Daily Archives: December 8, 2020

संसन्मन्दिरस्य पुनर्निर्माणम् अधुना न कर्तव्यमिति सर्वोच्चन्यायालयस्य आदेशः।

नवदिल्ली-  नूतनस्य संसन्मन्दिरस्य शिलान्यासं कर्तुं शक्यते। परं निर्माणम्  अधुना न कर्तव्यम् इति सर्वोच्चन्यायालयः। अधुना स्थितस्य मन्दिरस्य पाटनं वृक्षाणां नाशनं वा न कर्तव्यम् इत्यपि सर्वोच्चन्यायालयः केन्द्रसर्वकाराय निर्देशमदात्। न्यायालयस्य निर्देशः अवश्यं पालयतीति सर्वकारः अवदत्।

     नूतनस्य संसन्मण्डलस्य निरमाणाय 20000 कोटि रूप्यकाणां परियोजनां् विरुध्य समर्पिते आवेदने अन्तिमनिर्णयम् आदम्यमाने मन्दिरनिर्माणप्रवर्तनेन पुरोगच्छन्तः सर्वकारस्य उद्यमे न्यायाधधिपाः अतृप्तिं प्राकटयन्।

     न्यायालयस्य सूचनां स्वीकृत्य सर्वकारस्य प्रवृत्तौ  प्राड्विवाकः सर्वकारस्य कृते खेदं प्राकटयत्। शिलान्यासादृते अन्यानि प्रवर्तनानि अधुना न करिष्यतीति सर्वकारस्य वादं स्वीकृत्य न्यायालय शिलान्यासाय सोपाधिकाम् अनुमतिम् अदात्।