कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या दिवङ्गता।
तिरुवनन्तपुरम्- मानवजीवनस्य याथार्थ्यतां हृदयस्पृग्रूपेण स्वकवितया आविष्कृतवती कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या नित्यतायां लीना अभवत्। कोविड् विषाणुबाधया तिरुवनन्तपुरे वैद्यकीयकलाशालाचिकित्सालये चिकित्सायामासीत्। अर्धशतकाधिकेन कालेन स्वकीयकाव्यजीवने अशरणानां आ श्रयरूपेण स्थिता आसीत् इयं महोदया। अपिच परिस्थिति- जनकीयप्रक्षोभेषु समरनायिका चासीत्।
प्रशस्तः कविः स्वतन्त्रतासंग्रामसेनानी बोधेश्वरः, तिरुवनन्तपुरं वनितााकलालये भुतपूर्वसंस्कृतप्राचार्या कार्त्यायनी अम्मा च अस्याः पितरौ। सा 1934 जनुवरी 22 दिनाङ्के भूजाता अभवत्। तत्त्वशास्त्रे स्नातकोत्तरबिरुदं सम्पादितवती सुगतकुमारी तलिर् इति बालमासिक्याः सम्पादिका, राज्य वनिता आयोगस्य अध्यक्षा, तिरुवनन्तपुरं बालभवनस्य मेधावी चासीत्। परिस्थितिसंरक्षणाय स्वकविताद्वारा निरन्तरं रणं कुर्वती सा अगतीना स्त्रीणां कृते अत्ताणी इति भवनम्, मानसिकरोगिणां कृते परिचरणालयं, अभयग्रामं च संस्थाप्य समाजस्य मुख्यधारायं स्थिता अभवत्।
1961 आरभ्य तस्याः वह्यः कविताः प्रकाशिताः। तेषु प्रथमं मुत्तुच्चिप्पी नामिका भवति। रात्रिमषा इति कविता केन्द्र साहित्य अक्कादम्या पुरस्कृता। साहित्ये समग्रयोगदानं पुरस्कृत्य एषुत्तच्छन् पुरस्कारः. सामाजिकसेवार्थं लक्ष्मीपुरस्कारः, केरलसाहित्य अक्कादमीपुरस्कारः. वयलार् पुरस्कारः, आशान् पुरस्कारः, ललिताम्बिका अन्त्रजनपुरस्कारः, वल्लत्तोळ् पुरस्कारः, इत्यादिभिः सा बहुमानिता अभवत्।
Leave a Reply