Daily Archives: December 3, 2020

बुरेवी चक्रवातः श्रीलङ्कायां नाशं वितीर्य केरलतीरं समागच्छति।

कन्याकुमारि- बुरेवी चक्रवातस्य आशङ्कायां केरलदेशः। अद्य चतुर्षु मण्डलेषु जाग्रतानिर्देशः घोषितः। मध्यकेरले अपि तीव्रवृष्टिर्भविता।

     दक्षिणपूर्व वंगसमुद्रे रूपमापन्नः बुरैवि चक्रवातः ह्यस्तने रात्रावेव श्रीलङ्कातीरं सम्प्राप्ताः। अद्य प्रातः कन्याकुमारीतीरं प्राप्नोतीति प्रवचनमस्ति। पाम्पन् तीरे सम्प्राप्यमाने चक्रवातस्य वेगः प्रतिहोरं 70  तः 80 कि.मी. भविष्यति। केरलेषु तीरमण्डले देशियदुरन्तसेनादलानि विन्यस्तानि। तिरुवनन्तपुरं पत्तनंतिट्टा, कोल्लम्, आलप्पुषा मण्डलेषु रक्तजाग्रता घोषिता।

    जाग्रतानिर्दिष्टमेखलायां जनां बहिः न गच्छेयुरिति सूचना अस्ति।