Daily Archives: September 13, 2019

अद्य श्रीनारायणजयन्तीसमारोहः, आकेरलं जनाः गुरोः स्मरणायां जयन्तीमाचरन्ति।

तिरुवनन्तपुरम्-  अद्य गुरुदेवजयन्ती। विविधैः आध्यात्मिककार्यक्रमैः सर्वत्र गुरुजयन्तीसमारोहः प्रवर्तते। केरलीयः समाजपरिष्कर्ता नवोत्थाननायकश्चासीत् गुरुदेवः इति केरलीयैः व्यवह्रियमाणः श्रीनारायणगुरुदेवः।

     केरलेषु अनुवर्तितानि सवर्णाधिपत्यम् अस्पृश्यतादीनि सामाजिकासमत्वानि विरुध्य केरलीयान् नवोत्थानं प्रति नीतवान् असौ। जातिव्यवस्थां विरुद्धेषु प्रमुखः भवत्ययम्। ब्राह्मणाधिपत्यकाले विद्यालयान् मन्दिराणि च स्वयं संस्थाप्य अवर्णानाम् उन्नमनाय स प्रायतत। अहिंसापरा तत्त्वचिन्ता तस्य मुखमुद्रा आसीत्।

     १८५६ तमे वर्षे चेम्पषन्त्यां भूजातः असौ १९२८ सेप्तम्बर् २० तमे दिनाङ्के स्वकीये ७२ तमे वयसि स ऐहिकं देहं तत्याज।

     एका जातिः एको धर्मः एको देवः इत्यासीत्    तस्य सिद्धान्तः।स्वकीयानाम् आदर्शानां प्रचारणाय डो. पल्पूवर्यस्य प्रेरणया अयं १९०३ तमे वर्षे श्रीनारायणधर्मपरिपालनयोग इति संघटनां संस्थापयामास।

“जातिभेदं मतद्वेषं विना यत्र नराः समे।

सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः।।” इति तस्य वचनम् अद्यापि केरलेषु मुखरितं वर्तते।