एम्.पी. वीरेन्द्रकुमार् वर्यः निर्यातः।

कोषिक्कोट्- समाजवादी दलस्य वरिष्ठः नेता, चिन्तकः, ग्रन्थकारः, सांस्कृतिकरंगे लब्धप्रतिष्ठः, राज्यसभासदस्यश्च एम्.पी. वीरेन्द्रकुमार् वर्यः दिवंगतः। गुरुवासरे रात्रौ ११.३० वादने कोषिक्कोट् देशे आसीदस्य अन्त्यम्। हृदयाघात एव मृत्युकारणम्। स ८४ वयस्कः आसात्।

बहुकालं यावत् जनतादलस्य राज्यस्तरीयाध्यक्षपदवीम् अयमलञ्चकार। कोषिक्कोट् मण्डलात् लोकसभासदस्यत्वेन जितः अयं केन्द्रियमन्त्रिपदवीमपि निरवहत्। केरलीय विधानसभायां १९८७ तमे वर्षे अयं सदस्यत्वेन चितः तदानीं वनं विभागस्य मन्त्री अपि आसीत्।

१९३६ जूलै २२ दिनाङ्के वयलाट् मण्डलस्थे कल्पट्टा देशे भूजातः अयं तत्र प्राथमिकशिक्षासमाप्त्यनन्तरं कोषिक्कोट् सामूतिरिकलालयात् स्नातकपरीक्षामुत्तीर्णः अभवत्। ततः मदिराशि विश्वविद्यालयात् तत्त्वशास्त्रे स्नातकोत्तरबिरुदमवाप्य अमेरिक्का सिन्सिनाट्टी विश्वविद्यालयात् एम्.बी.ए. बिरुदमपि सम्पादितवान्।

अनन्तरं समाजवादप्रस्थाने समाकृष्टः अयं तत्र लब्धप्रतिष्ठः अभवत्। तस्य वामपक्षीयं मनः बहूनां राजनैतिकघटनानां निदानमभवत्। १९७९ तमे वर्षे मातृभूमी कैरलीदैनिक्याः प्रबन्धकसम्पादकपदव्याम् अयं नियुक्तः। तत्रापि शोभायमानं प्रवर्तनम् अनेन कृतम्।

अनेन बहवः साहित्यग्रन्थाः विरचिताः। हैमवतभूविल् इति सञ्चारसाहित्यकृतिः नितरां प्रसिद्धा जाता। १९९१ तः २०१४ पर्यन्तं बहवः साहित्यपुरस्काराः अनेन प्राप्ताः। अस्य प्रभाषणं साहित्य सांस्कृतिकमण्डले प्रसिद्धं भवति।

अस्य भौतिकदेहस्य संस्कारकर्म शुक्रवासरे कल्पट्टा देशे भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *