति  (ख) कुरुथः (ग) करोति
  5. आवां गीतं ——-। (क) गायामि  (ख) गायति  (ग) गायावः
  6. भवती किं ——–?  (क) करोति  (ख) करोमि  (ग) करोषि
  7. ——–क्वथितं करोमि। (क) आलुकस्य  (ख) आलुकेन  (ग) आलुके
  8. बहु मरीचिकाः ——खलु ?  (क) अस्ति  (ख) स्तः  (ग) सन्ति
  9. ——–किं करोति ?  (क) मरीचिकया  (ख) मरीचिका (ग) मरीचिके
  10. महामरीचिकया ——-करोमि। (क) भर्जः  (ख) भर्जं  (ग) भर्जाः

ഈയാഴ്ചയിലെ വിജയി

REVATHY K M

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Revathy K M
  • Veenamol T S
  • Adidev C S
  • Krishnakumaran T S
  • Adithya T

“അഭിനന്ദനങ്ങൾ”

 

 

 

 

केरलेषु विद्यालया‌ः नवम्बर् प्रथमदिनाङ्कादारभ्य पुनःप्रवर्तिष्यन्ते।

तिरुवनन्तपुरम्- केरलराज्ये काविड् भीत्या पिहिताः विद्यालयाः नवम्बर् प्रथमे दिनाङ्के पुनरुद्घाटयिष्यन्ति। सार्धैकवर्षानन्तरमेव एते प्रवर्तनसज्जाः भवन्ति। मुखियमन्त्रिणः पिणरायि विजयस्य आध्यक्ष्ये समायोजिते कोविड् अवलोकनाधिवेशने एवायं निर्णयो जातः।

विद्यालयानाम् उद्घाटनमनुबन्ध्य मार्गनिर्देशः, केषु केषु कक्ष्यासु अध्ययनम् आरभेत इत्यादि विषयेषु निर्णयः अनन्तरं भविता।

प्राथमिकस्तरे विद्यालयानां प्रवर्तनं न भविता इति सूचना विद्यते। नवमकक्ष्यायाः आरभ्य अध्ययनं भविता इति निर्णयः विद्यते।