Monthly Archives: December 2020

वर्षमेकं तथागतम् – विजयन् वि. पट्टाम्बि।

वर्षमेकं तथागतम्।
— — — — – – – – – –
पूर्वेष्वुदयते पश्चा –
दस्तमेति च पश्चिमे ।
दिनरात्रं समे कृत्वा
भाति कालविधायकः ॥ ।

कोरोणाणु संसर्गा –
दाविश्वं दुःखितं बहु ।
जीवितं क्लेशपूर्णं हा
वर्षमेंकं वृथा गतम् ॥ 2

अलब्ध्वा मित्र संसर्ग –
मलब्ध्वा हितभाषणम् ।
तपस्वीव गृहे तिष्ठ –
द्वषमेकं वृथा गत म् ।।
 3

मुखानि मुद्रितान्यासन्
स्निग्धानि हसितान्यपि ।
मृतिभयादिव स्तब्धाः
लोकाश्च कम्पिताः भशम् ॥ 4

सुखदं सुन्द२ञ्चापि
लोके किच्चिन्न दृश्यते ।
उत्सवाद्यैर्विहीनं हा !
वर्षमेकं वृथा गतम् ॥ 5

एकविंशति वर्षो / यं
द्वारमागत्य संस्थितः ।
स्वीकुर्मस्तथापि तं
नवं वर्षं समागतम् ॥ 6

विजयन् वि पट्टाम्बि

STD-9: CHAPTER 8: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 8 – CLASS – 1

CHAPTER – 8 – CLASS – 2

त्यज रे चित्तवैकृतम् (भागः १६४) 02-01-2021

EPISODE – 164

नूतना समस्या –

“त्यज रे चित्तवैकृतम्”

ഒന്നാംസ്ഥാനം

“ഏകവിംശത്യധികേ തു
ദ്വിസഹസ്രേ സമാഗതേ
വർഷേSസ്മിൻ ശാന്തിമാപ്നോതും
ത്യജ രേ ചിത്തവൈകൃതം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

विद्यालयेषु जनुवरी प्रथमदिनाङ्के कक्ष्यायाः पुनरारम्भः, मार्गनिर्देशः घोषितः।

तिरुवनन्तपुरम् –  नूतने वर्षे विद्यालयानां पुनरुद्घाटने प्रथमवारे एकस्मिन् दीर्घपीठिकायाम् एकः छात्रः इति क्रमेण कक्ष्याः क्रमीकर्तुं निर्देशः। छात्राः मिथः द्विमीट्टर् अन्तरे तिष्ठेयुः। एकस्मिन् समये  प्रतिशतं  50 छात्राः एव अनुमिताः भवन्ति।

     रक्षाकर्तृणां सम्मतपत्रेण साकम् आगच्छति चेदेव प्रवेशः कर्तव्यः इति सार्वजनीनशिक्षानिदेशकः मारगनिरदेशे सूचयति। 10,12 वर्गयोः कृते एव कक्ष्या आरभ्यते।

अन्ये मारगनिर्देशाः एवम्-

कक्ष्याप्रकोष्ठानां द्वाराणि, दीर्घोत्पीठिकाः, मार्जन्यः इत्यादीनि द्विहोरान्तरे अणुविमुक्तानि करणीयानि।

300 अधिकं छात्राः 10.12 कक्ष्यासु सन्ति चेत् ताजृशेषु विद्यालयेषु 25 प्रतिशतं छात्राः एव एकस्मिन् समये प्रवेष्टव्याः।

एकत्र स्थित्वा भोजनं न कर्तव्यम्,  भोजनानि, शुद्धजलानि च परस्परविनिमयानि न करणीयीनि।

विद्यालयीययानेषु सुरक्षितान्तरम् अवश्यम्भावि। यानारूढसमये तापमापनम् अवश्यं करणीयम्।

मुखावरणम् अवश्यं धर्तव्यम्।

अवश्यं चेत् छात्राः शिक्षकाश्च स्वास्थयपरिशोधनां कुर्युः।

PRASNOTHARAM (भागः १६४) – 02-01-2021

EPISODE – 164

 

 

प्रश्नोत्तरम्।

 

 

  1. कृपणाः फलानि ——–। (क) अजिघ्राम  (ख) अजिघ्रन्  (ग) अजिघ्रत
  2. चोराः धनम् ——-। (क) अनयन्  (ख) अनयत  (ग) अनयाम
  3. सैनिकाः शत्रून् ——-। (क)अमारयत  (ख) अमारयाम  (ग) अमारयन्
  4.  ते दुर्गुणम् ——-।(क) अत्यजाम  (ख) अत्यजन्  (ग) अत्यजत
  5. एताः गीतम् ——-। (क) अगायन् (ख) अगायाम (ग) अगायत
  6. नर्तकाः ——-। (क) अनृत्यत  (ख) अनृत्याम  (ग) अनृत्यन्
  7. छात्राः विषयम् ——। (क) अस्मरत (ख) अस्मरन्  (ग) अस्मराम
  8. धेनवः तृणम् ——–। (क) अचराम  (ख) अचरत (ग) अचरन् 
  9. यूयं वस्त्राणि ——।(क) अधरत (ख) अधरन्  (ग) अधराम
  10. वयम् आम्रफलानि ——-। (क) अखादन्  (ख) अखादाम  (ग) अखादत

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Leena K S
  • Adithkrishna K B
  • Adidev  C S
  • Krishnakumari

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या दिवङ्गता।

तिरुवनन्तपुरम्-  मानवजीवनस्य याथार्थ्यतां हृदयस्पृग्रूपेण स्वकवितया आविष्कृतवती कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या नित्यतायां लीना अभवत्। कोविड् विषाणुबाधया तिरुवनन्तपुरे वैद्यकीयकलाशालाचिकित्सालये चिकित्सायामासीत्। अर्धशतकाधिकेन कालेन  स्वकीयकाव्यजीवने अशरणानां आ  श्रयरूपेण स्थिता आसीत् इयं महोदया। अपिच परिस्थिति- जनकीयप्रक्षोभेषु  समरनायिका चासीत्।

     प्रशस्तः कविः स्वतन्त्रतासंग्रामसेनानी बोधेश्वरः, तिरुवनन्तपुरं वनितााकलालये भुतपूर्वसंस्कृतप्राचार्या कार्त्यायनी अम्मा च अस्याः पितरौ। सा 1934 जनुवरी 22 दिनाङ्के भूजाता अभवत्।  तत्त्वशास्त्रे स्नातकोत्तरबिरुदं सम्पादितवती सुगतकुमारी तलिर् इति बालमासिक्याः सम्पादिका, राज्य वनिता आयोगस्य अध्यक्षा, तिरुवनन्तपुरं बालभवनस्य मेधावी चासीत्। परिस्थितिसंरक्षणाय स्वकविताद्वारा निरन्तरं रणं कुर्वती सा अगतीना स्त्रीणां कृते अत्ताणी इति भवनम्, मानसिकरोगिणां कृते परिचरणालयं, अभयग्रामं च संस्थाप्य समाजस्य मुख्यधारायं स्थिता अभवत्।

1961 आरभ्य तस्याः वह्यः कविताः प्रकाशिताः। तेषु प्रथमं मुत्तुच्चिप्पी नामिका भवति। रात्रिमषा इति कविता केन्द्र साहित्य अक्कादम्या पुरस्कृता। साहित्ये समग्रयोगदानं पुरस्कृत्य एषुत्तच्छन् पुरस्कारः. सामाजिकसेवार्थं लक्ष्मीपुरस्कारः,  केरलसाहित्य अक्कादमीपुरस्कारः. वयलार् पुरस्कारः, आशान् पुरस्कारः, ललिताम्बिका अन्त्रजनपुरस्कारः, वल्लत्तोळ् पुरस्कारः, इत्यादिभिः सा बहुमानिता अभवत्।

तीव्रव्यापनविषाणुः आशङ्का नावश्यकी इति केन्द्रीय स्वास्थ्यमन्त्रालयः, जागरुकतायां सर्वकारः।

 

नवदिल्ली- व्रिट्टन् प्रभृतिषु यूरोपीयराष्ट्रेषु तीव्रव्यापनशीलस्य विषाणोः सान्निध्ये परिभ्रमस्य आवश्यकता नास्तीति  केन्द्रीयस्वास्थ्यमन्त्रालयः। नूतनाः स्थितिगतीः अधिकृत्य गवेषकाः शास्त्रज्ञाश्च अवधानतया निरीक्षन्ते। अत्र भयस्य आवश्यकता नास्तीति स्वास्थ्यमन्त्रालयस्य़ सूचना।

    जनितकव्यतियानं प्राप्ता नूतनविषाणुः व्रिट्टने एव दृष्टाः। अपि च इट्टली, डेन्मार्क्, होलन्ट्, इत्यादिषु यूरोपीय राष्ट्रेषु, दक्षिणाफ्रिक्का, औस्ट्रेलिया  प्रभृतिष्वपि रोगबाधा दृष्टा।

     अस्मिन्नन्तरे लण्टने विषाणुव्यापनकारणात् पुनरपि पिधानं सञ्जातम्। सौदी अरेब्या  स्थल-व्योम-समुद्रसीमाः एकसप्ताहं यावत्  पिधातुं निरणयत्।

आकाशे शनिबृहस्पतिग्रहयोः सङ्गमः अद्य दृष्टिगोचरं भवति।

कोषिक्कोट्- सौरयूथे गुरुः शनिॆॆश्च बृहत्ग्रहौ भवतः। एतौ एकत्र एकरेखायामिव अवस्थीयेते अद्य। एतद्दृश्यं   सर्वेषां दृष्टिगोचरं भवति। एतयोः सामीप्यं 400 वर्षाभ्यन्तरे महासङ्गमरूपेण अद्यैव सम्भवति। इतः परं 2080 मार्च 15 दिनाङ्के एव एतद्दृश्यं भविष्यतीति विशेषता अस्ति। इतः पूर्वं 1623 तमे वर्षे एव एतौ ग्रहौ समीपमागतौ।

     ज्योतिश्शास्त्रे अयं प्रतिभासः महासङ्गमः इत्युच्यते। नग्ननेत्राभ्यां पश्यति चेत् द्वावपि ग्रहौ परस्परं सम्भूय तिष्ठतीति प्रतीयते। परं यथार्थतः एतौ 75 कोटि किलोममीट्टर् परिमिते दूरे तिष्ठतः। सूर्यास्तमयानन्तरं एतं प्रतिभासं द्रष्टुं शक्यते। गुरुग्रहस्य सूर्यपरिक्रमणकालः 12 वर्षाणि भवति। परं शनिग्रहस्य परिक्रमणाय 30 वर्षाणि अपेक्षितानि। द्वावपि पश्चिमदिशः पूर्वं प्रति परिक्रामतः। अतः प्रति विंशतिवर्षेभ्यः गुरुग्रहः आकाशे शनिग्रहमतिक्रामते।

जीह्वा ह्यतिविनाशिका (भागः १६३) – 26-12-2020

EPISODE – 163

नूतना समस्या-

“जीह्वा ह्यतिविनाशिका”

ഒന്നാംസ്ഥാനം

“വിവേകേഷു വികാരാണാ-
മാധിപത്യേന ദുർഗതി:
തസ്മിന്നവസരേ നൂനം
ജിഹ്വാഹ്യതിവിനാശികാ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १६३) 26-12-2020

EPISODE -163

 

 

प्रश्नोत्तरम्।

 

 

  1. ते छात्राः पुस्तकम् ——–। (क)अपठत   (ख) अपठाम  (ग) अपठन्
  2. वयं पत्रम् ——–। (क) अलिखाम  (ख) अलिखन्  (ग) अलिखत
  3. तौ कुत्र ——-? (क) अगच्छतम्  (ख) अगच्छाव  (ग) अगच्छताम्
  4. सिंहाः ——–। (क) अगर्जत  (ख) अगर्जन्  (ग) अगर्जाम
  5. मयूराः ——–। (क) अनृत्यन्  (ख) अनृत्यत (ग) अनृत्याम
  6. अध्यापकाः पाठान् ——–। (क) अपाठयन्  (ख) अपाठयत (ग) अपाठयाम
  7. यूयं लेखनीः ——-। (क) अगच्छाम  (ख) अगच्छत (ग) अगच्छन्
  8. आरक्षकौ चोरम् ——-। (क) अताडयः  (ख) अताडयताम् (ग) अताडयत
  9. पुष्पाणि ——–। (क) अशुष्यतम् (ख) अशुष्य़ः (ग) अशुष्यन्
  10. युवां शाकाम् ——–। (क) अकर्तयतम् (ख) अकर्तयः (ग) अकर्तयन्

ഈയാഴ്ചയിലെ വിജയി

MAYA P. R.

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ:

  • Maya P R
  • Leena K S
  • Krishnakumari
  • Adidev C S
  • Dawn Jose
  • Adithyakrishna

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”