पिधाननियमाननुसृत्य अध्ययनवर्षस्य आरम्भाय शिक्षाविभागस्य सन्नाहः।

तिरुवनन्तपुरम्- पिधाननियमान् परिपाल्य अध्ययनवर्षस्य प्रारम्भाय शिक्षाविभागः सन्नद्धो भवति। एतदर्थम् अध्यापकान् सज्जान् कर्तुम् अधिजालप्रशिक्षणपद्धतिः गुरुवासरे आरप्स्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अब्रवीत्। विक्टेर्स् इति नालिकाद्वारा तथा अधिजालद्वारा च प्रशिक्षणं भविता।

कोविड् रोगः तदनुबन्ध्य पिधानं च शिक्षामण्डलं शिथिलमकरोत्। नूतनाध्ययनवर्षस्य आरम्भविषये व्यक्तता नास्ति। तथापि आधुनिकतान्त्रिकविद्यामुपयुज्य अध्ययनं विघ्नरहितं कर्तुमेव उद्यम इति शिक्षामन्त्री अवदत्।

शिक्षकप्रशिक्षणाय रूपरेखा सज्जा भवति। सप्तमकक्ष्यापर्यन्तं शिक्षकाणामेव अधुना प्रशिक्षणम्। सर्वे शिक्षकाः प्रशिक्षणकार्यक्रमे भागभाजः भवेयुः। जूण् प्रथमे दिने विद्यालयेषु अध्ययनप्रारम्भः चिन्तयति। परन्तु साहचर्यम् अनुकूलं नास्ति चेत् अधिजालिकाध्ययनम् आरब्धुं यतिष्यते इत्यपि मन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *