Daily Archives: August 11, 2021

– संस्कृतचलचित्रं- मधुभाषितम्- संस्कृतदिने समारभते।

तिरुवनन्तपुरम्- विश्वाभिलेखमुपलक्ष्य निर्मीयमाणस्य संस्कृतचलचित्रस्य मधुभाषितम् इत्यभिधस्य चित्रीकरणं राष्ट्रिय संस्कृतदिने (ओगस्त २२ दिनाङ्के) समारभते।SGISFSY PRIDUCTIONS इत्यस्य केतने सान्स्क्रीट् फिलिं सोसैट्टी केरलराज्य चलचित्र विकास निगमस्य(KSFDC) सहयोगेनैव चलचित्रं निर्मीयते। बालकानां कृते निर्मितस्य प्रथम संस्कृतचलचित्रस्य मधुरस्मितस्य निदेशकः सुरेष् गायत्री वर्य एव अस्यापि निदेशकः।

आयुर्वेदस्य महत्वमुद्घोषयतः अस्य चलचित्रस्य गीतानि जालाधारितरूपेण चित्रीक्रियन्ते।

चलचित्रस्यास्य पटकथा प्रसाद् पारप्पुरम् अस्ति। मुत्तलपुरं मोहन् दास्, हरिप्रसाद् कटम्बूर् इत्येतयोः गीतानां संगीतनिदेशनं अरुण् व्लात्ताङ्करा एव।

रेवती, अलीनिया ऐफुना अञ्जना प्रभतयः अभिनेतारः प्रधानकथापात्राणि अवतारयन्ति। चलचित्रमिदं शिशुदिने प्रदर्शनार्थम् उद्दिश्यते।

विद्यालयेषु संस्कृतदिनाचरणम्

तिरुवनन्तपुरम्- अस्मिन् वर्षे श्रावणपूर्णिमातिथिः आगस्त् मासस्य २२ तमे दिनाङ्के भवति। अतः तस्मादारभ्य एकसप्ताहपर्यन्तं राज्यस्थेषु विद्यालयेषु जालाधारितकार्यक्रमाः आयोजनीयाः इति सार्वजनीन-शिक्षानिदेशकः प्रतिवेदयति।

कार्यक्रमे/स्मिन् छात्राणां कृते गानालापः, भित्तिपत्ररचना, चित्ररचना, चित्रकथारचना, पर्यावरणसम्बन्धीनां वस्तूनां संस्कृतनामलेखनम्, शब्दकोषरचना इत्यादयः अन्तर्भवन्ति।

शिक्षा उपमण्डलेषु आगस्त् ३० दिनाङ्काभ्यन्तरे, शिक्षामण्डलेषु सेप्तम्बर् ५ दिनाङ्काभ्यन्तरे कार्यक्रमाः भवेयुः। तत्र अध्यापकानां कृते कथा,कविता,उपन्यासः, पटकथा, समस्यापूरणम् इत्यादिषु मत्सरः आयोजनीयः।

१४ मण्डलेषु सेप्तम्बर् २० दिनाङ्काभ्यन्तरे संस्कृतदिनाचरणम् आयोजनीयम्। राज्यस्तरीयसंस्कृतदिनाचरणम् ओक्टोबर् प्रथमे वारे भविष्यति।

रचनामत्सरार्थं विषयाः-
कथा – एतदेव मम जीवनस्य परिवर्तनम् अकरोत्।
कविता- शुभप्रयाणम्
उपन्यासः- संस्कृतभाषाभिरुचिवर्धनाय उपायाः।
समस्या- स्वस्थं शरीरं च मनोनिवार्यम्।
पटकथा, ह्रस्वचलच्चित्रम् इत्येतयोः विषयन्बन्धनं नास्ति , चलच्चित्रदैर्घ्यं परमतः १५ निमेषाः परिमिताः।