Daily Archives: May 17, 2020

कथं शान्तिर्भविष्यति (भागः १३२०) – 23-05-2020

EPISODE – 132

नूतना समस्या –

“कथं शान्तिर्भविष्यति”

ഒന്നാംസ്ഥാനം

ധനം കാമം മദം മദ്യം
വേഷം തോഷം വ്യഥാ ഭയം
ഏഷു സർവ്വേഷു സക്താനാം
കഥം ശാന്തിർഭവിഷ്യതി ?

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

उम्पुन् चक्रवातः शक्तिं प्राप्नोति, केरले ११ मण्डलेषु महती वृष्टिः तथा वातश्च भविष्यति।

तिरुवनन्तपुरम्- वंगसमुद्रे रूपं प्राप्तः न्यूनमर्दः शक्तिं प्राप्य चक्रवातरूपेण परिवृते साहचर्ये केरलदेशे सवाता महावृष्टिः भविष्यतीति केन्द्र वातावरणविभागः असूचयत्। आगामिनिषु होरासु केरले ११ मण्डलेषु सौदामिन्या वातेन च युक्ता वृष्टिः भविष्यतीति सूचना। वातस्य वेगः प्रतिहोरं ४० कि.मी. भविता। वंगसमुद्रे रूपं प्राप्तः उम्पुन् नामकः चक्रवातः आगामिनिषु षड्होरासु अतितीव्रः भविष्यति।

श्वः प्रातःकालेन चक्रवातः उग्ररूपं प्राप्स्यति। अधुना ओडीषासमीपस्थात् पारद्वीपात् ९९० कि.मी. दूरे एव चक्रवातस्य सञ्चारपथः। एषः बंगाल् ओडीषा तीरं अचिरेण प्राप्स्यति। चक्रवातस्य अतितीव्रत्वे प्रतिहोरं २०० कि.मी. वेगं प्राप्तुं साध्यता अस्ति।

कुजवासरे रात्रौ एष वातः भारततीरे घोररूपेण आगमिष्यति। मत्स्यकर्मकराः समुद्रं मा गच्छत इति जाग्रतानिर्देशः घोषितः। केरलं चक्रवातस्य सञ्चारपथे नास्ति। तथापि तत्प्रभावेण अतितीव्रा वृष्टिः अत्र भविष्यति।

PRASNOTHARAM (भागः १३२) – 23-05-2020

EPISODE – 132

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “बुद्धचरितं  ” कस्मिन् विभागे अन्तर्भवति ?  (क) नाटके  (ख) चरित्रकाव्ये  (ग) महाकाव्ये
  2. बुद्धचरितस्य कर्ता कः ? (क) अश्वघोषः (ख) भासः  (ग) भारविः
  3. बुद्धचरिते कति सर्गाः सन्ति ? (क) २७      (ख) २८    (ग) २९
  4. बुद्धचरितस्य मुख्यरसः कः ? (क) वीरः   (ख) शृङ्गारः   (ग) शान्तः
  5. बुद्धचरिते नायकः कः ? (क) शुद्धोधनः    (ख) बिम्बिसारः   (ग) श्रीबुद्धः
  6. श्रीबुद्धस्य पिता कः ?  (क) शुद्धोधनः  (ख) परमहंसः  (ग) बिम्बिसारः
  7. श्रीबुद्धः कुत्र जनिम् अलभत ? (क) लुम्बिनी  (ख) कुरुक्षेत्र   (ग) मथुरा
  8. श्रीबुद्धस्य भार्या का ? (क) मायादेवी  (ख) यशोधरा  (ग) निवेदिता
  9. श्रीबुद्धस्य माता ——- भवति । (क) शारदा  (ख) मायादेवी  (ग) य़शोधरा
  10. ——–बुद्धस्य पुत्रः भवति । (क) राहुलः  (ख) विवेकः  (ग) भरतः

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHNA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • KISHORE KRISHNA SEVADAI
  • Sreesha Vinod
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”