Monthly Archives: December 2020

रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य समारम्भः

कोषिक्कोट्- रसना- संस्कृतमासपत्रिकया संस्कृतसंवर्धनप्रतिष्ठानस्य सहयोगेन समायोज्यमाना द्विदिवसीया राष्ट्रियान्त्जालसङ्गोष्ठी अद्य प्रातः दशवादने समारभ्यते।डिसम्बर् १८,१९ दिनाङ्कयोः प्रातः दशवादनात् द्वादशवादनपर्यन्तं  सङ्गोष्ठी प्रचलिष्यति। सूम्  इति अनुप्रयोगद्वारा  भागं स्वीकर्तुं सर्वे संस्कृतानुरागिणः प्रभवन्ति। ते भागं स्वीकृत्य एनम् उद्यमं सफलं कुर्वन्तु इति रसना मासिक्याः प्रबन्धकसम्पादकः के. एम्. जनार्दनवर्यः सूचितवान्। संस्कृतमाध्यमानां नूतनप्रवणताः इति विषये भारतस्य प्रमुखाः संस्कृतपण्डिताः भाषणं करिष्यन्ति। पद्मश्री. च मू कृष्णशास्त्री, वरिष्ठः संस्कृतवार्ता-प्रवाचकः डा. बलदेवानन्द सागरः, सुधर्मा पत्रिकायाः सम्पादकः विद्वान् हेच् वी. नागराजः. महामहोपाध्यायः डा. जी. गङ्गाधरन् नायर् महोदयः, दूरदर्शनस्य वार्तावली कार्यक्रमस्य अवतारकः डा. नारायणदत्त मिश्रः अन्ये विद्वांसः च भागभाजः भविष्यन्ति।

 

केरलेषु प्रादेशिकनिर्वाचनम्, अद्य मतगणना,

तिरुवनन्तपुरम्- कोविड् जागरूकतां परिपाल्य केरलेषु चरणत्रयेण प्रवृत्तस्य निर्वाचनस्य मतगणना आद्य प्रातः अष्टवादने आरभ्यते। मध्याह्नेन सम्पूर्णं फलं ज्ञातुं शक्यते। निर्वाचितानि अङ्गानि आगामिनि सोमवासरे शपथं गृहीत्वा पदवीं स्वीकरिष्यन्ति।

     प्रादेशिकस्वयंप्रशासनव्यवस्थामनुसृत्य 1199 प्रादेशिकसंस्थासु 21861 निर्वाचनक्षेत्राणि केरलेषु सन्ति। एषप 941 ग्रामपञ्चायत्, 152 व्लोक् पञ्चायत्, 14 जिल्ला पञ्चायत्, 86 नगरसभाः, 6 महानगरसभाश्च भवन्ति। आहत्य 74899 स्थानाशिनः सन्ति। आहत्य 244 मतगणनाकेन्द्राणि सन्ति। एतानि प्रतिमण्डलं दशतः विंशतिपर्यन्तं व्याप्य तिष्ठन्ति।

द्वित्रास्त्वत्र महाजनाः (भागः १६२) – 19-12-2020

EPISODE – 162

नूतना समस्या –

“द्वित्रास्त्वत्र महाजनाः”

ഒന്നാംസ്ഥാനം

“കുത്രാസ്തിസത്യസംയുക്ത:
കുത്രാസ്തി ത്യാഗസംയുത:
കുത്രാസ്തിജ്ഞാനസർവ്വസ്വം
ദ്വിത്രാസ്ത്വത്ര മഹാജനാ:”

Narayanan N

 

STD-10: CHAPTER-9: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 9 – CLASS – 1

CHAPTER – 9 – CLASS – 2

CHAPTER – 9 – CLASS – 3

CHAPTER – 9 – CLASS – 4

CHAPTER – 9 – CLASS – 5

CHAPTER – 9 – CLASS – 6

PRASNOTHARAM (भागः १६२) – 19-12-2020

EPISODE – 162

प्रश्नोत्तरम्।

 

 

 

 

 

 

  1. अहम् आदेशान् ——। (क) अपठत्  (ख) अपठम्  (ग) अपठः
  2. आवां दर्शनम् ——-। (क) अपठताम् (ख) अपठतम्  (ग) अपठाव
  3. वयं वेदान् ——-। (क) अपठाम (ख) अपठन् (ग) अपठत
  4. ——-कथाः अपठाव। (क) युवां  (ख) आवां (ग) तौ
  5. ——-नाटकानि अपठम् । (क) अहं  (ख) त्वं  (ग) भवान्
  6. ——-विनोदान् अपठाव। (क) युवां  (ख) आवां  (ग) बालकौ
  7. ——-उत्तरम् अपठाम। (क) वयम् (ख) यूयम्  (ग) ताः
  8. अहं वाक्यानि ——–। (क) अपठः  (ख) अपठत् (ग) अपठम् 
  9. आवां ग्रन्थान् ——-। (क) अपठतम् (ख) अपठताम् (ग) अपठाव
  10. ——आत्मकथाम् अपठम् । (क) अहम् (ख) त्वम् (ग) सः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • ADIDEV C S
  • Leena K S
  • Janusha J
  • Gokulkrishna
  • Adarsh C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

 

 

Last date: 19-12-2020

सुप्रसिद्धः कैरलीसाहित्यकारः यु.ए. खादर् वर्यः निर्यातः।

कोषिक्कोट्- प्रशस्तः साहित्यकारः यु.ए. खादर् वर्यः कालयवनिकायम् अन्तरितः। स ८५ वयस्कः आसीत्। श्वासकोशार्बुदबाधया कोषिक्कोटे निजीयचिकित्सालये चिकित्सायामासीत्।

     १९३५ वर्षे पूर्वम्यान्मार् देशे बिल्लिन् इति ग्रामे अयं भूजातः। तस्य माता म्यान्मार् देशीया आसीत्। तस्य सप्तमे वयसि मातुः वियोगानन्तरं पितुः साकम् अयं केरलेषु पितुः देशमागतः। अस्य प्राथमिकशिक्षा कोयिलाण्टी उच्चविद्यालये आसीत्। ततः मद्रपुरी कलाशालातः चित्ररचनायां बिरुदं सम्पादितवान्।

     १९८३ वर्षे तृक्कोट्टूर् पेरुमा इति कथासमाहाराय, २००० तमे वर्षे अघोरशिवम् इति कैरली नोवल् कृते च केरलसाहित्य अक्कादमीपुरस्कारम् अवाप्तवान्। २००९ तमे वर्षे केन्द्र साहित्य अक्कादमीपुरस्कारमपि अनेन प्राप्तः।

     कोषिक्कोट् आकाशवाणी निलये राज्य स्वास्थ्यविभागे च असौ सेवां व्यदधात्। २०११ तमे वर्षे प्रकाशितं शत्रु इति नोवल् एव तस्य अन्तिमा कृतिः।

शिवगिरितीर्थाटनाय सज्जीकरणमारब्धम्। कोवि़ड् मानदण्डमनुसृत्य तीर्थाटकानां सङ्ख्या न्यूनीकरिष्यति।

 वर्कला- अष्टाशीतितमं शिवगिरतीर्वथाटनं  समायोजयितुं सज्जीकरणम् आरब्धम्। कोविड् मानदण्डं परिपाल्यैव अस्मिन् वर्षे तीर्थाटनं भविष्यति। जनसम्मर्दमपहातुं प्रतिदिनं सहस्रपरिमितान् जनानेव प्रवेशयिष्यति।

     डिसम्बर् 30, 31, जनुलरि 1 दिनाङ्केषु अयाथार्थ्यरुपेणैव तीर्थाटनम् आयोजयिष्यति इति शिवगिरिमठाधिकारिणः असूचयन्। पूर्ववत् महासम्मेलनानि कार्यक्रमाश्च अस्मिन् वर्षे न भविष्यति। प्रमुखानां प्रभाषणानि डिसम्बर् 25 आरभ्य शिवगिरि टी.वी. द्वारा सम्प्रेषयिष्यति।

     सम्मर्दन्यूनिकरणस्य भागत्वेन विशेषबस्यान रेलयानसेवाः अस्मिन् वर्षे नायोजयिष्यति। स्नानघट्टादीनि अणुविमुक्तानि करिष्यति इत्यपि अधिकारिणः अब्रुवन्।

संसन्मन्दिरस्य पुनर्निर्माणम् अधुना न कर्तव्यमिति सर्वोच्चन्यायालयस्य आदेशः।

नवदिल्ली-  नूतनस्य संसन्मन्दिरस्य शिलान्यासं कर्तुं शक्यते। परं निर्माणम्  अधुना न कर्तव्यम् इति सर्वोच्चन्यायालयः। अधुना स्थितस्य मन्दिरस्य पाटनं वृक्षाणां नाशनं वा न कर्तव्यम् इत्यपि सर्वोच्चन्यायालयः केन्द्रसर्वकाराय निर्देशमदात्। न्यायालयस्य निर्देशः अवश्यं पालयतीति सर्वकारः अवदत्।

     नूतनस्य संसन्मण्डलस्य निरमाणाय 20000 कोटि रूप्यकाणां परियोजनां् विरुध्य समर्पिते आवेदने अन्तिमनिर्णयम् आदम्यमाने मन्दिरनिर्माणप्रवर्तनेन पुरोगच्छन्तः सर्वकारस्य उद्यमे न्यायाधधिपाः अतृप्तिं प्राकटयन्।

     न्यायालयस्य सूचनां स्वीकृत्य सर्वकारस्य प्रवृत्तौ  प्राड्विवाकः सर्वकारस्य कृते खेदं प्राकटयत्। शिलान्यासादृते अन्यानि प्रवर्तनानि अधुना न करिष्यतीति सर्वकारस्य वादं स्वीकृत्य न्यायालय शिलान्यासाय सोपाधिकाम् अनुमतिम् अदात्।

कृषको लोकरक्षकः (भागः १६१) – 12-12-2020

EPISODE- 161

नूतना समस्या-

 

“कृषको लोकरक्षकः”

ഒന്നാംസ്ഥാനം

“സർവ്വേഷാം പ്രാണിവർഗാണാം
ഊർജദാതാ സമുന്നത:
യത്നശീലശ്ച ശ്രേഷ്ഠശ്ച
കൃഷകോ ലോകരക്ഷക:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM (भागः १६१) – 12-12-2020

EPISODE – 161

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वं रामायणम् ——-। (क) अपठम्  (ख) अपठत्   (ग) अपठः
  2. यूयं काव्यम् ——-। (क) अपठत (ख) अपठाम  (ग) अपठन् 
  3. युवां समाचारम् ——-। (क) अपठाव (ख) अपठतम्  (ग) अपठताम् 
  4. ते साहित्यम् ——–। (क) अपठन्  (ख) अपठाम  (ग) अपठत
  5. एते महिले पत्रम् ——–। (क) अपठताम् (ख) अपठाव  (ग) अपठतम्
  6. भवन्तः व्याकरणम् ——–। (क) अपठत (ख) अपठन्  (ग) अपठाम
  7. छात्रौ कादम्बरीम् ———। (क) अपठताम्  (ख) अपठाव  (ग) अपठतम्
  8. त्वं लेखम् ——। (क) अपठत्  (ख) अपठम्  (ग) अपठः
  9. यूयं जीवनचरितम् ——। (क) अपठाम  (ख) अपठन्  (ग) अपठत
  10. युवां फलकम् ——-। (क) अपठताम् (ख) अपठतम्  (ग) अपठाव

ഈയാഴ്ചയിലെ വിജയി

ADITHYAKRISHNA

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adithyakrishna
  • Leena K S
  • Raghavan A
  • Krishnakumari

“പങ്കെടുത്തവ‍ർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”