एस्.एस्.एल्.सी.,हयर् सेकन्टरी परीक्षाणां समयक्रमः घोषितः।

तिरुवनन्तपुरम्- राज्ये एस्.एस्.एल्.सी., हयर् सेकन्टरी वोकेशनल् हयर् सेकन्टरी परीक्षाणां समयक्रमः घोषितः। प्लस्-टु परीक्षा प्रातः, एस्.एस्.एल्.सी परीक्षा मध्याह्नादूर्ध्वं च इति निश्चितम्। मेय् २६तः ३० पर्यन्तं परीक्षामायोजयितुमेव शिक्षाविभागः रूपकल्पनाम् अकरोत्।

एस्.एस्.एल्.सी. परीक्षा त्रयाणां विषयाणां कृते, हयर् सेकन्टरी चतुर्णां विषयाणां कृते तथा वी.एच्.एस्.सी. पञ्चानां विषयाणां च कृते परीक्षाः निश्चिताः।

सामाजिकान्तरं पालयित्वा एव आसन्दानां क्रमीकरणं भविष्यति। इतरस्थलेषु समलग्नानां कृते तत्र परीक्षां लेखितुमपि व्यवस्था कृता अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *