कस्मिन्नपि विद्यालये अध्ययनशुल्कं न प्रवर्धयेत्। अध्ययनरीतिः क्रमीकरणीया- मुख्यमन्त्री।

तिरुवनन्तपुरम्- अस्मिन् साहचर्ये राज्ये कोsपि विद्यालयः शुल्कवर्धनाय न यतताम् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। अस्मिन् विपत्काले छात्रान् रक्षाकर्तृृन् च दुष्करावस्थायां मा पातयेत् इत्यपि वार्ताहरमेलने स अवदत्।

नूतने साहचर्ये तदनुसारेण पछनरीतिः क्रमीकरणीया। एतत्कर्म एव शिक्षामण्डले अवश्यकरणीयम् भवति। निजीयविद्यालयेष्वपि एषा रीतिः अनुवर्तनीया।

वृत्तिनष्टेन आयस्य न्यूनता अस्ति। तदानीं जनानाम् साहाय्यम् अवश्यं करणीयम्। तेषां शिरसि लग्नस्य भारस्य लघूकरणमेव अस्माकं लक्ष्यं भवेत्। एतस्मिन्नवसरे शुल्कप्रवर्धनादिषु कर्मसु विद्यालयाधिकारिणां व्यापारः न प्रोत्साहनीयः।

Leave a Reply

Your email address will not be published. Required fields are marked *