राष्ट्रमुद्धर्तुं २० लक्षं कोटिरूप्यकाणाम् आर्थिकाचयः, पूर्णपिधानं चतुर्थक्षणम्

नवदिल्ली- केविड्-१९ भूमिकायाम् आर्थिकप्रतिसन्धौ निमग्नं राष्ट्रम् उद्धर्तुं २० लक्षं केटि रूप्यकाणां आर्थिकाचयेन सह केन्द्रसर्वकारः। आत्मनिर्भर भारत अभियान् इत्येव अस्याः पद्धतेः नाम। राष्ट्रे समस्तानां रंगानाम् उत्तेजनाय अयम् आचयः। कृषकाः कर्मकराः लधूद्योगसंरम्भकाश्च अस्याः पद्धतेः गुणभोक्तारः इति प्रधानमन्त्री नरेन्द्रमोदी वर्यः अवदत्।

राष्ट्रस्थाः मुख्याः रंगाः कोविड् रोगस्य साहचर्येण बाधिताः इत्यतः अमुमाचयम् प्राख्यापयत्।

राष्ट्रस्था आर्थिकव्यवस्था आधारसौविध्यं तान्त्रिकविद्या सामाजिकवैविध्यं उत्पादनवितरणशृङ्घला च अस्माकं स्वयंपर्याप्ततायाः स्थूणाः भवन्ति।

सम्पूर्णपिधानस्य चतुर्थं सत्रं भविष्यति। तत्र राज्यानां पृथक् समाश्वासनियमश्च भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *