Monthly Archives: September 2019

चन्द्रयान-२ चन्द्रनिकटे, आशयविनिमयः विनष्टःः, प्रतीक्षया साकं ऐ.एस्.आर्.ओ.

बंगलूरु- चन्द्रोपरितले मृदुस्पर्शाय उद्यतस्य चन्द्रयानस्य विक्रं लान्टर् उपकरणेन सह आशयविनिमयः विनष्टः इति सूचना। चन्द्रोपरितलात् २.१ कि.मी. उन्नतिपर्यन्तं सूचनाः लब्धाः ततः बन्धः विनष्टः अभवदिति ऐ.एस्.आर्.ओ. अध्यक्षः के. शिवन् वर्यः प्रातः २.१८ वादने आवेदयत्। सूचनाः अन्विष्यमाणः अस्मि पछनानन्तरमेव किमभवदिति वक्तुं पारयामि इत्यपि डो. शिवन् वर्यः अवदत्।

साङ्केतिकसूचनाः न बहिरानीताः, चन्द्रोपरितले स्पर्शनमभवद् वा न वेति न व्यक्तः चन्द्रयानदौत्यस्य प्रधानांशभूतम् ओर्बिट्टर् एकवर्षं यावत् चन्द्रं प्रदक्षिणीकुर्वदवतिष्ठते। विक्रं लाण्टरेन सह बन्धः पुनःस्थापयितुं शक्यते इति प्रतीक्षया तिष्ठति ऐ.एस्.आर्.ओ. संस्था।

अद्य अध्यापकदिनम्।

स्वतन्त्रभारतस्य द्वितीयः राष्ट्पतिः विद्याभ्यासविचक्षणः क्रान्तदर्शी चासीत् डो. एस् राधाकृष्णः। अयं शास्त्रसाङ्केतिकमण्डलानां साहाय्येन अन्धकाराविष्टस्य भारतस्य नवोद्धारणाय यत्नं कृतवान्। अस्य महात्मनः जन्मदिनं (सेप्तंबर् ५) देशीयाध्यापकदिनत्वेन आचरति।  विद्याभ्यासः,  मानविकता, स्वतन्त्रता, देशीयबोधः, लोकसमाधानम् इत्यादिषु विषयेषु अयं महात्मा प्रभाषणानि व्यदधात्। चत्वारिंशदधिकानां ग्रन्थानां रचनाद्वारा प्रथितस्यास्य आत्मकथा भवति मम सत्यान्वेषणम्। स्वामिनः विवेकानन्दस्यानन्तरं भारतसंस्कारं, तत्वचिन्ताञ्चाधिकृत्य समस्तलोकान् प्रति विज्ञापितवानयं महाभागः गुरूणां गुरुरिति गण्यते।  अस्मिन् दिने सर्वेभ्यो गुरुभ्यो अध्यापकदिनस्य शुभाशयाः।

शिक्षामन्त्रिणः श्रावणोत्सवाशंसाः

तिरुवनन्तपुरम्- केरलदेशः पुनरपि श्रावणोत्सवं स्वागतीकर्तुं सन्नह्यति। अतिभीकरे जलोपप्लवे ईषत् शान्ते जाते केरलीयाः स्वकीयम् उत्सवं सम्यगाचरितुं सज्जाः भवन्ति। हस्तनक्षत्रादारभ्य श्रावणोत्सवः आचर्यते केरलीयैः।
अस्मिन् वर्षे सेप्तम्बर् द्वितीये दिने एव हस्तनक्षत्रम् आयाति। तद्दिने केरलीयेषु सर्वेषु विद्यालयेषु श्रावणोत्सवसमारोहः भवतीति शिक्षा विभागस्य सूचना आसीत्। अनेन सह शिक्षामन्त्रिणः सन्देशः सर्वेषु विद्यालयेषु पठनीयः इत्यपि सूचना आसीत्। सन्देशे/स्मिन् शिक्षामन्त्री सूचयति यत् केरलीयानां सर्ग-राग-वर्ण-उत्सवः भवति ओणम् इत्याख्य‌ःश्रावणोत्सवः। एषः मनः शरीरं अन्तरिक्षं च शुद्धीक्रियमाणः वर्णोत्सवः भवति। अस्मिन् वर्णोत्सवे अस्माभिः अधिकतया उपयुज्यमानः प्रकृतिविभवः भवति वर्णपुष्पाणि। प्रतीकात्मकरूपेणैव पुष्पाणि अस्माभिः एतदर्थम् उपयुज्यन्ते।
सहजीविनां प्रकृतेश्च वेदनाः प्रत्यभिज्ञाय सा स्वस्यैव वेदना इति निर्णीयमानस्य मनसः स्वामी भवितुम् अयमुत्सवः अस्मान् प्रेरयति। समत्वभावानां लय एव ओणोत्सवः। तथा सन्तुलनस्य केन्द्रबिन्दुश्च भवति। मानवमनसः श्रेष्ठतायाः प्रभवस्थानं भवति अयमुत्सवः। धर्मनिरपेक्षं मन एव अस्योत्सवस्य योगदानम्।
सन्देशोयं ह्यस्तने सर्वेषु विद्यालयेषु पठितः अस्ति।

श्रावणो द्वारमागतः – 07-09-2019

EPISODE – 95

नूतना समस्या –

“श्रावणो द्वारमागतः”

ഒന്നാംസ്ഥാനം

വർഷമേഘേ തിരോഭൂതേ
ഹർഷേ ദേശേഷു വ്യാപൃതേ
കൃഷിം ച മാബലിം സ്മർത്തും
ശ്രാവണോ ദ്വാരമാഗത:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

भूतपूर्वःकेन्द्रमन्त्री आरिफ् मुहम्मद् खान् केरलस्य नूतनः राज्यपालः।

नवदिल्ली- केन्द्रमन्त्रिचरः आरिफ् मुहम्मद् खान् वर्यः केरले राज्यपालत्वेन नियुक्तः। इदानीन्तनः राज्यपालस्य ज. पी. सदाशिवं वर्यस्य दायित्वं सेप्तम्बर् प्रथमे वारे अवसितं भविता। अत एव नूतनं राज्यपालं न्ययुङ्क्त। ईसस्य स्वकीये राज्ये राज्यपालपदवीं स्वीकर्तुम् अतीव सन्तुष्टिरस्तीति नियुक्तः राज्यपालः अवदत्।

उत्तरप्रदेशे बुलन्द् शहर् देशीयः भवति आरिफ् मुहम्मद् खान् वर्यः। छात्रनेतृत्वं स्वीकृत्य अयं राजनैतिकरंगमागतः। भारतीय क्रान्ति दलस्य प्रत्याशी भूत्वा  सियाना मण्डलात्  निर्वाचनार्थम् अयतत। परंतु पराजितः अभवत्।

१९८० तमे वर्षे कोण्ग्रेस् दलस्य प्रत्याशी भूत्वा लोकसभां प्रविष्टः। ततः राजीवगान्धिना सह मतभेदं प्रकटय्य कोण्ग्रेस् दलं तत्याज। इस्लां व्यक्तिनियमप्रस्तावे आसीत् मतभेदः। अनन्तरं स जनतादले अंगमभवत्। जनतादल् शासनकाले अयं व्योमयान- ऊर्जविभागयोः मन्त्री अभवत्। ततः जनतादलं परित्यज्य बि.एस्.पी. दले अङ्गमभवत्। ततः १९९८ तमे वर्षे पुनः लोकसभाङ्गत्वेन चितः। २००४ तमे वर्षे भा.ज.पा. दले अङ्गत्वं स्वीचकार। २००७ तमे वर्षे स भा.ज.पा. दलमपि पर्यत्यजत्। तथापि मुत्तलाख् विषये स प्रधानमन्त्रिणं मोदीवर्यं अन्वकूलयत्।

पञ्चसु राज्येषु राज्यपालानां नियुक्तिः अद्य जाता।

ऐ.सि.टि परिशीलनम्।

इरिञ्ञालक्कुटा – उपजिल्लायां माध्यमिकस्तरीयानां संस्कृताध्यापकानां कृते एकदिनात्मकम् ऐ.सि.टि परिशीलनं प्राचलत्। उपजिल्ला संस्कृताध्यापककौण्सिल् इत्यस्य नेतृत्वे बि.आर्.सि. मध्ये रामचन्द्रः, ज्योतिष्, जोस् प्रभृतयः कक्ष्याचालनमकुर्वन्।  अनेन परिशीलने सन्निहिताः अध्यापकाः नववाण्यामधिष्ठितानि पठनोपकरणानि, संस्कृतरचनापद्धतीः अन्तर्जालसङ्केतान् च उपयुज्य कक्षाचालनाय   प्रभाविताः जाताः।

PRASNOTHARAM – 07-09-2019

EPISODE – 95

 

प्रश्नोत्तरम्।

 

 

 

  1. धनिकेन अपव्ययः ——–। (क) क्रियेते (ख) क्रियते (ग)क्रियन्ते
  2. सीतया ——-ज्वाल्यते।(क) दीपं  (ख) दीपेन (ग) दीपः
  3.  —— मन्त्री उद्यते। (क) राज्ञा (ख) राजा (ग) राज्ञे
  4. तया दिनाङ्कः ——-। (क) स्मर्यते  (ख) स्मर्येते  (ग) स्मर्यन्ते
  5. ज्योतिषिकेण ——-निर्दिश्यते।(क) वासरौ (ख) वासरः (ग) वासरं
  6. ——-पुटः परिशील्यते।(क) छात्राः (ख)छात्रेण (ग) छात्रः
  7. मात्रा ——-स्मर्यन्ते। (क) पुत्रः (ख)पुत्रौ  (ग) पुत्राः
  8. स्वामिना भृत्याः ——।(क) आदिश्यन्ते (ख) आदिश्येते (ग) आदिश्यते
  9. दीपेन प्रकाशः ——–।(क)प्रसार्यते (ख)प्रसार्येते (ग)प्रसार्यन्ते
  10. धीमद्भिः ——–निन्द्यन्ते।(क) मूढः (ख) मूढाः (ग) मूढौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Divyachithran N V
  • Adwaith C S
  • Dawn Jose
  • Manoharan Gopalan
  • Saraswathy
  • Beena Manoj

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”