ओलिम्पिक्स् क्रीडायां कुन्तास्त्रप्रक्षेप विभागे भारतीयः नीरज् चोप्रः सुवर्णपदकमाप्तवान्।

टोक्यो- ओलिम्पिक्स क्रीडायां क्रीडकविभागे भारतस्य प्रथमः सुवर्णपदकः कुन्तास्त्रप्रक्षेपे अद्य समागतः। अनेन ओलिम्पिक्स् रंगे सुवर्णपदकमाप्तवान् प्रथमः क्रीडकः भवति नीरज् चोप्रः।
प्रथमे प्रक्षेपे चोप्रः ८७.०३ मीट्टर् दूरे कुन्तास्त्रं क्षिप्तवान्। द्वितीये प्रक्षेपे ८७.५८ मीट्टर् दूरं समासादितवान्।
अस्मिन् विभागे अन्तिमचक्रे प्रविष्टवान् प्रथमो भारतीयश्च भवति नीरज् चोप्रः।
अस्माकं भारतीयानाम् अभिमानभाजनमभवत् नीरज् महोदयः।शतकोटि वन्दनानि।