Monthly Archives: January 2021

PRASNOTHARAM (भागः १६९) 06-02-2021

EPISODE – 169

 

प्रश्नोत्तरम्।

 

 

 

  1. सीता वनं ——–।(क) गमिष्यति  (ख) गमिष्यसि (ग) गमिष्यामि
  2. सेविका गृहं ——–। (क) मार्जयिष्यामि  (ख) मार्जयिष्यसि  (ग) मार्जयिष्यति
  3. गायकः गीतं ——-। (क) गास्यसि (ख) गास्यति (ग) गास्यामि
  4. छात्रः विषयं ——-। (क) ज्ञास्यामि  (ख) ज्ञास्यसि (ग) ज्ञास्यति
  5. सा वस्त्रप्रक्षालनं ——-। (क) करिष्यति  (ख) करिष्यामि (ग) करिष्यसि
  6. अर्चकः मन्त्रं ——-।(क) वदिष्यामि (ख) वदिष्यति  (ग) वदिष्यसि
  7. भगिनी धनं ——-। (क) नेष्यसि  (ख) नेष्यामि  (ग) नेष्यति
  8. शिशुः ——। (क) हसिष्यति  (ख) हसिष्यसि (ग) हसिष्यामि
  9. फलं ——। (क) पतिष्यसि (ख) पतिष्यति (ग) पतिष्यामि
  10. एषा शाटिकां ——-। (क) क्रेष्यति  (ख) क्रेष्यसि  (ग) क्रेष्यामि

ഈയാഴ്ചയിലെ വിജയി

SANJAY DAMODARAN

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവ‍ർ

  • Sanjay Damodaran
  • Krishnakumari
  • Adidev C S
  • Leena K S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

राष्ट्रे पद्मपुरस्काराः घोषिताः।

नवदिल्ली- ऐषमः पद्मपुरस्काराः राष्ट्रपतिना रामनाथ कोविन्द् वर्येण घोषिताः। गणतन्त्रदिवसमालक्ष्य घोषितेषु पुरस्कारेषु केरलराज्यस्य उत्कर्षता प्रतिभाति।

     चलचित्रगायिका के.एस्. चित्रा वर्या पद्मभूषण् पुरस्कारेण, चलचित्रमण्डले गायक-संगीतनिदेशक-गानरचयितृरूपेण प्रसिद्धः कैतप्रं दामोदरन् नम्पूतिरिः पद्मश्रीपुरस्कारेण च बहुमतौ।

     एस्.पि. बालसुब्रह्मण्यम् वर्याय मरणानन्तरबहुमति रूपेण पद्मविभूषणपुरस्कारः घोषितः। स अन्तर्भूय सप्तजनाः पद्मभूषणपुरस्कारेण बहुमताः।

सुखिनः सन्तु सज्जनाः (भागः १६८) – 30-01-2021

EPISODE – 168

नूतना समस्या-

“सुखिनः सन्तु सज्जनाः”

ഒന്നാംസ്ഥാനം

“നശ്വരേ ഭൗതികേ ലോകേ
ധനമോഹം ത്യജന്ത: യേ
നിഷ്ക്കാമകർമസക്താസ്തേ
സുഖിന: സന്തു സജ്ജനാ:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १६८) 30-01-2021

EPISODE- 168

 

 

प्रश्नोत्तरम्।

 

 

  1. त्वं देवं ——-। (क) नतवन्तः (ख) नतवान् (ग) नतवत्यः
  2. त्वं कार्यं ——-। (क) कृतवान्  (ख) कृतवन्तौ (ग) कृतवन्तः
  3. युवां पत्रं ——। (क) लिखितवान्  (ख) लिखितवन्तः (ग) लिखितवन्तौ
  4. यूयं दुग्धं ——। (क) पीतवन्तः (ख) पीतवत्यौ (ग) पीतवती
  5. अहं कथां ——-। (क) लिखितवन्तः (ख) लिखितवान् (ग) लिखितवत्यौ
  6. आवां चित्रं ——-। (क) दृष्टवान्  (ख) दृष्टवन्तः  (ग) दृष्टवान्तौ
  7. वयं नियमं ——–। (क) पालितवान् (ख) पालितवन्तः(ग) पालितवत्यः
  8. अहं ग्रामं —–। (क) गतवान् (ख) गतवन्तौ  (ग) गतवन्तः
  9. ताः नृत्तं ——। (क) कृतवन्तः (ख) कृतवत्यः (ग) कृतवान्
  10. अध्यापकाः विद्यालयं ——-। (क) गतवान्  (ख) गतवती (ग) गतवन्तः

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങൾ”

भारतस्य विजयः प्रचोदनात्मक इति प्रधानमन्त्री।

नवदिल्ली-  क्लेशान् अतिजीव्य  आस्ट्रेलियाराष्ट्रस्योपरि भारतक्रिक्केट्संघेन अवाप्तः विजयः राष्ट्रस्य कृते प्रचोदनात्मक एवेति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। असमराज्यस्य तेज्पुर विश्वविद्यालयेन आयोजितस्य दीक्षान्तसमारोहस्य औपचारिकम् उद्घाटनं वी़डियो सम्मेलनद्वारा विधास्यन् भाषमाण आसीत् प्रधानमन्त्री।

     आस्ट्रेलियायां भारतेन बह्यः क्लेशाः अभिमुखीकृताः। गरीयान् पराजयः प्रधमतया अभिमुखीकृत्यापि पुनः मत्सरे तस्मात् पराजयात् उत्तीर्य प्रतियोक्तुं सन्नद्धः अभवत् भारतसंघः। प्रतिसन्धीनां मध्ये आशाभङ्गं परित्यज्य नूतनः मार्गः  अन्वेष्टव्यः एवेति नूतनः पाठः संघेन अपाठि। अत एव राष्ट्रस्थाः युवकाः अमुं विजयं आदर्शविजयरूपेण स्वीकुर्युः इति प्रधानमन्त्री युवकान् उदबोधयत्।

मास्तु कृषकरोदनम् (भागः १६७) 23-01-2021

EPISODE – 167

नूतना समस्या-

“मास्तु कृषकरोदनम्”

ഒന്നാംസ്ഥാനം

കൃഷിരാത്മാ ഹി ലോകസ്യ
കൃഷിം മാനയ മാനവ !
കൃഷേരേവ ഹി സംസ്കാരോ
മാസ്തു കൃഷകരോദനം.

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १६७) 23-01-2021

EPISODE – 167

 

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः विद्यालयं ———। (क) गतवती  (ख) गतवन्तः  (ग) गतवान्
  2. छात्रः पुस्तकं ———। (क) पठितवान्  (ख) पठितवन्तौ  (ग) पठितवती
  3. पुत्रः पत्रं ——–। (क) लिखितवान्  (ख) लिखितवती (ग) लिखितवन्तः
  4. बालिका नृत्तं ——-। (क) कृतवान् (ख) कृतवती (ग) कृतवन्तः
  5. महिला जलं ——-। (क) पीतवान्  (ख) पीतवत्यौ (ग) पीतवती
  6. मृगाः शीघ्रं ——-। (क)धावितवन्तौ (ख) धावितवत्यः (ग) धावितवन्तः
  7. बालौ चित्रं ——-। (क) दृष्टवन्तौ  (ख) दृष्टवन्तः (ग) दृष्टवत्यः
  8. अजा पर्णं  ——। (क) खादितवान् (ख) खादितवती (ग) खादितवान्तः
  9. बालिकाः ——–। (क) क्रीडितवत्यः  (ख) क्रीडितवन्तः (ग) क्रीडितवन्तौ
  10.  सः फलं ——। (क) खादितवती  (ख) खादितवत्यौ  (ग) खादितवान्

ഈയാഴ്ചയിലെ വിജയി

SEETHU C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Seethu C S
  • Abhinand K A
  • Leena K S
  • Arjun Valsan
  • Krishnakumari
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

कविता – विजयन् वि पट्टाम्पि।

भारतं महनीयम्
— – – – – – – – ———-
भारतं जनायत्तं महनीयं महीतलं
महता प्रयासेन देशिकैः समुद्धृतम् । । ।
शतञ्च तत: पुनस्त्रिंशत्कोटिमिताः
जनाश्च निवसन्ति विभिन्नधर्माश्रयाः । ।
गङ्गया यमुनया पुण्यनिलया कावेर्या च
सन्ततं कलगीतैराशंसा: समार्चिताः ॥
हिमवान्महीधरो भारतसंरक्षक –
श्चोन्नतशिरा भूत्वा उत्तरे विराजते ॥
बलवान् शत्रून् सर्वानुत्तरान् महावीर्यान्
वारणं कृत्वा नित्यं भारतमसेवत ॥
धावयन्त्यो नित्यं पादारविन्दौ भक्त्या
सिन्धुवीचयो हन्त ! देशो∫यं पर्यलालयन् ॥
सागरतीरेष्वेव भारतदेशस्यास्य
वाणिज्यं वृद्धिमाप सुस्थिरं निराश्रयम् ॥
सज्जनो महात्मानः बहवो कृतयत्नाः
जीवनं धन्यं कृत्वा राजन्ते सुरलोके ॥
शङ्करो महागुरुरद्वैतमन्त्रान् कृत्वा
किङ्करानकरोत् स लोकान् धर्माश्रयान् ॥
सत्यमेवात्र नित्यं विजयतेतरामिति
उत्तममुच्चैस्तरं धोषयद्राष्ट्रं चैतत् ॥
ऋषयो बहवश्चासन् धर्मस्य संरक्षकाः
शौनक व्यास शुक गौतम पराशराः ॥
संस्कृतं दिव्यामृतं सज्जनै : संसेवितं
तद्भाषाप्रथितं तद्भारतमहापुण्यम् । .
दीपयन्महीतलं काव्यैश्च शास्त्रादिभिः
शोभते सुभाषितैराचन्द्रतारं देशे ।
भारतमितिहासं महत्तमं पाराशर्यं
सपादलक्षात्मकश्लोकैरलङ्कृतम् ॥
उपदेशसहस्रैस्तदनुदिनं राष्ट्रस्यास्य
जीवनमार्गेष्वद्य बहुभ्यो दीपायते ॥
सुखिनो भवन्तु जनाः देशे∫स्मिन्नहर्निशं
आमयान् विना सर्वे मोदन्तामनारतम् ॥
                                              विजयन् वि पट्टाम्पि

कोविड् प्रतिरोधकौषधस्य प्रयोगः समारब्धः

नवदिल्ली- कोविड् प्रतिरोधकौषधस्य वितरणं प्रधानमन्त्रिणा नरेन्द्रमोदीवर्येण उद्घाटितम्। दिल्लीतः वीडियो सम्मेलनद्वारा एव प्रधानमन्त्री एतत्कर्म निरवहत्। प्रतिरोधकं कदा लप्स्यते इति अन्विष्यमाणाः आसन् जनाः। अधुना तत् लभ्यमभवत्। अस्मिन्नवसरे सर्वान् पौरान् अभिनन्दामि इति प्रधानमन्त्रिणा निगदितम्।

    कोरोणा विषाणुप्रतिरोधकस्य मात्राद्वयमपि प्राधान्यमर्हति इति जनान् स्मारयामि। मात्राद्वयस्य एकमासान्तरं भवेदिति विदगाधानामभिप्रायः अस्तीत्यपि मोदीवर्येण इक्तम्।

     साधारणतया प्रतिरोधकौषधस्य निर्माणे कार्यान्वयने च वर्षाणां प्रयत्नः आवश्यकः। परन्तु एतस्मिन्नन्तरे भारतेन निर्मीतं प्रतिरोधकद्वयं सज्जमभवत्। इतरेषां प्रतिरोधकानां निर्माणं पुरो गच्छति।

     सेरम् इन्स्टिट्यूट् इति संस्थायाः कोविषील्ट् आख्यं प्रतिरोधकं,  भारत् बयोटेक् इत्यस्य कोवाक्सीन् इति प्रतिरोधकं च प्रयोक्तुम् अधुना अनुमतौ। प्रथमसोपाने स्वास्थ्यप्रवर्तकानां कृते एव प्रतिरोधकं ददाति।

कार्षिकनियमस्य अवष्टम्भनं कुरु इति सर्वकारं प्रति सर्वोच्चन्यालयस्य आदेशः।

नवदिल्ली- केन्द्रसर्वकारस्य कार्षिकनियमः अधुना प्राबल्ये न भवतु इति सर्वोच्चन्यायालयः। कृषकाणां समरं प्रति सर्वकारस्य प्रवृत्तिः न्यायालयस्य अतृप्तेः कारणमभवत्। कार्षिकसमरं विरुध्य सर्वकारस्य आवेदने परिगण्यमाने आसीत् मुख्यन्यायाधीशस्य एस्.ए. बोब्डे वर्यस्य निगमनम्।

कार्षिकनियमः सर्वकारेण घनीकर्तव्यः, अन्यथा न्यायालयेन तत्क्रियते इति मुख्यन्यायाधीशः वाचा सूचितवान्।

कैन्द्रसर्वकारस्य प्रवृत्तिं न्यायालयः अतिरूक्षं व्यमर्शयत्। समस्यापरिहारार्थं सर्वकारः न प्रभवति इति सखेदं वक्तव्यम्। नियमनिर्माणाय अवश्यपर्यालोतनाः न प्रवृत्ताः। अत एव कृषकाः समराङ्गणमागताः। अतः सर्वकारः अवश्य समस्यां परिहरेत् इत्यपि न्यायालयः अवदत्।