पाकिस्ताने कराच्ची समीपे विमानापघातः।

इस्लामाबाद्- पाकिस्ताने लाहोर् नगरात् कराच्चीं गच्छत् विमानं ९१ यात्रिकैः सप्तकर्मकरैः च साकं कराच्ची विमानपत्तनसमीपे भङ्क्त्वा न्यपतत्। पाकिस्तान् इन्टर्नाषणल् एयर्लैन्स् संस्थायाः ए ३२० विमानमेव पतितम्।

लाहोर् तः कराच्चीं आगच्छत् विमानं कराच्ची विमानपत्तने अवतरणात् ईषन्निमेषात् प्रागेव अपघाते पतितम्। विमानपत्तनस्य समीपे जिन्ना गार्डन् इति जनवासकेन्द्रे एव विमानं पतितम्। समीपस्थेभ्य प्रासादेभ्यः विमानावशिष्टेभ्यः च धूमपटलानि उद्गच्छन्ति द्रष्टुं शक्यन्ते। अपघाकमधिकृत्य अधिकानि विवरणानि अधुना न लभ्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *