Daily Archives: May 26, 2020

दिल्ली तुग्लाक्काबादे आवासश्रेण्यां महती अग्निबाधा, १५०० कुटीराणि दग्धानि।

नवदिल्ली- तुग्लक्काबादस्थायाम् आवासश्रेण्यां सोमवासरे रात्रौ सञ्जातायाम् अग्निबाधायां १५०० परिमितानि कुटीराणि दग्धानि अभवन्। अर्धरात्रौ १२.५० वादने एव अग्निबाधा सञ्जाता।

२८ अग्निशमनोपकरणानि उपयुज्य हाराः परिमितं परिश्रमं कृत्वा प्रातः ३.४० वादने एव अग्निबाधा नियन्त्रणाधीता अभवत्। तत्र वसन्तः जनाः निद्रां कुर्वाणाः आसन्। झटित्येव आरक्षिणः अग्निशमनदलीयाश्च सर्वान् तान् ततः निरकासयन्।

१५०० कुटीराणां नाशेन एकरात्रावधिकेन कालेन सहस्रपरिमिताः जनाः आवासरहिताः अभवन्। कोपि मृत्युं प्रापेति आवेदितम्। दिल्लि सर्वकारः नष्टानां वस्तुनां गणनां कुर्वन्नस्ति।