Monthly Archives: September 2019

राज्यस्तरीयः संस्कृतदिनसमारोहः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् नगरे।

पालक्काट्- भारतस्य सांस्कृतिकं मूल्यं परम्परारूपेण संक्रम्यमाणा भाषा भवति संस्कृतम्। संस्कृतम् आधारीकृत्यैव भारते प्रान्तीयभाषाः विकसिताः पल्लविताः कुसुमिताश्च अभवन्। एषा चिरपुरातना अपि नित्यनूतना भवति। अत एव समाजः अद्य संस्कृतमाधुर्यमनुभवितुं व्यग्रो/स्ति।

     संस्कृतशिक्षाविकासाय केरलराज्यसर्वकारेण बह्यः योजनाः प्रवृत्तिपथमानीताः। प्रथमकक्ष्यातःआरभ्य संस्कृतं पठितुं सौविध्यम् अद्य केरलेष्वेव विद्यते। संस्कृतदिनाचरणमपि बहोः वर्षादारभ्य समुचितरूपेण आयोज्यते सर्वकारेण।

     श्रावणपूर्णिमातिथिरेव संस्कृतदिनत्वेन आचर्यते। १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीयमानवसंसादनमन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृतदिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनसमारोहः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधानसभासामाजिकस्य षाफी परम्बिल् वर्यस्य आध्यक्ष्ये पालक्काट् लोकसभासामाजिकः वी.के. श्रीकण्ठन् वर्यः अस्य उद्घाटनं विधास्यति। सार्वजनीन शिक्षा निदेशकः डो. जीवन् बाबू ऐ.ए.एस्. वर्यः स्वागतं तथा संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी वर्या कृतज्ञतां च व्याहरिष्यति। राज्य-शैक्षिकानुसन्धान-प्रशिक्षण परिषदः निदेशकः डो.जे.प्रसाद् वर्यः संस्कृतगिनसंन्देशं विधास्यति। पण्डितसमादरणे अभिनयतिलकं श्री. पी.के.जी. नम्ब्यार्, पद्मश्री डो. पी.आर्. कृष्णकुमार्, श्री. एन्.पी. नटराजशर्मा, डो. एन्. एम्. इन्दिरा प्रभृतयः समादरिष्यन्ते।

     मध्याह्ने स्स्कृतगानमालिका, संस्कृतं ह्रस्वचलचित्राणि प्रभृतयः सांस्कृतिककार्यक्रमाः भविष्यन्ति।

 

PRASNOTHARAM – 21-09-2019

EPISODE – 97

 

प्रश्नोत्तरम्।

 

 

  1. भगिनी ——श्रावयति।(क)वार्ता  (ख) वार्तायां (ग) वार्ताम्
  2. भगिन्या वार्ता ——-। (क) श्राव्यते (ख) श्राव्येते (ग) ्श्राव्यन्ते
  3. रुग्णः ——सेवते। (क) गुलिकाः (ख) गुलिकैः  (ग) गुलिकया 
  4.  ——-गुलिकाः सेवन्ते।(क) रुग्णः (ख) रुग्णाः (ग) रुग्णेन
  5.  ——-सूक्तीः सङ्गृह्णाति।(क) छात्रः (ख) छात्रौ  (ग) छात्राः
  6. ——–सूक्तयः सङ्गृह्यन्ते। (क)छात्रेण  (ख) छात्रः (ग) छात्राः
  7. गृहस्थः कर्मकरीः ——–। (क) प्रेषयन्ति (ख) प्रेषयति  (ग) प्रेषयसि
  8. गृहस्थेन कर्मकर्यः ——-। (क) प्रेष्यते (ख) प्रेष्येते (ग) प्रेष्यन्ते
  9. वनदेवता ——–रक्षति।(क) वनम्  (ख) वने (ग) वनेन
  10. वनदेवतया वनं  ——। (क)रक्ष्येते (ख) रक्ष्यन्ते (ग) रक्ष्यते

ഈയാഴ്ചയിലെ വിജയി

MAYA P R (8 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

  • वार्ताम्
  • श्राव्यते
  • गुलिकाः
  • रुग्णेन
  • छात्रः
  • आत्रेण
  • प्रेषयति
  • प्रेष्यन्ते
  • वनं
  • रक्ष्यते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

हिन्दीभाषायाः प्रचारणम्- अमित्षावर्यस्य प्रस्तावना अपसरणीया इति ममता बानर्जीवर्या।

कोल्कत्ता- राष्ट्रे हिन्दीभाषायाः उपयोगः व्यापनीयः इति केन्द्रिय गृहमन्त्रिणः अमित्षा वर्यस्य प्रस्तावनां निरस्य पश्चिमवंगमुख्यमन्त्री ममता बानर्जीवर्या तथा द्राविड-मुन्नेट्टकषकम् अध्यक्षः एं.के. स्टालिन् वर्य़प्रभृतयः राजनैतिकनेतारश्च रंगमागताः।

हिन्दी दीनाचरणाय आशंसामर्पयन्ती ममता बानर्जीवर्या ट्विट्टर् द्वारा एव अमित्षा वर्यस्य वादः निराकृतवती। सर्वासां भाषाणां संस्कृतीनां च आदरः अवश्यमेव, परं मातृभाषा न विस्मर्तव्या इति सा ट्वीट्टर् मध्ये असूचयत्। एकं राष्ट्रम् एका भाषा इत्याशयं संसूच्य पूर्वं अमित्षा वर्येण ट्वीट्टर् प्रकाशिता आसीत्। तदा हिन्दी भाषायाः एव तादृशी शक्तिरस्तीत्यपि तेन सूचितमासीत्।

हिन्दी भाषाप्रचारणे बलात्कारः नानुवदनीय इति एं.के. स्टालिन् वर्यः अवदत्। एतत् राष्ट्रस्य एकतायै प्रतिबन्धः, अतः अमित्षावर्येण प्रस्तावना अपसरणीय इत्यपि स अवदत्।

अद्य श्रीनारायणजयन्तीसमारोहः, आकेरलं जनाः गुरोः स्मरणायां जयन्तीमाचरन्ति।

तिरुवनन्तपुरम्-  अद्य गुरुदेवजयन्ती। विविधैः आध्यात्मिककार्यक्रमैः सर्वत्र गुरुजयन्तीसमारोहः प्रवर्तते। केरलीयः समाजपरिष्कर्ता नवोत्थाननायकश्चासीत् गुरुदेवः इति केरलीयैः व्यवह्रियमाणः श्रीनारायणगुरुदेवः।

     केरलेषु अनुवर्तितानि सवर्णाधिपत्यम् अस्पृश्यतादीनि सामाजिकासमत्वानि विरुध्य केरलीयान् नवोत्थानं प्रति नीतवान् असौ। जातिव्यवस्थां विरुद्धेषु प्रमुखः भवत्ययम्। ब्राह्मणाधिपत्यकाले विद्यालयान् मन्दिराणि च स्वयं संस्थाप्य अवर्णानाम् उन्नमनाय स प्रायतत। अहिंसापरा तत्त्वचिन्ता तस्य मुखमुद्रा आसीत्।

     १८५६ तमे वर्षे चेम्पषन्त्यां भूजातः असौ १९२८ सेप्तम्बर् २० तमे दिनाङ्के स्वकीये ७२ तमे वयसि स ऐहिकं देहं तत्याज।

     एका जातिः एको धर्मः एको देवः इत्यासीत्    तस्य सिद्धान्तः।स्वकीयानाम् आदर्शानां प्रचारणाय डो. पल्पूवर्यस्य प्रेरणया अयं १९०३ तमे वर्षे श्रीनारायणधर्मपरिपालनयोग इति संघटनां संस्थापयामास।

“जातिभेदं मतद्वेषं विना यत्र नराः समे।

सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः।।” इति तस्य वचनम् अद्यापि केरलेषु मुखरितं वर्तते।

अद्य श्रावण(तिरुवोण)महामहः

स्नेहस्य साहोदर्यस्य ऐश्वर्यस्य एकतायाश्च सनदेशम् उद्घोषयन् अस्माकं देशीयोत्सम् अद्य आघुष्यते। अस्मिन्नसरे सर्वेभ्यो नववाणीपरिवारस्य शुभकामनाः

जालियन् वालाबाग् स्थले प्रणम्य कान्टर्बरी आर्च् बिषप्

अमृतसर्- जालियन्वालाबाग् राष्ट्रिय-संग्रहालयस्य सोपानेषु मुखं संयोज्य समूहहत्यायां नष्टप्राणान अनुस्मृत्य च कान्टर्बरी धर्ममुख्याध्यक्षः जस्टिन् वेल्बी वर्यः। पञ्चाब् राज्यस्थे जालियन्वालाबाग् स्थले ब्रिट्टीष् सेन्येन कते समूहहत्याकाण़्डे क्षमां याचमानः स देवं प्रार्थयामास। ब्रिट्टन् देशस्थायाः आङ्ग्लिक्कन् सभायाः अध्यक्षः बिषप् वेब्ललीवर्यः कुजवासरे एव जालियन्वाललाबाग् स्थलमागतवान्।

     ते किमकुर्वन् इति ते स्मरेयुः, तेषां स्मरणा सजीवा तिष्ठेत् अत्र संजातम् आगस्कर्म स्मरन् लज्जालुर्भवामि, तस्मिन् खेदं निवेदयामि। धर्माध्यक्षः इत्यवस्थायां तं दुरन्तमनुस्मृत्य विलपामि- इति आर्च् बिषप् अवदत्। सन्दर्शनसूचनां चित्राणि च स ट्विट्टर् द्वारा प्रकाशितवान्। अमृतसरे समूहहत्या संजातं स्थलम् अद्य साक्षात्कृतवान् तदा अहं कठिनां व्यथां अगाथा लज्जां च अनुभवामि। अत्र बहवः सिख् हेन्दव इस्लामीय जनान् ब्रिट्टीष् सेन्यं गोलिकाप्रहारेण व्पायादयत्। इति स ट्विट्टर् मध्ये सूचितान्।

      जालियन् वालाबाग् समूहहत्यायाः शततमे वार्षिके तां हत्यां विनिन्द्य स ट्विट्टर् द्वारा क्षमाम् याचते स्म।

सर्वकारं सैन्यं न्यायतन्त्रं च विमर्शयितुं पौराणामधिकारः अस्ति। तत् राष्ट्रद्रोहत्वेन व्याख्यातुं न शक्नोति- न्यायाधीशः दीपक् गुप्ता।

अहम्मदाबाद्- सर्वकारं सैन्यं न्यायतन्त्रं च विमर्शयितुं भारते पौराणाम् अधिकारः अस्ति। तादृशं विमर्शनं राष्ट्रद्रोहपरमिति व्याख्यातुं न शक्यम् इति सर्वोच्चन्यायालयस्य न्यायाधिपः दीपक् गुप्तावर्यः अवदत्। तादृशं विमर्शनं यदि निरुध्यते तर्हि राष्ट्रमिदं प्रजातन्त्रघटनातः सैन्यतन्त्रघटनायां पतिष्यति इत्यपि स न्यगादीत्।

अहम्मदबादस्था काचन संस्थाया तथा न्या. पी.डी.देशायि स्मारकप्रभाषणसमितिना च संयुक्तेन आयोजिते अधिवेशने राष्ट्रद्रोहम् अभिप्रायस्वातन्त्र्यं च इति विषये भाषमाण आसीत् न्यायाधीशः।

एतत् स्वकीयः वैयक्तिकः अभिप्रायः इति सूचयन् स प्रभाषणमारभत।

सुखं हा कुत्र वर्तते – 14-09-2019

EPISODE – 96

नूतना समस्या –

“सुखं हा कुत्र वर्तते”

ഒന്നാംസ്ഥാനം

നിജഹസ്തസ്ഥിതം രത്ന-
മദൃഷ്ട്വാ മാനവൈസ്സദാ
മൃഗ്യതേ പൃച്ഛ്യതേ ചൈവം
സുഖം ഹാ കുത്ര വർതതേ?

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHRAM – 14-09-2019

EPISODE – 96

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः प्रगतिं ——-। (क) प्राप्नुतः  (ख) प्राप्नोति  (ग) प्राप्नुवन्ति
  2.  छात्रेण प्रगतिः ——-। (क) प्राप्यते  (ख) प्राप्येते  (ग) प्राप्यन्ते
  3. अर्चकः —— करोति । (क) पूजा (ख) पूजया (ग) पूजां
  4. अर्चकेन ——– क्रियते।(क) पूजा (ख) पूजे (ग) पूजाः
  5.  —— भिक्षां याचति। (क) भिक्षुकः (ख) भिक्षुकौ  (ग) भिक्षुकाः
  6.  ——- भिक्षा याच्यते । (क) भिक्षुकेन  (ख) भिक्षुकः (ग) भिक्षुकं
  7. बालः मातरं ——-। (क) वदसि (ख) वदामि (ग) वदति
  8.  बालेन माता ——-। (क) उद्यते  (ख) उद्येते (ग) उद्यन्ते
  9.  कपिः शाखाः ——–। (क) कम्पयसि(ख) कम्पयति (ग) कम्पयमि
  10.  कपिना शाखाः ——–। (क) कम्प्यते (ख) कम्प्यन्ते (ग)कम्प्येते

ഈയാഴ്ചയിലെ വിജയി

BINDU P

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Bindu P
  • Divyachithran N V
  • Gokuldas
  • Sathyan Kaveettil

ശരിയുത്തരങ്ങള്‍

  1. प्राप्नोति
  2. प्राप्यते
  3. पूजां
  4. पूजा
  5. भिक्षुकः
  6. भिक्षुकेन
  7. वदति
  8. उद्यते
  9. कम्पयति
  10. कम्प्यन्ते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केन्द्रमन्त्रिचरः वरिष्ठः अभिभाषकः रांजठ्मलानि वर्यः निर्यातः

नवदिल्ली- भूतपूर्वः केन्द्रमन्त्री सर्वोच्चन्यायालये वरिष्ठः अभिभाषकश्च रांजेठ्मलानिवर्यः दिवमगात्। स ९६ वयस्कः आसीत्। रवीवासरे प्रातः एव स ऐहिकं देहमत्यजत्। अधुना राष्ट्रिय-जनता-दलस्य राज्यसभासदस्यत्वेन वर्तमानः आसीत्। वाजपेयी संसदि नियममन्त्री आसीत्। रां बूल्चन्द् जेठ्मलानि इत्येव पूर्णं नाम।

     सर्वोच्चन्यायालये अधिकवेतनस्वीकर्तृषु अन्यतम आसीतदयम्। भारतीय-आभिभाषकसमितेः अध्यक्षपदवीमपि अयमलंचकार।

     पाकिस्तानस्य सिन्ध् प्रविश्यायां भूजातः असौ भारत-पाकिस्तानविभजनानन्तरं मुम्बै नगरमध्यवसत्।