Monthly Archives: July 2021

उद्घाटनं नेतृसंघश्च नास्ति कुतिरान् सुरङ्गयोरेकः उदघाटयत्

तृशूर्- केन्द्रसर्वकारस्य निर्णयस्य पश्चात् कुतिरान् सुरङ्गयोरेकम् उद्घाटितम्। पालक्काट्तः तृशूरं प्रति मार्गस्थः सुरङ्ग एवायम्। शनिवासरे रात्रौ सार्धसप्तवादने तृशूर् मण्डलाधिकारी हरित वि कुमार् महाभागा एव गमनागमनार्थं सुरङगमार्गम् उदघाटयत्। अनेन कोच्ची-कोयम्पत्तूर् राजमार्गे यात्रासमयं न्यूनं भविष्यति।

राज्यस्थः प्रथमः सुरङ्गमार्ग एवायम्। केन्द्रिय-यातायातमन्त्री नितिन् गड्करी वर्यः ट्विट्टर् द्वारा उद्घाटनवार्तां सूचयति स्म।

सुषुप्तिः सुखसाधिका (भागः १९४) – 31-07-2021

EPISODE – 194

नूतना समस्या-

“सुषुप्तिः सुखसाधिका”

ഒന്നാംസ്ഥാനം

“യോഷേവ മന്ദമന്ദം യാ
വേഷഭാഷാംവിനാ നിശി
തോഷണസ്വപ്നസംലീനാ
സുഷുപ്തി: സുഖ സാധികാ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः १९४) – 31-07-2021

EPISODE – 194

 

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वं छात्रः। —–कार्यम् अध्ययनम्। (क) तव  (ख) युवयोः  (ग) युष्माकम्
  2. युवां भृत्यौ। —— सेवा उत्तमा। (क) युष्माकम् (ख) तव  (ग) युवयोः
  3. यूयं बालिकाः। —–परीक्षापरिणामः समीचीनः। (क) युवयोः  (ख) युष्माकम् (ग) तव
  4. अहं छात्रः। ——-नाम रमेशः। (क) तव  (ख) मम  (ग) आवयोः
  5. आवां बालकौ। —–मित्रं  नरेन्द्रः। (क) आवयोः (ख) मम  (ग) अस्माकम्
  6. वयम् अध्यापकाः। ——धर्मः अध्यापनम्।(क) मम (ख) आवयोः  (ग) अस्माकम्
  7. त्वं कृषकः। ——कार्यं कर्षणम्। (क) तव (ख) मम (ग) त्वम्
  8. युवां नर्तक्यौ। ——रमणीयम्। (क) तव (ख) युवयोः  (ग) युष्माकम्
  9. यूयं बालकाः। ——स्वभावः चञ्चलः। (क) अस्माकम् (ख) तव  (ग) युष्माकम्
  10. वयं छात्राः। ——-कार्यम् अध्ययनम्। (क) अस्माकम् (ख) आवयोः (ग) युष्माकम्

ഈയാഴ്ചയിലെ വിജയി

SRIDHIL K H

“അഭിനന്ദനങ്ങൾ”

ओलिम्पिक्स् भारोद्वहनस्पर्धायां भारतस्य मीराबाय् चानु रजतपतकम् अवाप।

टोक्यो- १३० कोट्यधिकानां भारतीयानाम् अभिमानरूपेण ओलिम्पिक्स् क्रीडायां वनिता विभागे ४९ कि.ग्रां भारोद्वहने मणिप्पूर् देशीया मीराबाय् चानू रजतपतकमवाप्तवती। अनेन ओलिम्पिक्स् क्रीडायां भारतीयवनितानां श्रेष्टप्रशस्त्यै सा पात्रमभवत्।

क्रीडायाः प्रथमदिने भारतीयानां पतकलाभः इदम्प्रथमतया एव। तद्वत् ओलिम्पिक्स् क्रीडायां रजतपतकं प्राप्ता द्वितीयवनिता अस्ति मीरा। पूर्वं २०१६ रियो ओलिम्पिक्स् क्रीडायां बाट्मिन्टन् क्रीडायां पी.वी. सिन्धू रजतकमलं प्राप्तवती आसीत्। २००० वर्षे सिड्नी ओलिम्पिक्स् क्रीडायां कर्णं मल्लेश्वरी भारोद्वहने काचकमलं चावाप्तवती।

ओलिम्पिक्स् क्रीडोत्सवस्य शुभारम्भः

टोक्यो- दिनेषु कोरोणाभीत्यां स्थीयमानेषु विश्वस्य प्रतीक्षां प्रदास्यन् टोक्यो ओलिम्पिक्स् क्रीडार्थं भद्रदीपः प्रज्वलितः। कोरोणायां जने पृथक् पृथक् स्थीयमाने विश्वस्य सर्वे प्रतिनिधयः एकस्मिन् स्थले प्रतियोत्स्यन्ति। एकत्वस्य सन्देशोत्तरकः उद्घाटनसमारोहः भारतसमये ४.३० वादने समारब्धः।

जपान् चक्रवर्ती हिरोणोमिया नरूहिता मुख्यातिथिः आसीत्। जपानस्य मध्यमः मुष्टियुद्धकं अरिसा सुबोट्टं पुरस्कृत्यैव समारोहः आरभत।

कोविड् महामार्यां प्राणविऩष्टेभ्यो विश्वस्य विविधभागस्थेभ्यो जनेभ्यो श्रद्धाञजलिं समार्पयत्। ततः जपानीयसंगीतेन साकं आतिथेयराष्ट्रस्य सांस्कृतिकविशेषयुक्ताः कार्यक्रमाः प्रचेलुः।

भारतसंघात् २६ क्रीडकाः उद्घाटनसमारोहे भागं गृहीताः। मुष्टियुद्धिका मेरी कों होक्की क्रीडकः मन्प्रीत् सिंह् च भारतपताकाम् अवहताम्।

राष्ट्रे 68 प्रतिशतं जनेषु कोविडं विरुध्य प्रतिरोधकं विद्यते इति सर्वेक्षणाभिवेदनम्।

नवदिल्ली-  राष्ट्रे 68 प्रतिशतं जनेषु कोविड्विरुद्धाय स्वयंप्रतिरोधकं विद्यते इति सेरो संस्थायाः सर्वेक्षणाभिवेदनम्। त्रिष्वेकं इति क्रमेण अधुनापि जनाः कोविड् भीषाम् अभिमुखीकुर्वन्तीति अभिवेदने अस्ति। चतुर्थे सेरो राष्ट्रियाभिवेदने एवायमावेदनमस्ति।

    स्वयं प्रतिरोधकं वाक्सिनद्वारा रोगबाधाद्वारा वा भवेदिति आवेदने सूचयति। 45 – 60 वयःपरिमितेष्वेव स्वयंप्रतिरोधकम्  अधिकं सूचितम्।  एतत् 77.6 प्रतिशतं भवति। 6-9 वयः परिमितेषु 57.2 प्रतिशतं, 10 -17 वयःपरिमितेषु 61.6 प्रतिशतं च स्वयं प्रतिरोधकम् आर्जितम्। एषु 62.2 प्रतिशतं जनाः वाक्सिनं न स्वीकृतवन्तः भवन्ति। वाक्सिनस्य मात्राद्वयमपि स्वीकृतेषु 13 प्रतिशतमेव जनाः स्वयंप्रतिरोधम् आर्जितवन्तः इत्यपि आवेदनं सूचयति।

मुख्यं जीवस्य रक्षणम् (भागः १९३) – 24-07-2021

EPISODE – 193

नूतना समस्या-

“मुख्यं जीवस्य रक्षणम्”

ഒന്നാംസ്ഥാനം

“ഭിത്തികാ നാസ്തിചേത്‌ ചിത്രം
കഥമാലേഖനം ഭവേത്‌
ഏതദന്വർത്ഥമാപ്നോതും
മുഖ്യം ജീവസ്യ രക്ഷണം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः १९३) – 24-07-2021

EPISODE – 193

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सः श्यामः। ——–अनुजः शङ्करः।(क) तस्य (ख) तयोः (ग) तेषाम्
  2. सः शिक्षकः। ——– पुस्तकम् एतत्। (क) तयोः (ख) तेषाम् (ग) तस्य
  3. तौ कोकिलौ।——-कण्ठः मधुरः। (क) तस्य  (ख) तयोः  (ग) तेषाम्
  4. ते युवकाः। ——बलम् अधिकम्। (क) तेषु (ख) तेषाम् (ग) तस्य
  5. सा युवतिः। ——-नाम गौरी। (क) तस्य (ख) तेषाम् (ग) तस्याः
  6. ते महिले। ——–गायने सम्यक् अस्ति। (क) तयोः (ख) तेषाम् (ग) तस्याः
  7. ताः वृद्धाः। ——-बलं न्यूनम्। (क) तस्याः (ख) तयोः (ग) तासाम्
  8. सा माता।——-सहनशक्तिः अधिका। (क) तस्य (ख) तस्याः  (ग) तयोः
  9. ते गृहिण्यौ।——-व्यवहारः उत्तमः। (क) तयोः  (ख) तासाम् (ग) तस्याः
  10. ते बालकाः।——-आसक्तिः क्रीडायां भवति।(क) तासाम् (ख) तयोः (ग) तेषाम्

ഈയാഴ്ചയിലെ വിജയി

URMILA P

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Urmila P
  • Krishnakumaran T S
  • Dawn Jose
  • Anathukrishna T G

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

ओण्लैन् अनौपचारिकसंस्कृतपठनम् @ ३६५

इरिङ्ङालक्कुटा – नटवरम्प् उच्चतरविद्यालयस्य शताब्धेः भागत्वेन २०२० जूलै प्रथमदिनादारभ्य ३६५ दिनानि विनाविघ्नं अन्तर्जालमाध्यमद्वारा आयोजित-अनौपचारिक-संस्कृताध्ययनस्य समापनं श्री शङ्कराचार्यसंस्कृतसर्वकलाशालायाः उपकुलपिना श्री धर्मराज् अटाट्ट् वर्येण कृतम्। पि.टि.ए अध्यक्षः श्री ऎम्.ए. अनिलः अध्यक्षभाषणं निरवहत्। डो.एम्.वि नटेशः मुख्यभाषणमकरोत्। प्रथमाध्यापिका श्रीमति बिन्दू, मुख्यकार्यकर्ता श्री सुरेष् बाबू, श्रिमति विजयलक्ष्मी विनयचन्द्रन्, श्री धनेष्, श्री पि.वि. मात्यू, श्री एम् नासरुद्दीन्, श्रीमती मनु पि मणी, श्री के.डि. बिजु, श्रीमति लाली, श्री सि.वि. जोस्, के.के. ताजुद्दीन् वर्याः च भाषणमकुर्वन्।  मुख्यकार्यकर्तृणा श्री सुरेष् बाबु वर्येण आयोजिते∫स्मिन् कार्यक्रमे आहत्य २०० जनाः भागं भजन्ताः आसन्।

केरले एस्.एस्.एल्.सी. परीक्षाफलं घोषितम्।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षस्य एस्.एस्.एल्.सी., टी.एच्.एस्.एल्.सी., ए.एच्.एस्.एल्. सी. परीक्षाणां परिणामः घोषितः। एस्.एस्.एल्.सी. परीक्षायां ९९.६ प्रतिशतं विजयः अस्ति।

कोविड् महामार्याः पश्चात्तले सर्वान् विघ्नान् अतिजीव्य अस्मिन् वर्षे एप्रिल् ८तः २९ पर्यन्तं परीक्षा प्रचलिता आसीत्। केरले, लक्षद्वीपे, गल्फ् मेघलायां च आहत्य २९४७ परीक्षाकेन्द्रेषु ४२२२६ छात्राः परीक्षार्थं पञ्जीकृताः, ४२१८८७ छात्राः परीक्षामलिखन् च। एषु २०६४३७ बालिकाः २१५४५० बालकाश्च भवन्ति। २००३३८ छात्राः मलयालं माध्यमे २१७९९२ छात्राः आङ्गलमाध्यमे २१५८ छात्राः कन्नटमाध्यमे १३९९ छात्राः तमिल् माध्यमे च परीक्षामलिखन्। निजीयविभागे ९९१ छात्राः सन्ति। कृपाङ्कदानं विनैव अस्मिन् वर्षे परीक्षापरिणामः घोषितः।