सी.बी.एस्.इ. १०,१२ कक्ष्यायाः परीक्षाक्रमः १८ दिनाङ्के घोषयिष्यति।

नवदिल्ली- कोविड्-१९ व्यापनकारणात् परिवर्तितायाः सी.बी.एस्.इ. १०,१२ कक्ष्यायापरीक्षायाः क्रमः अस्मिन् मासे १८ दिनाङ्के घोषयिष्यति इति सी.बी.एस्.इ. असूचयत्। परिवर्तितः दिनाङ्कः शनिवासरे घोषिता इति केन्द्र- मानवविभवशेषिमन्त्री रमेष् पोक्रियाल् ट्विट्टर् द्वारा असूचयतासीत्।

परन्तु परीक्षासञ्चालनार्थं काश्चन साङ्केतिकसज्जता करणीया आसीत् । अत एव प्रख्यापनं विलम्बितमिति सी.बी.एस्.सी असूचयत्। जूलै प्रथमतः १५ पर्यन्तं परीक्षाचालनं भविष्यतीति पूर्वं निश्चितमासीत्। उपरिपठनाय निर्णायकेषु २९ विषयेष्वेव परीक्षा भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *