कोविड् प्रतिरोधे केरलीयप्रतिरूपम्- बी.बी.सी. प्रणाल्याम् अतिथिरूपेण स्वास्थ्यमन्त्री के.के. शैलजा

तिरुवनन्तपुरम्- कोविड् प्रतिरोधे केरलेन आर्जितं श्रेष्ठत्वं बी.बी.सी. प्रणाल्या सह अभ्युपेत्य स्वास्थ्यमन्त्री के.के. शैलजावर्या अभाषत। सोमवासरे रात्रौ नववादने बी.बी.सी वेर्लड् मध्ये अतिथिरूपेण मन्त्रिणी आगता। पञ्चनिमेषपर्यन्तं साक्षात्कारं तिरुवनन्तपुरात् सततं सम्प्रेषणमकरोत्।

चीनायां वुहाने यदा रुग्णाः आवेदिताः तदैव केरलराज्ये अपि नियन्त्रणशृङ्खलामुद्घाट्य सज्जता आयोजिता। ततः रोगनिर्णयाय उपकरणानि सज्जीकृतानि। बहिर्देशादागम्यमानान् निरीक्षितुं विमानपत्तने नौकानिस्थाने वीथ्यां च सौविध्यानि सज्जीकृतानि इति मन्त्रिणी अवदत्।

रोगलक्षणानि प्रकटितान् जनान् विशेषनिरीक्षणे अवासयत्। स्रवपरिशोधनानन्तरं रोगे स्थिरीकृते तान् चिकित्सालयं प्रावेशयत्। एषा एव रीतिः अत्र आयोजिता इति सा अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *