Monthly Archives: May 2020

वातकपरिश्रवः-मृतानां परिवारेभ्यः एककोटिरूप्यकाणां साहाय्यम् आन्ध्रासर्वकारेण विहितम्।

हैदराबाद्- विशाखपट्टणस्थे रासयन्त्रागारे सञ्जातेन विषवातकपरिश्रवेण ११ जनाः मृताः, बहवः चिकित्सालयं च नीताः। मृतानां परिवारेभ्यः आन्ध्रा मुख्यमन्त्री जगन्मोहन् रेड्डी वर्यः एककोटिपरिमितम् आर्थिकसाहाय्यम् उदघोषयत्।

गुरुतरेण अस्वास्थ्येन तीव्रपरिचरणविभागे चिकित्सायां स्थितेभ्यः १० लक्षं रूप्यकाणि,द्वित्रदिनपर्यन्तं चिकित्सामनुवर्तमानेभ्यः एकलक्षरूप्यकाणि, प्राथमिकचिकित्सां समाप्य गृहं गतेभ्यः २५००० रूप्यकाणि च प्राख्यापयत्।

वातकपरिश्रवं संजातं यन्त्रागारं परितःस्थितेभ्यः परिवारेभ्यः १०००० रूप्यकाणि गोविनष्टेभ्यः २०००० रूप्यकाणि च समाश्वासरूपेण दास्यति। वातकपरिश्रवम् अन्वेष्टुं विशेष मुख्यसचिवस्य नेतृत्वे समितिः रूपवत्कृता इत्यपि मुख्यमन्त्री अवदत्। यन्त्रागारस्य समीपेभ्यः ग्रामेभ्य जनान् निष्कास्य अन्यत्र वासयामास।

अद्य प्रभृति प्रवासिनां प्रत्यागमनम्।

दुबाय्/नवदिल्ली- सार्धैकमासपर्यन्तं स्थितायाः आशङ्कायाः अनिश्चितत्वस्य च अन्ते समाश्वासः सञ्जातः। मध्यपूर्व राष्ट्राणि अन्तर्भूय विदेशराष्ट्रस्थान् प्रवासिभारतीयान् प्रत्यानेतुं वन्दे भारत् दौत्यस्य गुरुवासरे शुभारम्भः भवति। गुरुवासरे रात्रौ ९.४० वादने अबुदाबीतः कोच्चिविमानपत्तने एयर् इन्ड्या एक्स्प्रेस् विमानस्य आहमनेन चरित्रदौत्यस्यापि प्रारम्भः स्यात्। दुबाय् तः कोषिक्कोट् विमानं रात्रौ १०.३० वादने आगमिष्यति। आहत्य अष्ट विमानानि प्रथमे दिने विदेशेभ्यो भारतस्य विविधानि नगराणि समागमिष्यति।

दुबाय्-कोषिक्कोट् विमाने १७० यात्रिकाः, अबुदाबी-कोच्ची विमाने १७७ यात्रिकाश्च भविष्यन्ति। एकस्मिन् विमाने २०० यात्रिकाः इति पूर्वं निश्चिकमासीत्। परं सामाजिकान्तरं पालयितुं यात्रिकाणां संख्या न्यूनीकृता।

प्रवासिनां प्रत्यागमने अतीव सुरक्षा पालिता। यात्रायाः प्रारम्भात् पञ्चहोराः प्राक् विमानपत्तनं समायातुं तान् निरदिशत्। कोरोणा विषाणुबाधा नास्तीति निर्णेतुं शीध्रपरिशोधनार्थमेव अयं प्रक्रमः।

सुखदं गृहबन्धनम् (भागः-१३०) – ०९-०५-२०२०

EPISODE – 130

नूतना समस्या –

“सुखदं गृहबन्धनम्”

ഒന്നാംസ്ഥാനം

സ്വകീയജീവരക്ഷായൈ
തഥാ ച പൗരവാസിനാം
പൗരബോധം പുരസ്ക്കൃത്യ
സുഖദം ഗൃഹബന്ധനം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

अघ्ययनवर्षः अष्टमासपरिमितः भविष्यति।

तिरुवनन्तपुरम्- पूर्णपिधानस्य भूमिकायां विद्यालयेषु अध्ययनवर्षम् अष्टमासकालत्वेन न्यूनीकर्तुं पर्यालोचना। जूण् मासे अध्ययनवर्षस्य आरम्भः न साध्यः इति निश्चितप्रायः। अस्यामेवावस्थायां वर्षेस्मिन् अध्ययनकालस्य मासद्वयपर्यन्तं न्यूनीकरणं तदनुसृत्य पाठभागस्यापि न्यूनीकरणं चिन्त्यते।

राज्यशिक्षामन्त्रिभिः साकं केन्द्र मानवविभवमन्त्रालयस्य प्रतिनिधीनां चर्चायामेव अयं निर्णयः। कोविड् विमुक्तेषु राज्येषु विद्यालयानां प्रवर्तनाय केन्द्रस्यानुमतिरस्ति। परं साहचर्यस्य सुरक्षितत्वम् अवश्यम्भावि।

अध्ययनदिनानां न्यूनीकरणेन समं पाठभागानां परीक्षाणां च क्रमे व्यत्ययः भवेत्।

PRASNOTHARAM (भागः १३०) – 09-05-2020

EPISODE – 130

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेषु महाकाव्यं भवति ——।(क)शिशुपालवधम्  (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
  2. ” क्षणे  क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ” केन काव्येन सम्बद्धः भवति ? (क) रघुवंशेन (ख) किरातार्जुनीयेन  (ग) शिशुपालवधेन
  3. उपमा,अर्थगौरवं,पदलालित्यम्  एतानि कस्य काव्ये भवन्ति ? (क) कालिदासस्य (ख) माघस्य  (ग) भारवेः
  4. शिशुपालवधस्य कर्ता कः ? (क) माघः  (ख) कालिदासः  (ग) श्रीहर्षः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९  (ग) २०
  6. शिशुपालवधमहाकाव्ये प्रथमसर्गे द्वारकायां कः आगतवान् ? (क) शिशुपालः  (ख) युधिष्ठिरः  (ग) नारदः
  7. युधिष्ठिरस्य कस्मिन् यज्ञे शिशुपाल श्रीकृष्णयोः युद्धः समजायत ? (क) अश्वमेधे  (ख) राजसूये  (ग) अग्निहोत्रे
  8. शिशुपालः कस्य राज्यस्य राजा भवति ? (क) छेदिः  (ख) अयोध्या (ग) मगधा
  9. नवसर्गगते —— नवशब्दो न विद्यते।(क) दासे (ख) हर्षे  (ग) माघे
  10. “माघे सन्ति त्रयो गुणाः”। अत्र माघे इत्यस्य विभक्तिः का ? (क) सप्तमी  (ख) षष्ठी   (ग) पञ्चमी

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREESHA VINOD
  • Vinod Paul
  • Adidev C S
  • Neha sudheeran
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

गजवीरान् आघोषांश्च परित्यज्य निश्शब्दरूपेण अद्य पूरोत्सवः।

तृशूर्- आघोषं विना केवलम् उपचाररूपेण अद्य पूरोत्सवः सम्पत्स्यते। नववादने तान्त्रिकविघिमनुष्ठीय पापमेक्काव् तिरुवम्पाटि मन्दिरे पिधास्यतः। पूरोत्सवस्य समारम्भात् प्रभृति प्रतिवर्षम् अयमुत्सवः सम्पन्नः आसीत्। परं प्रप्रथममेव अधुना पूरोत्सवः परित्यज्यते। पूररहितं कालं न श्रुतपूर्वम्। एवं स्थिते एव कोविड्-१९ इति महामारी तदनुबन्ध्य पिधानं च समागतम्।

गतवर्षे आरवैः मुखरितः वटक्कुन्नाथपरिसरः अद्य निर्मक्षिकः अभवत्। पूरात् पूरपर्यन्तमिति जनानां कालगणनापि अनेन नियन्त्रणेन निरर्थका जाता। तथापि जनाः याथार्थ्यमङ्गीकृत्य स्वस्थानेष्वेव अवतिष्ठन्ते।