Monthly Archives: May 2020

उम्पुन् चक्रवातः शक्तिं प्राप्नोति, केरले ११ मण्डलेषु महती वृष्टिः तथा वातश्च भविष्यति।

तिरुवनन्तपुरम्- वंगसमुद्रे रूपं प्राप्तः न्यूनमर्दः शक्तिं प्राप्य चक्रवातरूपेण परिवृते साहचर्ये केरलदेशे सवाता महावृष्टिः भविष्यतीति केन्द्र वातावरणविभागः असूचयत्। आगामिनिषु होरासु केरले ११ मण्डलेषु सौदामिन्या वातेन च युक्ता वृष्टिः भविष्यतीति सूचना। वातस्य वेगः प्रतिहोरं ४० कि.मी. भविता। वंगसमुद्रे रूपं प्राप्तः उम्पुन् नामकः चक्रवातः आगामिनिषु षड्होरासु अतितीव्रः भविष्यति।

श्वः प्रातःकालेन चक्रवातः उग्ररूपं प्राप्स्यति। अधुना ओडीषासमीपस्थात् पारद्वीपात् ९९० कि.मी. दूरे एव चक्रवातस्य सञ्चारपथः। एषः बंगाल् ओडीषा तीरं अचिरेण प्राप्स्यति। चक्रवातस्य अतितीव्रत्वे प्रतिहोरं २०० कि.मी. वेगं प्राप्तुं साध्यता अस्ति।

कुजवासरे रात्रौ एष वातः भारततीरे घोररूपेण आगमिष्यति। मत्स्यकर्मकराः समुद्रं मा गच्छत इति जाग्रतानिर्देशः घोषितः। केरलं चक्रवातस्य सञ्चारपथे नास्ति। तथापि तत्प्रभावेण अतितीव्रा वृष्टिः अत्र भविष्यति।

PRASNOTHARAM (भागः १३२) – 23-05-2020

EPISODE – 132

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “बुद्धचरितं  ” कस्मिन् विभागे अन्तर्भवति ?  (क) नाटके  (ख) चरित्रकाव्ये  (ग) महाकाव्ये
  2. बुद्धचरितस्य कर्ता कः ? (क) अश्वघोषः (ख) भासः  (ग) भारविः
  3. बुद्धचरिते कति सर्गाः सन्ति ? (क) २७      (ख) २८    (ग) २९
  4. बुद्धचरितस्य मुख्यरसः कः ? (क) वीरः   (ख) शृङ्गारः   (ग) शान्तः
  5. बुद्धचरिते नायकः कः ? (क) शुद्धोधनः    (ख) बिम्बिसारः   (ग) श्रीबुद्धः
  6. श्रीबुद्धस्य पिता कः ?  (क) शुद्धोधनः  (ख) परमहंसः  (ग) बिम्बिसारः
  7. श्रीबुद्धः कुत्र जनिम् अलभत ? (क) लुम्बिनी  (ख) कुरुक्षेत्र   (ग) मथुरा
  8. श्रीबुद्धस्य भार्या का ? (क) मायादेवी  (ख) यशोधरा  (ग) निवेदिता
  9. श्रीबुद्धस्य माता ——- भवति । (क) शारदा  (ख) मायादेवी  (ग) य़शोधरा
  10. ——–बुद्धस्य पुत्रः भवति । (क) राहुलः  (ख) विवेकः  (ग) भरतः

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHNA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • KISHORE KRISHNA SEVADAI
  • Sreesha Vinod
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सी.बी.एस्.इ. १०,१२ कक्ष्यायाः परीक्षाक्रमः १८ दिनाङ्के घोषयिष्यति।

नवदिल्ली- कोविड्-१९ व्यापनकारणात् परिवर्तितायाः सी.बी.एस्.इ. १०,१२ कक्ष्यायापरीक्षायाः क्रमः अस्मिन् मासे १८ दिनाङ्के घोषयिष्यति इति सी.बी.एस्.इ. असूचयत्। परिवर्तितः दिनाङ्कः शनिवासरे घोषिता इति केन्द्र- मानवविभवशेषिमन्त्री रमेष् पोक्रियाल् ट्विट्टर् द्वारा असूचयतासीत्।

परन्तु परीक्षासञ्चालनार्थं काश्चन साङ्केतिकसज्जता करणीया आसीत् । अत एव प्रख्यापनं विलम्बितमिति सी.बी.एस्.सी असूचयत्। जूलै प्रथमतः १५ पर्यन्तं परीक्षाचालनं भविष्यतीति पूर्वं निश्चितमासीत्। उपरिपठनाय निर्णायकेषु २९ विषयेष्वेव परीक्षा भविष्यति।

नियतकक्ष्यासदृशम् अधिजालिकपठनमपि। रूपरेखा अर्धहोरावधिकी।

तिरुवनन्तपुरम्- अस्मिन् वर्षे जूण् प्रथमदिने नियतप्रवेशोत्सवः न भविष्यति। परं कक्ष्यासमयः प्रातः नववादनात् सायं चतनर्वादनपर्यन्तं भविष्यति। जूण् प्रथमदिनादारभ्य अधिजालिककक्ष्या प्रतिसन्धिसन्तरणाय छात्राणाम् उत्प्रेरकः स्यात्।

प्रथमकक्ष्यायाम् एकादशकक्ष्यायां च नूतनप्रवेशो भवतीत्यतः एते कक्ष्ये विहायैव अधिजालिकपठनानि आयोज्यन्ते। सप्तान्तरसमन्वितायां रीत्यां कक्ष्या न भविता। प्रथमान्तरं पञ्चमकक्ष्यायाः कृते चेत् द्वितीयमन्तरं षष्ठकक्ष्यायाः कृते इति क्रमेण नववादनात् चतुर्वादनपर्यन्तं विविधवर्गाणां कक्ष्या भविष्यति। पृथक् चिताः कक्ष्याः रात्रौ पुनरपि द्रष्टुं शक्यन्ते।

अधिजाविकरक्ष्या राज्यस्तरीया इत्यतः ४५ निमेष इति व्यवस्था नास्ति। रूपरेखानुसापम् अर्धहोरावधिकः समय एव एकस्य विषयस्य कृते निश्चितः वर्तते।

एस्.एस्.एल्.सी.,हयर् सेकन्टरी परीक्षाणां समयक्रमः घोषितः।

तिरुवनन्तपुरम्- राज्ये एस्.एस्.एल्.सी., हयर् सेकन्टरी वोकेशनल् हयर् सेकन्टरी परीक्षाणां समयक्रमः घोषितः। प्लस्-टु परीक्षा प्रातः, एस्.एस्.एल्.सी परीक्षा मध्याह्नादूर्ध्वं च इति निश्चितम्। मेय् २६तः ३० पर्यन्तं परीक्षामायोजयितुमेव शिक्षाविभागः रूपकल्पनाम् अकरोत्।

एस्.एस्.एल्.सी. परीक्षा त्रयाणां विषयाणां कृते, हयर् सेकन्टरी चतुर्णां विषयाणां कृते तथा वी.एच्.एस्.सी. पञ्चानां विषयाणां च कृते परीक्षाः निश्चिताः।

सामाजिकान्तरं पालयित्वा एव आसन्दानां क्रमीकरणं भविष्यति। इतरस्थलेषु समलग्नानां कृते तत्र परीक्षां लेखितुमपि व्यवस्था कृता अस्ति।

राष्ट्रमुद्धर्तुं २० लक्षं कोटिरूप्यकाणाम् आर्थिकाचयः, पूर्णपिधानं चतुर्थक्षणम्

नवदिल्ली- केविड्-१९ भूमिकायाम् आर्थिकप्रतिसन्धौ निमग्नं राष्ट्रम् उद्धर्तुं २० लक्षं केटि रूप्यकाणां आर्थिकाचयेन सह केन्द्रसर्वकारः। आत्मनिर्भर भारत अभियान् इत्येव अस्याः पद्धतेः नाम। राष्ट्रे समस्तानां रंगानाम् उत्तेजनाय अयम् आचयः। कृषकाः कर्मकराः लधूद्योगसंरम्भकाश्च अस्याः पद्धतेः गुणभोक्तारः इति प्रधानमन्त्री नरेन्द्रमोदी वर्यः अवदत्।

राष्ट्रस्थाः मुख्याः रंगाः कोविड् रोगस्य साहचर्येण बाधिताः इत्यतः अमुमाचयम् प्राख्यापयत्।

राष्ट्रस्था आर्थिकव्यवस्था आधारसौविध्यं तान्त्रिकविद्या सामाजिकवैविध्यं उत्पादनवितरणशृङ्घला च अस्माकं स्वयंपर्याप्ततायाः स्थूणाः भवन्ति।

सम्पूर्णपिधानस्य चतुर्थं सत्रं भविष्यति। तत्र राज्यानां पृथक् समाश्वासनियमश्च भविता।

गमनं बहुदुष्करम् (भागः १३१) – 16-05-2020

EPISODE – 131

नूतना समस्या –

“गमनं बहुदुष्करम्”

ഒന്നാംസ്ഥാനം

“കൊറോണാവ്യാപനാത് രാജ്യേ
ഗതാഗതം ഹി നിശ്ചലം
ഏകസ്മാദന്യഭാഗാത്തു
ഗമനം ബഹുദുഷ്ക്കരം”

Narayanan N

पिधाननियमाननुसृत्य अध्ययनवर्षस्य आरम्भाय शिक्षाविभागस्य सन्नाहः।

तिरुवनन्तपुरम्- पिधाननियमान् परिपाल्य अध्ययनवर्षस्य प्रारम्भाय शिक्षाविभागः सन्नद्धो भवति। एतदर्थम् अध्यापकान् सज्जान् कर्तुम् अधिजालप्रशिक्षणपद्धतिः गुरुवासरे आरप्स्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अब्रवीत्। विक्टेर्स् इति नालिकाद्वारा तथा अधिजालद्वारा च प्रशिक्षणं भविता।

कोविड् रोगः तदनुबन्ध्य पिधानं च शिक्षामण्डलं शिथिलमकरोत्। नूतनाध्ययनवर्षस्य आरम्भविषये व्यक्तता नास्ति। तथापि आधुनिकतान्त्रिकविद्यामुपयुज्य अध्ययनं विघ्नरहितं कर्तुमेव उद्यम इति शिक्षामन्त्री अवदत्।

शिक्षकप्रशिक्षणाय रूपरेखा सज्जा भवति। सप्तमकक्ष्यापर्यन्तं शिक्षकाणामेव अधुना प्रशिक्षणम्। सर्वे शिक्षकाः प्रशिक्षणकार्यक्रमे भागभाजः भवेयुः। जूण् प्रथमे दिने विद्यालयेषु अध्ययनप्रारम्भः चिन्तयति। परन्तु साहचर्यम् अनुकूलं नास्ति चेत् अधिजालिकाध्ययनम् आरब्धुं यतिष्यते इत्यपि मन्त्री अवदत्।

PRASNOTHARAM (भागः १३१)- 16-05-2020

EPISODE – 131

 

प्रश्नोत्तरम्।

 

 

 

  1. एतेषु महाकाव्यं चित्वा लिखत। (क) मध्यमव्यायोगः  (ख) कादम्बरी  (ग) नैषधीयचरितम्
  2. नैषधीयचरितस्य कर्ता कः ? (क) कालिदासः  (ख) श्रीहर्षः  (ग) भारविः
  3. नैषधीयचरितमहाकाव्ये कति सर्गाः सन्ति ? (क) २०   (ख) २१  (ग)  २२
  4.  दमयन्त्याः समीपं गत्वा कः नलस्य गुणकथनमकरोत् ? (क) शुकः  (ख) मयूरः  (ग) हंसः
  5. ” कृतमध्यबिलं विलोक्यते “। कां प्रति उक्तमिदं वाक्यम् ? (क) दमयन्तीं   (ख) इन्दुमतीं  (ग) जानकीम्
  6. ” सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव – ” कस्य लक्षणमिदम् ? (क) महाकाव्यस्य  (ख) चम्पूकाव्यस्य  (ग) पुराणस्य
  7. अधोदत्तेषु महापुराणं चित्वा लिखत । (क) नारद  (ख) कपिल  (ग) वारुण
  8. पुराणस्य कति लक्षणानि सन्ति ? (क) ४  (ख) ५   (ग) ६
  9. बुद्धं शरणं गच्छामि। अत्र कर्ता कः ? (क) अहं    (ख) त्वं   (ग) सः
  10. तत्वमसि । अत्र क्रियापदं किम् ? (क) तत्   (ख) त्वम्   (ग) असि

ഈയാഴ്ചയിലെ വിജയി

DIVYACHITHRAN N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Divyachithran N V
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मालद्वीपात् प्रवासिभारतीयैः सह जलयानं कोच्चिं प्रति प्रस्थितम्।

कोच्ची- भारतीयनौसेनायाः पोतः प्रवासिभारतीयैः सह कोच्चीं प्रस्थितः। शुक्रवासरे रात्रौ प्रस्थिते ऐ.एन्.एस्. जलाश्व नामके पोते ६९८ यात्रिकाः सन्ति। महानौकेयं रविवासरे कोच्चीं प्राप्स्यति।

समुद्रमार्गेण प्रवासिनः आनेतुं भारतीय नौसेनायाः ओप्परेशन् समुद्रसेतुः इत्यभियानस्य भागत्वेनैव अयमुद्यमः। यात्रिकेषु १०३ स्त्रियः सन्ति। तासु च १९ अन्तर्वत्न्यः अपि सन्ति। ऊनदशवयसः १४ बालाश्च संघे अन्तर्भवन्ति। परिशोधनां विधायैव ते यानमारूढाः।

मालद्वीपस्थे भारतीयस्थानपतिकार्यालये जालद्वारा पञ्जीकृत्य आजिगमिषूणाम् अनुसूची सम्पादिता। ऐ.एन्.एस्. मगर् नामिका महानौकापि प्रवासिनः प्रत्यानेतुं मालद्वीपं प्राप्ता।